chevron_left उद्योग पर्व अध्याय १३
शल्य उवाच:
अथ तामव्रवीद्दृष्ट्वा नहुषो देवराट्तदा |
१ क
शल्य उवाच:
त्रय़ाणामपि लोकानामहमिन्द्रः शुचिस्मिते |
१ ख
शल्य उवाच:
भजस्व मां वरारोहे पतित्वे वरवर्णिनि ||
१ ग
शल्य उवाच:
एवमुक्ता तु सा देवी नहुषेण पतिव्रता |
२ क
शल्य उवाच:
प्रावेपत भय़ोद्विग्ना प्रवाते कदली यथा ||
२ ख
शल्य उवाच:
नमस्य सा तु व्रह्माणं कृत्वा शिरसि चाञ्जलिम् |
३ क
शल्य उवाच:
देवराजमथोवाच नहुषं घोरदर्शनम् ||
३ ख
शल्य उवाच:
कालमिच्छाम्यहं लव्धुं किञ्चित्त्वत्तः सुरेश्वर |
४ क
शल्य उवाच:
न हि विज्ञाय़ते शक्रः प्राप्तः किं वा क्व वा गतः ||
४ ख
शल्य उवाच:
तत्त्वमेतत्तु विज्ञाय़ यदि न ज्ञाय़ते प्रभो |
५ क
शल्य उवाच:
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्व्रवीमि ते |
५ ख
शल्य उवाच:
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ||
५ ग
नहुष उवाच:
एवं भवतु सुश्रोणि यथा मामभिभाषसे |
६ क
नहुष उवाच:
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ||
६ ख
शल्य उवाच:
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा |
७ क
शल्य उवाच:
वृहस्पतिनिकेतं सा जगाम च तपस्विनी ||
७ ख
शल्य उवाच:
तस्याः संश्रुत्य च वचो देवाः साग्निपुरोगमाः |
८ क
शल्य उवाच:
मन्त्रय़ामासुरेकाग्राः शक्रार्थं राजसत्तम ||
८ ख
शल्य उवाच:
देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना |
९ क
शल्य उवाच:
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ||
९ ख
शल्य उवाच:
व्रह्महत्याभिभूतो वै शक्रः सुरगणेश्वरः |
१० क
शल्य उवाच:
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः |
१० ख
शल्य उवाच:
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ||
१० ग
शल्य उवाच:
त्वद्वीर्यान्निहते वृत्रे वासवो व्रह्महत्यया |
११ क
शल्य उवाच:
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ||
११ ख
शल्य उवाच:
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरव्रवीत् |
१२ क
शल्य उवाच:
मामेव यजतां शक्रः पावय़िष्यामि वज्रिणम् ||
१२ ख
शल्य उवाच:
पुण्येन हय़मेधेन मामिष्ट्वा पाकशासनः |
१३ क
शल्य उवाच:
पुनरेष्यति देवानामिन्द्रत्वमकुतोभय़ः ||
१३ ख
शल्य उवाच:
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः |
१४ क
शल्य उवाच:
कञ्चित्कालमिमं देवा मर्षय़ध्वमतन्द्रिताः ||
१४ ख
शल्य उवाच:
श्रुत्वा विष्णोः शुभां सत्यां तां वाणीममृतोपमाम् |
१५ क
शल्य उवाच:
ततः सर्वे सुरगणाः सोपाध्याय़ाः सहर्षिभिः |
१५ ख
शल्य उवाच:
यत्र शक्रो भय़ोद्विग्नस्तं देशमुपचक्रमुः ||
१५ ग
शल्य उवाच:
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः |
१६ क
शल्य उवाच:
ववृते पावनार्थं वै व्रह्महत्यापहो नृप ||
१६ ख
शल्य उवाच:
विभज्य व्रह्महत्यां तु वृक्षेषु च नदीषु च |
१७ क
शल्य उवाच:
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ||
१७ ख
शल्य उवाच:
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः |
१८ क
शल्य उवाच:
विज्वरः पूतपाप्मा च वासवोऽभवदात्मवान् ||
१८ ख
शल्य उवाच:
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा च वलसूदनः |
१९ क
शल्य उवाच:
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ||
१९ ख
शल्य उवाच:
ततः शचीपतिर्वीरः पुनरेव व्यनश्यत |
२० क
शल्य उवाच:
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ||
२० ख
शल्य उवाच:
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता |
२१ क
शल्य उवाच:
हा शक्रेति तदा देवी विललाप सुदुःखिता ||
२१ ख
शल्य उवाच:
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि |
२२ क
शल्य उवाच:
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मय़ि ||
२२ ख
शल्य उवाच:
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तराय़णे |
२३ क
शल्य उवाच:
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ||
२३ ख
शल्य उवाच:
प्रय़ता च निशां देवीमुपातिष्ठत तत्र सा |
२४ क
शल्य उवाच:
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ||
२४ ख
शल्य उवाच:
यत्रास्ते देवराजोऽसौ तं देशं दर्शय़स्व मे |
२५ क
शल्य उवाच:
इत्याहोपश्रुतिं देवी सत्यं सत्येन दृश्यताम् ||
२५ ख