chevron_left भीष्म पर्व अध्याय १३
सञ्जय़ उवाच:
उत्तरेषु तु कौरव्य द्वीपेषु श्रूय़ते कथा |
१ क
सञ्जय़ उवाच:
यथाश्रुतं महाराज व्रुवतस्तन्निवोध मे ||
१ ख
सञ्जय़ उवाच:
घृततोय़ः समुद्रोऽत्र दधिमण्डोदकोऽपरः |
२ क
सञ्जय़ उवाच:
सुरोदः सागरश्चैव तथान्यो घर्मसागरः ||
२ ख
सञ्जय़ उवाच:
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप |
३ क
सञ्जय़ उवाच:
सर्वतश्च महाराज पर्वतैः परिवारिताः ||
३ ख
सञ्जय़ उवाच:
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् |
४ क
सञ्जय़ उवाच:
पर्वतः पश्चिमः कृष्णो नाराय़णनिभो नृप ||
४ ख
सञ्जय़ उवाच:
तत्र रत्नानि दिव्यानि स्वय़ं रक्षति केशवः |
५ क
सञ्जय़ उवाच:
प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ||
५ ख
सञ्जय़ उवाच:
कुशद्वीपे कुशस्तम्वो मध्ये जनपदस्य ह |
६ क
सञ्जय़ उवाच:
सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ||
६ ख
सञ्जय़ उवाच:
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचय़ाकरः |
७ क
सञ्जय़ उवाच:
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ||
७ ख
सञ्जय़ उवाच:
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् |
८ क
सञ्जय़ उवाच:
यत्र नित्यं निवसति श्रीमान्कमललोचनः |
८ ख
सञ्जय़ उवाच:
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नाराय़णो हरिः ||
८ ग
सञ्जय़ उवाच:
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः |
९ क
सञ्जय़ उवाच:
सुधामा नाम दुर्धर्षो द्वितीय़ो हेमपर्वतः ||
९ ख
सञ्जय़ उवाच:
द्युतिमान्नाम कौरव्य तृतीय़ः कुमुदो गिरिः |
१० क
सञ्जय़ उवाच:
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशय़ः ||
१० ख
सञ्जय़ उवाच:
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः |
११ क
सञ्जय़ उवाच:
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ||
११ ख
सञ्जय़ उवाच:
औद्भिदं प्रथमं वर्षं द्वितीय़ं वेणुमण्डलम् |
१२ क
सञ्जय़ उवाच:
तृतीय़ं वै रथाकारं चतुर्थं पालनं स्मृतम् ||
१२ ख
सञ्जय़ उवाच:
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् |
१३ क
सञ्जय़ उवाच:
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ||
१३ ख
सञ्जय़ उवाच:
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर |
१४ क
सञ्जय़ उवाच:
विहरन्ति रमन्ते च न तेषु म्रिय़ते जनः ||
१४ ख
सञ्जय़ उवाच:
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप |
१५ क
सञ्जय़ उवाच:
गौरप्राय़ो जनः सर्वः सुकुमारश्च पार्थिव ||
१५ ख
सञ्जय़ उवाच:
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर |
१६ क
सञ्जय़ उवाच:
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ||
१६ ख
सञ्जय़ उवाच:
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः |
१७ क
सञ्जय़ उवाच:
क्रौञ्चात्परो वामनको वामनादन्धकारकः ||
१७ ख
सञ्जय़ उवाच:
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः |
१८ क
सञ्जय़ उवाच:
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ||
१८ ख
सञ्जय़ उवाच:
गोविन्दात्तु परो राजन्निविडो नाम पर्वतः |
१९ क
सञ्जय़ उवाच:
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ||
१९ ख
सञ्जय़ उवाच:
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु |
२० क
सञ्जय़ उवाच:
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ||
२० ख
सञ्जय़ उवाच:
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह |
२१ क
सञ्जय़ उवाच:
उष्णात्परः प्रावरकः प्रावरादन्धकारकः ||
२१ ख
सञ्जय़ उवाच:
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः |
२२ क
सञ्जय़ उवाच:
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ||
२२ ख
सञ्जय़ उवाच:
सिद्धचारणसङ्कीर्णो गौरप्राय़ो जनाधिप |
२३ क
सञ्जय़ उवाच:
एते देशा महाराज देवगन्धर्वसेविताः ||
२३ ख
सञ्जय़ उवाच:
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् |
२४ क
सञ्जय़ उवाच:
तत्र नित्यं निवसति स्वय़ं देवः प्रजापतिः ||
२४ ख
सञ्जय़ उवाच:
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः |
२५ क
सञ्जय़ उवाच:
वाग्भिर्मनोनुकूलाभिः पूजय़न्तो जनाधिप ||
२५ ख
सञ्जय़ उवाच:
जम्वूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत |
२६ क
सञ्जय़ उवाच:
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ||
२६ ख
सञ्जय़ उवाच:
विप्राणां व्रह्मचर्येण सत्येन च दमेन च |
२७ क
सञ्जय़ उवाच:
आरोग्याय़ुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ||
२७ ख
सञ्जय़ उवाच:
एको जनपदो राजन्द्वीपेष्वेतेषु भारत |
२८ क
सञ्जय़ उवाच:
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ||
२८ ख
सञ्जय़ उवाच:
ईश्वरो दण्डमुद्यम्य स्वय़मेव प्रजापतिः |
२९ क
सञ्जय़ उवाच:
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ||
२९ ख
सञ्जय़ उवाच:
स राजा स शिवो राजन्स पिता स पितामहः |
३० क
सञ्जय़ उवाच:
गोपाय़ति नरश्रेष्ठ प्रजाः सजडपण्डिताः ||
३० ख
सञ्जय़ उवाच:
भोजनं चात्र कौरव्य प्रजाः स्वय़मुपस्थितम् |
३१ क
सञ्जय़ उवाच:
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ||
३१ ख
सञ्जय़ उवाच:
ततः परं समा नाम दृश्यते लोकसंस्थितिः |
३२ क
सञ्जय़ उवाच:
चतुरश्रा महाराज त्रय़स्त्रिंशत्तु मण्डलम् ||
३२ ख
सञ्जय़ उवाच:
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः |
३३ क
सञ्जय़ उवाच:
दिग्गजा भरतश्रेष्ठ वामनैरावतादय़ः |
३३ ख
सञ्जय़ उवाच:
सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ||
३३ ग
सञ्जय़ उवाच:
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे |
३४ क
सञ्जय़ उवाच:
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ||
३४ ख
सञ्जय़ उवाच:
तत्र वै वाय़वो वान्ति दिग्भ्यः सर्वाभ्य एव च |
३५ क
सञ्जय़ उवाच:
असम्वाधा महाराज तान्निगृह्णन्ति ते गजाः ||
३५ ख
सञ्जय़ उवाच:
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः |
३६ क
सञ्जय़ उवाच:
ते शनैः पुनरेवाशु वाय़ून्मुञ्चन्ति नित्यशः ||
३६ ख
सञ्जय़ उवाच:
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः |
३७ क
सञ्जय़ उवाच:
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ||
३७ ख
धृतराष्ट्र उवाच:
परो वै विस्तरोऽत्यर्थं त्वय़ा सञ्जय़ कीर्तितः |
३८ क
धृतराष्ट्र उवाच:
दर्शितं द्वीपसंस्थानमुत्तरं व्रूहि सञ्जय़ ||
३८ ख
सञ्जय़ उवाच:
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः |
३९ क
सञ्जय़ उवाच:
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ||
३९ ख
सञ्जय़ उवाच:
परिमण्डलो महाराज स्वर्भानुः श्रूय़ते ग्रहः |
४० क
सञ्जय़ उवाच:
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ||
४० ख
सञ्जय़ उवाच:
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ |
४१ क
सञ्जय़ उवाच:
षष्टिमाहुः शतान्यस्य वुधाः पौराणिकास्तथा ||
४१ ख
सञ्जय़ उवाच:
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः |
४२ क
सञ्जय़ उवाच:
विष्कम्भेण कुरुश्रेष्ठ त्रय़स्त्रिंशत्तु मण्डलम् |
४२ ख
सञ्जय़ उवाच:
एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ||
४२ ग
सञ्जय़ उवाच:
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन |
४३ क
सञ्जय़ उवाच:
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ||
४३ ख
सञ्जय़ उवाच:
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ |
४४ क
सञ्जय़ उवाच:
श्रूय़ते परमोदारः पतङ्गोऽसौ विभावसुः |
४४ ख
सञ्जय़ उवाच:
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ||
४४ ग
सञ्जय़ उवाच:
स राहुश्छादय़त्येतौ यथाकालं महत्तय़ा |
४५ क
सञ्जय़ उवाच:
चन्द्रादित्यौ महाराज सङ्क्षेपोऽय़मुदाहृतः ||
४५ ख
सञ्जय़ उवाच:
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा |
४६ क
सञ्जय़ उवाच:
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ||
४६ ख
सञ्जय़ उवाच:
यथादृष्टं मय़ा प्रोक्तं सनिर्याणमिदं जगत् |
४७ क
सञ्जय़ उवाच:
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ||
४७ ख
सञ्जय़ उवाच:
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् |
४८ क
सञ्जय़ उवाच:
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः |
४८ ख