विराट उवाच:
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः |
१ क
विराट उवाच:
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो वली ||
१ ख
विराट उवाच:
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी |
२ क
विराट उवाच:
यदा द्यूते जिताः पार्था न प्राज्ञाय़न्त ते क्वचित् ||
२ ख
अर्जुन उवाच:
य एष वल्लवो व्रूते सूदस्तव नराधिप |
३ क
अर्जुन उवाच:
एष भीमो महावाहुर्भीमवेगपराक्रमः ||
३ ख
अर्जुन उवाच:
एष क्रोधवशान्हत्वा पर्वते गन्धमादने |
४ क
अर्जुन उवाच:
सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ||
४ ख
अर्जुन उवाच:
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् |
५ क
अर्जुन उवाच:
व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ||
५ ख
अर्जुन उवाच:
यश्चासीदश्ववन्धस्ते नकुलोऽय़ं परन्तपः |
६ क
अर्जुन उवाच:
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ||
६ ख
अर्जुन उवाच:
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ |
७ क
अर्जुन उवाच:
नानारथसहस्राणां समर्थौ पुरुषर्षभौ ||
७ ख
अर्जुन उवाच:
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी |
८ क
अर्जुन उवाच:
सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ||
८ ख
अर्जुन उवाच:
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः |
९ क
अर्जुन उवाच:
भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ||
९ ख
अर्जुन उवाच:
उषिताः स्म महाराज सुखं तव निवेशने |
१० क
अर्जुन उवाच:
अज्ञातवासमुषिता गर्भवास इव प्रजाः ||
१० ख
वैशम्पाय़न उवाच:
यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः |
११ क
वैशम्पाय़न उवाच:
तदार्जुनस्य वैराटिः कथय़ामास विक्रमम् ||
११ ख
वैशम्पाय़न उवाच:
अय़ं स द्विषतां मध्ये मृगाणामिव केसरी |
१२ क
वैशम्पाय़न उवाच:
अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ||
१२ ख
वैशम्पाय़न उवाच:
अनेन विद्धो मातङ्गो महानेकेषुणा हतः |
१३ क
वैशम्पाय़न उवाच:
हिरण्यकक्ष्यः सङ्ग्रामे दन्ताभ्यामगमन्महीम् ||
१३ ख
वैशम्पाय़न उवाच:
अनेन विजिता गावो जिताश्च कुरवो युधि |
१४ क
वैशम्पाय़न उवाच:
अस्य शङ्खप्रणादेन कर्णौ मे वधिरीकृतौ ||
१४ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् |
१५ क
वैशम्पाय़न उवाच:
उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ||
१५ ख
वैशम्पाय़न उवाच:
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचय़े |
१६ क
वैशम्पाय़न उवाच:
उत्तरां च प्रय़च्छामि पार्थाय़ यदि ते मतम् ||
१६ ख
उत्तर उवाच:
अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् |
१७ क
उत्तर उवाच:
पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ||
१७ ख
विराट उवाच:
अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः |
१८ क
विराट उवाच:
मोक्षितो भीमसेनेन गावश्च विजितास्तथा ||
१८ ख
विराट उवाच:
एतेषां वाहुवीर्येण यदस्माकं जय़ो मृधे |
१९ क
विराट उवाच:
वय़ं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् |
१९ ख
विराट उवाच:
प्रसादय़ामो भद्रं ते सानुजं पाण्डवर्षभम् ||
१९ ग
विराट उवाच:
यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः |
२० क
विराट उवाच:
क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ||
२० ख
वैशम्पाय़न उवाच:
ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समय़ं चकार |
२१ क
वैशम्पाय़न उवाच:
राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ||
२१ ख
वैशम्पाय़न उवाच:
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् |
२२ क
वैशम्पाय़न उवाच:
धनञ्जय़ं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाव्रवीत् ||
२२ ख
वैशम्पाय़न उवाच:
समुपाघ्राय़ मूर्धानं संश्लिष्य च पुनः पुनः |
२३ क
वैशम्पाय़न उवाच:
युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ||
२३ ख
वैशम्पाय़न उवाच:
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः |
२४ क
वैशम्पाय़न उवाच:
सम्प्रीय़माणो राजानं युधिष्ठिरमथाव्रवीत् ||
२४ ख
वैशम्पाय़न उवाच:
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् |
२५ क
वैशम्पाय़न उवाच:
दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ||
२५ ख
वैशम्पाय़न उवाच:
इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन |
२६ क
वैशम्पाय़न उवाच:
प्रतिगृह्णन्तु तत्सर्वं कौन्तेय़ा अविशङ्कय़ा ||
२६ ख
वैशम्पाय़न उवाच:
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जय़ः |
२७ क
वैशम्पाय़न उवाच:
अय़ं ह्यौपय़िको भर्ता तस्याः पुरुषसत्तमः ||
२७ ख
वैशम्पाय़न उवाच:
एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जय़म् |
२८ क
वैशम्पाय़न उवाच:
ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमव्रवीत् ||
२८ ख
वैशम्पाय़न उवाच:
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव |
२९ क
वैशम्पाय़न उवाच:
युक्तश्चावां हि सम्वन्धो मत्स्यभारतसत्तमौ ||
२९ ख