chevron_left कर्ण पर्व अध्याय १३
सञ्जय़ उवाच:
अथोत्तरेण पाण्डूनां सेनाय़ां ध्वनिरुत्थितः |
१ क
सञ्जय़ उवाच:
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ||
१ ख
सञ्जय़ उवाच:
निवर्तय़ित्वा तु रथं केशवोऽर्जुनमव्रवीत् |
२ क
सञ्जय़ उवाच:
वाहय़न्नेव तुरगान्गरुडानिलरंहसः ||
२ ख
सञ्जय़ उवाच:
मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना |
३ क
सञ्जय़ उवाच:
भगदत्तादनवरः शिक्षय़ा च वलेन च ||
३ ख
सञ्जय़ उवाच:
एनं हत्वा निहन्तासि पुनः संशप्तकानिति |
४ क
सञ्जय़ उवाच:
वाक्यान्ते प्रापय़त्पार्थं दण्डधारान्तिकं प्रति ||
४ ख
सञ्जय़ उवाच:
स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः |
५ क
सञ्जय़ उवाच:
सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ||
५ ख
सञ्जय़ उवाच:
सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम् |
६ क
सञ्जय़ उवाच:
रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ||
६ ख
सञ्जय़ उवाच:
रथानधिष्ठाय़ सवाजिसारथी; न्रथांश्च पद्भिस्त्वरितो व्यपोथय़त् |
७ क
सञ्जय़ उवाच:
द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ||
७ ख
सञ्जय़ उवाच:
नरांश्च कार्ष्णाय़सवर्मभूषणा; न्निपात्य साश्वानपि पत्तिभिः सह |
८ क
सञ्जय़ उवाच:
व्यपोथय़द्दन्तिवरेण शुष्मिणा; सशव्दवत्स्थूलनडान्यथा तथा ||
८ ख
सञ्जय़ उवाच:
अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीवहुशङ्खनादिते |
९ क
सञ्जय़ उवाच:
नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ||
९ ख
सञ्जय़ उवाच:
ततोऽर्जुनं द्वादशभिः शरोत्तमै; र्जनार्दनं षोडशभिः समार्दय़त् |
१० क
सञ्जय़ उवाच:
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि; स्ततो ननाद प्रजहास चासकृत् ||
१० ख
सञ्जय़ उवाच:
ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् |
११ क
सञ्जय़ उवाच:
पुनर्निय़न्तॄन्सह पादगोप्तृभि; स्ततस्तु चुक्रोध गिरिव्रजेश्वरः ||
११ ख
सञ्जय़ उवाच:
ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा |
१२ क
सञ्जय़ उवाच:
अतीव चुक्षोभय़िषुर्जनार्दनं; धनञ्जय़ं चाभिजघान तोमरैः ||
१२ ख
सञ्जय़ उवाच:
अथास्य वाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः |
१३ क
सञ्जय़ उवाच:
क्षुरैः प्रचिच्छेद सहैव पाण्डव; स्ततो द्विपं वाणशतैः समार्दय़त् ||
१३ ख
सञ्जय़ उवाच:
स पार्थवाणैस्तपनीय़भूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः |
१४ क
सञ्जय़ उवाच:
तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ||
१४ ख
सञ्जय़ उवाच:
स वेदनार्तोऽम्वुदनिस्वनो नदं; श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् |
१५ क
सञ्जय़ उवाच:
पपात रुग्णः सनिय़न्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ||
१५ ख
सञ्जय़ उवाच:
हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना |
१६ क
सञ्जय़ उवाच:
हते रणे भ्रातरि दण्ड आव्रज; ज्जिघांसुरिन्द्रावरजं धनञ्जय़म् ||
१६ ख
सञ्जय़ उवाच:
स तोमरैरर्ककरप्रभैस्त्रिभि; र्जनार्दनं पञ्चभिरेव चार्जुनम् |
१७ क
सञ्जय़ उवाच:
समर्पय़ित्वा विननाद चार्दय़ं; स्ततोऽस्य वाहू विचकर्त पाण्डवः ||
१७ ख
सञ्जय़ उवाच:
क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ |
१८ क
सञ्जय़ उवाच:
गजात्पतन्तौ युगपद्विरेजतु; र्यथाद्रिशृङ्गात्पतितौ महोरगौ ||
१८ ख
सञ्जय़ उवाच:
अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् |
१९ क
सञ्जय़ उवाच:
तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ||
१९ ख
सञ्जय़ उवाच:
अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः |
२० क
सञ्जय़ उवाच:
विभेद पार्थः स पपात नानद; न्हिमाद्रिकूटः कुलिशाहतो यथा ||
२० ख
सञ्जय़ उवाच:
ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संय़ति सव्यसाचिनम् |
२१ क
सञ्जय़ उवाच:
तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्वलम् ||
२१ ख
सञ्जय़ उवाच:
गजा रथाश्वाः पुरुषाश्च सङ्घशः; परस्परघ्नाः परिपेतुराहवे |
२२ क
सञ्जय़ उवाच:
परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ||
२२ ख
सञ्जय़ उवाच:
अथार्जुनं स्वे परिवार्य सैनिकाः; पुरन्दरं देवगणा इवाव्रुवन् |
२३ क
सञ्जय़ उवाच:
अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वय़ा रिपुः ||
२३ ख
सञ्जय़ उवाच:
न चेत्परित्रास्य इमाञ्जनान्भय़ा; द्द्विषद्भिरेवं वलिभिः प्रपीडितान् |
२४ क
सञ्जय़ उवाच:
तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वय़ा ||
२४ ख
सञ्जय़ उवाच:
इतीव भूय़श्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः |
२५ क
सञ्जय़ उवाच:
यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसङ्घहा पुनः ||
२५ ख