chevron_left शल्य पर्व अध्याय १३
सञ्जय़ उवाच:
अर्जुनो द्रौणिना विद्धो युद्धे वहुभिराय़सैः |
१ क
सञ्जय़ उवाच:
तस्य चानुचरैः शूरैस्त्रिगर्तानां महारथैः |
१ ख
सञ्जय़ उवाच:
द्रौणिं विव्याध समरे त्रिभिरेव शिलीमुखैः ||
१ ग
सञ्जय़ उवाच:
तथेतरान्महेष्वासान्द्वाभ्यां द्वाभ्यां धनञ्जय़ः |
२ क
सञ्जय़ उवाच:
भूय़श्चैव महावाहुः शरवर्षैरवाकिरत् ||
२ ख
सञ्जय़ उवाच:
शरकण्टकितास्ते तु तावका भरतर्षभ |
३ क
सञ्जय़ उवाच:
न जहुः समरे पार्थं वध्यमानाः शितैः शरैः ||
३ ख
सञ्जय़ उवाच:
तेऽर्जुनं रथवंशेन द्रोणपुत्रपुरोगमाः |
४ क
सञ्जय़ उवाच:
अय़ोधय़न्त समरे परिवार्य महारथाः ||
४ ख
सञ्जय़ उवाच:
तैस्तु क्षिप्ताः शरा राजन्कार्तस्वरविभूषिताः |
५ क
सञ्जय़ उवाच:
अर्जुनस्य रथोपस्थं पूरय़ामासुरञ्जसा ||
५ ख
सञ्जय़ उवाच:
तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम् |
६ क
सञ्जय़ उवाच:
शरैर्वीक्ष्य वितुन्नाङ्गौ प्रहृष्टौ युद्धदुर्मदौ ||
६ ख
सञ्जय़ उवाच:
कूवरं रथचक्राणि ईषा योक्त्राणि चाभिभो |
७ क
सञ्जय़ उवाच:
युगं चैवानुकर्षं च शरभूतमभूत्तदा ||
७ ख
सञ्जय़ उवाच:
नैतादृशं दृष्टपूर्वं राजन्नैव च नः श्रुतम् |
८ क
सञ्जय़ उवाच:
यादृशं तत्र पार्थस्य तावकाः सम्प्रचक्रिरे ||
८ ख
सञ्जय़ उवाच:
स रथः सर्वतो भाति चित्रपुङ्खैः शितैः शरैः |
९ क
सञ्जय़ उवाच:
उल्काशतैः सम्प्रदीप्तं विमानमिव भूतले ||
९ ख
सञ्जय़ उवाच:
ततोऽर्जुनो महाराज शरैः संनतपर्वभिः |
१० क
सञ्जय़ उवाच:
अवाकिरत्तां पृतनां मेघो वृष्ट्या यथाचलम् ||
१० ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे पार्थनामाङ्कितैः शरैः |
११ क
सञ्जय़ उवाच:
पार्थभूतममन्यन्त प्रेक्षमाणास्तथाविधम् ||
११ ख
सञ्जय़ उवाच:
ततोऽद्भुतशरज्वालो धनुःशव्दानिलो महान् |
१२ क
सञ्जय़ उवाच:
सेनेन्धनं ददाहाशु तावकं पार्थपावकः ||
१२ ख
सञ्जय़ उवाच:
चक्राणां पततां चैव युगानां च धरातले |
१३ क
सञ्जय़ उवाच:
तूणीराणां पताकानां ध्वजानां च रथैः सह ||
१३ ख
सञ्जय़ उवाच:
ईषाणामनुकर्षाणां त्रिवेणूनां च भारत |
१४ क
सञ्जय़ उवाच:
अक्षाणामथ योक्त्राणां प्रतोदानां च सर्वशः ||
१४ ख
सञ्जय़ उवाच:
शिरसां पततां चैव कुण्डलोष्णीषधारिणाम् |
१५ क
सञ्जय़ उवाच:
भुजानां च महाराज स्कन्धानां च समन्ततः ||
१५ ख
सञ्जय़ उवाच:
छत्राणां व्यजनैः सार्धं मुकुटानां च राशय़ः |
१६ क
सञ्जय़ उवाच:
समदृश्यन्त पार्थस्य रथमार्गेषु भारत ||
१६ ख
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी मांसशोणितकर्दमा |
१७ क
सञ्जय़ उवाच:
वभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा |
१७ ख
सञ्जय़ उवाच:
भीरूणां त्रासजननी शूराणां हर्षवर्धनी ||
१७ ग
सञ्जय़ उवाच:
हत्वा तु समरे पार्थः सहस्रे द्वे परन्तप |
१८ क
सञ्जय़ उवाच:
रथानां सवरूथानां विधूमोऽग्निरिव ज्वलन् ||
१८ ख
सञ्जय़ उवाच:
यथा हि भगवानग्निर्जगद्दग्ध्वा चराचरम् |
१९ क
सञ्जय़ उवाच:
विधूमो दृश्यते राजंस्तथा पार्थो महारथः ||
१९ ख
सञ्जय़ उवाच:
द्रौणिस्तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम् |
२० क
सञ्जय़ उवाच:
रथेनातिपताकेन पाण्डवं प्रत्यवारय़त् ||
२० ख
सञ्जय़ उवाच:
तावुभौ पुरुषव्याघ्रौ श्वेताश्वौ धन्विनां वरौ |
२१ क
सञ्जय़ उवाच:
समीय़तुस्तदा तूर्णं परस्परवधैषिणौ ||
२१ ख
सञ्जय़ उवाच:
तय़ोरासीन्महाराज वाणवर्षं सुदारुणम् |
२२ क
सञ्जय़ उवाच:
जीमूतानां यथा वृष्टिस्तपान्ते भरतर्षभ ||
२२ ख
सञ्जय़ उवाच:
अन्योन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः |
२३ क
सञ्जय़ उवाच:
ततक्षतुर्मृधेऽन्योन्यं शृङ्गाभ्यां वृषभाविव ||
२३ ख
सञ्जय़ उवाच:
तय़ोर्युद्धं महाराज चिरं सममिवाभवत् |
२४ क
सञ्जय़ उवाच:
अस्त्राणां सङ्गमश्चैव घोरस्तत्राभवन्महान् ||
२४ ख
सञ्जय़ उवाच:
ततोऽर्जुनं द्वादशभी रुक्मपुङ्खैः सुतेजनैः |
२५ क
सञ्जय़ उवाच:
वासुदेवं च दशभिर्द्रौणिर्विव्याध भारत ||
२५ ख
सञ्जय़ उवाच:
ततः प्रहस्य वीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः |
२६ क
सञ्जय़ उवाच:
मानय़ित्वा मुहूर्तं च गुरुपुत्रं महाहवे ||
२६ ख
सञ्जय़ उवाच:
व्यश्वसूतरथं चक्रे सव्यसाची महारथः |
२७ क
सञ्जय़ उवाच:
मृदुपूर्वं ततश्चैनं त्रिभिर्विव्याध साय़कैः ||
२७ ख
सञ्जय़ उवाच:
हताश्वे तु रथे तिष्ठन्द्रोणपुत्रस्त्वय़स्मय़म् |
२८ क
सञ्जय़ उवाच:
मुसलं पाण्डुपुत्राय़ चिक्षेप परिघोपमम् ||
२८ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा हेमपट्टविभूषितम् |
२९ क
सञ्जय़ उवाच:
चिच्छेद सप्तधा वीरः पार्थः शत्रुनिवर्हणः ||
२९ ख
सञ्जय़ उवाच:
स च्छिन्नं मुसलं दृष्ट्वा द्रौणिः परमकोपनः |
३० क
सञ्जय़ उवाच:
आददे परिघं घोरं नगेन्द्रशिखरोपमम् |
३० ख
सञ्जय़ उवाच:
चिक्षेप चैव पार्थाय़ द्रौणिर्युद्धविशारदः ||
३० ग
सञ्जय़ उवाच:
तमन्तकमिव क्रुद्धं परिघं प्रेक्ष्य पाण्डवः |
३१ क
सञ्जय़ उवाच:
अर्जुनस्त्वरितो जघ्ने पञ्चभिः साय़कोत्तमैः ||
३१ ख
सञ्जय़ उवाच:
स च्छिन्नः पतितो भूमौ पार्थवाणैर्महाहवे |
३२ क
सञ्जय़ उवाच:
दारय़न्पृथिवीन्द्राणां मनः शव्देन भारत ||
३२ ख
सञ्जय़ उवाच:
ततोऽपरैस्त्रिभिर्वाणैर्द्रौणिं विव्याध पाण्डवः |
३३ क
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता पार्थेन सुमहावलः |
३३ ख
सञ्जय़ उवाच:
न सम्भ्रान्तस्तदा द्रौणिः पौरुषे स्वे व्यवस्थितः ||
३३ ग
सञ्जय़ उवाच:
सुधर्मा तु ततो राजन्भारद्वाजं महारथम् |
३४ क
सञ्जय़ उवाच:
अवाकिरच्छरव्रातैः सर्वक्षत्रस्य पश्यतः ||
३४ ख
सञ्जय़ उवाच:
ततस्तु सुरथोऽप्याजौ पाञ्चालानां महारथः |
३५ क
सञ्जय़ उवाच:
रथेन मेघघोषेण द्रौणिमेवाभ्यधावत ||
३५ ख
सञ्जय़ उवाच:
विकर्षन्वै धनुः श्रेष्ठं सर्वभारसहं दृढम् |
३६ क
सञ्जय़ उवाच:
ज्वलनाशीविषनिभैः शरैश्चैनमवाकिरत् ||
३६ ख
सञ्जय़ उवाच:
सुरथं तु ततः क्रुद्धमापतन्तं महारथम् |
३७ क
सञ्जय़ उवाच:
चुकोप समरे द्रौणिर्दण्डाहत इवोरगः ||
३७ ख
सञ्जय़ उवाच:
त्रिशिखां भ्रुकुटीं कृत्वा सृक्किणी परिलेलिहन् |
३८ क
सञ्जय़ उवाच:
उद्वीक्ष्य सुरथं रोषाद्धनुर्ज्यामवमृज्य च |
३८ ख
सञ्जय़ उवाच:
मुमोच तीक्ष्णं नाराचं यमदण्डसमद्युतिम् ||
३८ ग
सञ्जय़ उवाच:
स तस्य हृदय़ं भित्त्वा प्रविवेशातिवेगतः |
३९ क
सञ्जय़ उवाच:
शक्राशनिरिवोत्सृष्टा विदार्य धरणीतलम् ||
३९ ख
सञ्जय़ उवाच:
ततस्तं पतितं भूमौ नाराचेन समाहतम् |
४० क
सञ्जय़ उवाच:
वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम् ||
४० ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते वीरे द्रोणपुत्रः प्रतापवान् |
४१ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं तमेव रथिनां वरः ||
४१ ख
सञ्जय़ उवाच:
ततः सज्जो महाराज द्रौणिराहवदुर्मदः |
४२ क
सञ्जय़ उवाच:
अर्जुनं योधय़ामास संशप्तकवृतो रणे ||
४२ ख
सञ्जय़ उवाच:
तत्र युद्धं महच्चासीदर्जुनस्य परैः सह |
४३ क
सञ्जय़ उवाच:
मध्यन्दिनगते सूर्ये यमराष्ट्रविवर्धनम् ||
४३ ख
सञ्जय़ उवाच:
तत्राश्चर्यमपश्याम दृष्ट्वा तेषां पराक्रमम् |
४४ क
सञ्जय़ उवाच:
यदेको युगपद्वीरान्समय़ोधय़दर्जुनः ||
४४ ख
सञ्जय़ उवाच:
विमर्दस्तु महानासीदर्जुनस्य परैः सह |
४५ क
सञ्जय़ उवाच:
शतक्रतोर्यथा पूर्वं महत्या दैत्यसेनय़ा ||
४५ ख