chevron_left उद्योग पर्व अध्याय १३०
वैशम्पाय़न उवाच:
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च |
१ क
वैशम्पाय़न उवाच:
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ||
१ ख
वासुदेव उवाच:
उक्तं वहुविधं वाक्यं ग्रहणीय़ं सहेतुकम् |
२ क
वासुदेव उवाच:
ऋषिभिश्च मय़ा चैव न चासौ तद्गृहीतवान् ||
२ ख
वासुदेव उवाच:
कालपक्वमिदं सर्वं दुर्योधनवशानुगम् |
३ क
वासुदेव उवाच:
आपृच्छे भवतीं शीघ्रं प्रय़ास्ये पाण्डवान्प्रति ||
३ ख
वासुदेव उवाच:
किं वाच्याः पाण्डवेय़ास्ते भवत्या वचनान्मय़ा |
४ क
वासुदेव उवाच:
तद्व्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ||
४ ख
कुन्त्यु उवाच:
व्रूय़ाः केशव राजानं धर्मात्मानं युधिष्ठिरम् |
५ क
कुन्त्यु उवाच:
भूय़ांस्ते हीय़ते धर्मो मा पुत्रक वृथा कृथाः ||
५ ख
कुन्त्यु उवाच:
श्रोत्रिय़स्येव ते राजन्मन्दकस्याविपश्चितः |
६ क
कुन्त्यु उवाच:
अनुवाकहता वुद्धिर्धर्ममेवैकमीक्षते ||
६ ख
कुन्त्यु उवाच:
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वय़म्भुवा |
७ क
कुन्त्यु उवाच:
उरस्तः क्षत्रिय़ः सृष्टो वाहुवीर्योपजीविता |
७ ख
कुन्त्यु उवाच:
क्रूराय़ कर्मणे नित्यं प्रजानां परिपालने ||
७ ग
कुन्त्यु उवाच:
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मय़ा |
८ क
कुन्त्यु उवाच:
मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् |
८ ख
कुन्त्यु उवाच:
पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ||
८ ग
कुन्त्यु उवाच:
वाहुवीर्यार्जितं राज्यमश्नीय़ामिति कामय़े |
९ क
कुन्त्यु उवाच:
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ||
९ ख
कुन्त्यु उवाच:
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् |
१० क
कुन्त्यु उवाच:
वाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||
१० ख
कुन्त्यु उवाच:
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |
११ क
कुन्त्यु उवाच:
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||
११ ख
कुन्त्यु उवाच:
राजा चरति चेद्धर्मं देवत्वाय़ैव कल्पते |
१२ क
कुन्त्यु उवाच:
स चेदधर्मं चरति नरकाय़ैव गच्छति ||
१२ ख
कुन्त्यु उवाच:
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं निय़च्छति |
१३ क
कुन्त्यु उवाच:
प्रय़ुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||
१३ ख
कुन्त्यु उवाच:
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते |
१४ क
कुन्त्यु उवाच:
तदा कृतय़ुगं नाम कालः श्रेष्ठः प्रवर्तते ||
१४ ख
कुन्त्यु उवाच:
कालो वा कारणं राज्ञो राजा वा कालकारणम् |
१५ क
कुन्त्यु उवाच:
इति ते संशय़ो मा भूद्राजा कालस्य कारणम् ||
१५ ख
कुन्त्यु उवाच:
राजा कृतय़ुगस्रष्टा त्रेताय़ा द्वापरस्य च |
१६ क
कुन्त्यु उवाच:
युगस्य च चतुर्थस्य राजा भवति कारणम् ||
१६ ख
कुन्त्यु उवाच:
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते |
१७ क
कुन्त्यु उवाच:
त्रेताय़ाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते |
१७ ख
कुन्त्यु उवाच:
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ||
१७ ग
कुन्त्यु उवाच:
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |
१८ क
कुन्त्यु उवाच:
राजदोषेण हि जगत्स्पृश्यते जगतः स च ||
१८ ख
कुन्त्यु उवाच:
राजधर्मानवेक्षस्व पितृपैतामहोचितान् |
१९ क
कुन्त्यु उवाच:
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ||
१९ ख
कुन्त्यु उवाच:
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः |
२० क
कुन्त्यु उवाच:
प्रजापालनसम्भूतं किञ्चित्प्राप फलं नृपः ||
२० ख
कुन्त्यु उवाच:
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः |
२१ क
कुन्त्यु उवाच:
प्रय़ुक्तवन्तः पूर्वं ते यय़ा चरसि मेधय़ा ||
२१ ख
कुन्त्यु उवाच:
यज्ञो दानं तपः शौर्यं प्रजासन्तानमेव च |
२२ क
कुन्त्यु उवाच:
माहात्म्यं वलमोजश्च नित्यमाशंसितं मय़ा ||
२२ ख
कुन्त्यु उवाच:
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः |
२३ क
कुन्त्यु उवाच:
दीर्घमाय़ुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ||
२३ ख
कुन्त्यु उवाच:
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च |
२४ क
कुन्त्यु उवाच:
दानमध्ययनं यज्ञं प्रजानां परिपालनम् ||
२४ ख
कुन्त्यु उवाच:
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजाय़थाः |
२५ क
कुन्त्यु उवाच:
ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ||
२५ ख
कुन्त्यु उवाच:
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः |
२६ क
कुन्त्यु उवाच:
प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ||
२६ ख
कुन्त्यु उवाच:
दानेनान्यं वलेनान्यं तथा सूनृतय़ापरम् |
२७ क
कुन्त्यु उवाच:
सर्वतः प्रतिगृह्णीय़ाद्राज्यं प्राप्येह धार्मिकः ||
२७ ख
कुन्त्यु उवाच:
व्राह्मणः प्रचरेद्भैक्षं क्षत्रिय़ः परिपालय़ेत् |
२८ क
कुन्त्यु उवाच:
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ||
२८ ख
कुन्त्यु उवाच:
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते |
२९ क
कुन्त्यु उवाच:
क्षत्रिय़ोऽसि क्षतात्त्राता वाहुवीर्योपजीविता ||
२९ ख
कुन्त्यु उवाच:
पित्र्यमंशं महावाहो निमग्नं पुनरुद्धर |
३० क
कुन्त्यु उवाच:
साम्ना दानेन भेदेन दण्डेनाथ नय़ेन च ||
३० ख
कुन्त्यु उवाच:
इतो दुःखतरं किं नु यदहं हीनवान्धवा |
३१ क
कुन्त्यु उवाच:
परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ||
३१ ख
कुन्त्यु उवाच:
युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् |
३२ क
कुन्त्यु उवाच:
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ||
३२ ख