धृतराष्ट्र उवाच:
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जय़ानमितौजसि |
१ क
धृतराष्ट्र उवाच:
अमृष्यमाणे संरव्धे का वोऽभूद्वै मतिस्तदा ||
१ ख
धृतराष्ट्र उवाच:
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम |
२ क
धृतराष्ट्र उवाच:
यत्प्राविशदमेय़ात्मा किं पार्थः प्रत्यपद्यत ||
२ ख
धृतराष्ट्र उवाच:
निहते सैन्धवे वीरे भूरिश्रवसि चैव हि |
३ क
धृतराष्ट्र उवाच:
यदभ्यगान्महातेजाः पाञ्चालानपराजितः ||
३ ख
धृतराष्ट्र उवाच:
किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने |
४ क
धृतराष्ट्र उवाच:
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||
४ ख
धृतराष्ट्र उवाच:
के च तं वरदं वीरमन्वय़ुर्द्विजसत्तमम् |
५ क
धृतराष्ट्र उवाच:
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः |
५ ख
धृतराष्ट्र उवाच:
के पुरस्तादय़ुध्यन्त निघ्नतः शात्रवान्रणे ||
५ ग
धृतराष्ट्र उवाच:
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् |
६ क
धृतराष्ट्र उवाच:
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो ||
६ ख
धृतराष्ट्र उवाच:
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः |
७ क
धृतराष्ट्र उवाच:
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ||
७ ख
धृतराष्ट्र उवाच:
सर्वेषु सैन्येषु च सङ्गतेषु; रात्रौ समेतेषु महारथेषु |
८ क
धृतराष्ट्र उवाच:
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन् ||
८ ख
धृतराष्ट्र उवाच:
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि |
९ क
धृतराष्ट्र उवाच:
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||
९ ख
धृतराष्ट्र उवाच:
कथमेषां तदा तत्र पार्थानामपलाय़िनाम् |
१० क
धृतराष्ट्र उवाच:
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय़ ||
१० ख
सञ्जय़ उवाच:
रात्रिय़ुद्धे तदा राजन्वर्तमाने सुदारुणे |
११ क
सञ्जय़ उवाच:
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः ||
११ ख
सञ्जय़ उवाच:
ततो द्रोणः केकय़ांश्च धृष्टद्युम्नस्य चात्मजान् |
१२ क
सञ्जय़ उवाच:
प्रेषय़न्मृत्युलोकाय़ सर्वानिषुभिराशुगैः ||
१२ ख
सञ्जय़ उवाच:
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः |
१३ क
सञ्जय़ उवाच:
तान्सर्वान्प्रेषय़ामास परलोकाय़ भारत ||
१३ ख
सञ्जय़ उवाच:
प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम् |
१४ क
सञ्जय़ उवाच:
अभ्यवर्तत सङ्क्रुद्धः शिवी राजन्प्रतापवान् ||
१४ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् |
१५ क
सञ्जय़ उवाच:
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः ||
१५ ख
सञ्जय़ उवाच:
तं शिविः प्रतिविव्याध त्रिंशता निशितैः शरैः |
१६ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन स्मय़मानो न्यपातय़त् ||
१६ ख
सञ्जय़ उवाच:
तस्य द्रोणो हय़ान्हत्वा सारथिं च महात्मनः |
१७ क
सञ्जय़ उवाच:
अथास्य सशिरस्त्राणं शिरः काय़ादपाहरत् ||
१७ ख
सञ्जय़ उवाच:
कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे |
१८ क
सञ्जय़ उवाच:
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ||
१८ ख
सञ्जय़ उवाच:
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः |
१९ क
सञ्जय़ उवाच:
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा ||
१९ ख
सञ्जय़ उवाच:
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः |
२० क
सञ्जय़ उवाच:
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह ||
२० ख
सञ्जय़ उवाच:
तस्य मुष्टिहतस्याजौ पाण्डवेन वलीय़सा |
२१ क
सञ्जय़ उवाच:
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ||
२१ ख
सञ्जय़ उवाच:
तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः |
२२ क
सञ्जय़ उवाच:
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ||
२२ ख
सञ्जय़ उवाच:
ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः |
२३ क
सञ्जय़ उवाच:
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथय़त् |
२३ ख
सञ्जय़ उवाच:
स तथा पाण्डुपुत्रेण वलिना निहतोऽपतत् ||
२३ ग
सञ्जय़ उवाच:
तं निहत्य महाराज भीमसेनो महावलः |
२४ क
सञ्जय़ उवाच:
जय़रातरथं प्राप्य मुहुः सिंह इवानदत् ||
२४ ख
सञ्जय़ उवाच:
जय़रातमथाक्षिप्य नदन्सव्येन पाणिना |
२५ क
सञ्जय़ उवाच:
तलेन नाशय़ामास कर्णस्यैवाग्रतः स्थितम् ||
२५ ख
सञ्जय़ उवाच:
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् |
२६ क
सञ्जय़ उवाच:
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ||
२६ ख
सञ्जय़ उवाच:
कर्णाय़ैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः |
२७ क
सञ्जय़ उवाच:
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपाय़िना ||
२७ ख
सञ्जय़ उवाच:
ततस्तव सुता राजन्भीमस्य रथमाव्रजन् |
२८ क
सञ्जय़ उवाच:
महता शरवर्षेण छादय़न्तो वृकोदरम् ||
२८ ख
सञ्जय़ उवाच:
दुर्मदस्य ततो भीमः प्रहसन्निव संय़ुगे |
२९ क
सञ्जय़ उवाच:
सारथिं च हय़ांश्चैव शरैर्निन्ये यमक्षय़म् |
२९ ख
सञ्जय़ उवाच:
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे ||
२९ ग
सञ्जय़ उवाच:
तावेकरथमारूढौ भ्रातरौ परतापनौ |
३० क
सञ्जय़ उवाच:
सङ्ग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम् |
३० ख
सञ्जय़ उवाच:
यथाम्वुपतिमित्रौ हि तारकं दैत्यसत्तमम् ||
३० ग
सञ्जय़ उवाच:
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ |
३१ क
सञ्जय़ उवाच:
रथमेकं समारुह्य भीमं वाणैरविध्यताम् ||
३१ ख
सञ्जय़ उवाच:
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च |
३२ क
सञ्जय़ उवाच:
कृपस्य सोमदत्तस्य वाह्लीकस्य च पाण्डवः ||
३२ ख
सञ्जय़ उवाच:
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् |
३३ क
सञ्जय़ उवाच:
पादप्रहारेण धरां प्रावेशय़दरिन्दमः ||
३३ ख
सञ्जय़ उवाच:
ततः सुतौ ते वलिनौ शूरौ दुष्कर्णदुर्मदौ |
३४ क
सञ्जय़ उवाच:
मुष्टिनाहत्य सङ्क्रुद्धो ममर्द चरणेन च ||
३४ ख
सञ्जय़ उवाच:
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाव्रुवन् |
३५ क
सञ्जय़ उवाच:
रुद्रोऽय़ं भीमरूपेण धार्तराष्ट्रेषु गृध्यति ||
३५ ख
सञ्जय़ उवाच:
एवमुक्त्वापलाय़न्त सर्वे भारत पार्थिवाः |
३६ क
सञ्जय़ उवाच:
विसञ्ज्ञावाहय़न्वाहान्न च द्वौ सह धावतः ||
३६ ख
सञ्जय़ उवाच:
ततो वले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः |
३७ क
सञ्जय़ उवाच:
महावलः कमलविवुद्धलोचनो; युधिष्ठिरं नृपतिमपूजय़द्वली ||
३७ ख
सञ्जय़ उवाच:
ततो यमौ द्रुपदविराटकेकय़ा; युधिष्ठिरश्चापि परां मुदं यय़ुः |
३८ क
सञ्जय़ उवाच:
वृकोदरं भृशमभिपूजय़ंश्च ते; यथान्धके प्रतिनिहते हरं सुराः ||
३८ ख
सञ्जय़ उवाच:
ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना |
३९ क
सञ्जय़ उवाच:
वृकोदरं सरथपदातिकुञ्जरा; युय़ुत्सवो भृशमभिपर्यवारय़न् ||
३९ ख
सञ्जय़ उवाच:
ततोऽभवत्तिमिरघनैरिवावृतं; महाभय़े भय़दमतीव दारुणम् |
४० क
सञ्जय़ उवाच:
निशामुखे वडवृकगृध्रमोदनं; महात्मनां नृपवरय़ुद्धमद्भुतम् ||
४० ख