chevron_left द्रोण पर्व अध्याय १३१
सञ्जय़ उवाच:
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्वणः |
९९ क
सञ्जय़ उवाच:
रराज जय़तां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ||
९९ ख
सञ्जय़ उवाच:
तेषु राजसहस्रेषु पाण्डवेय़ेषु भारत |
१०० क
सञ्जय़ उवाच:
नैनं निरीक्षितुं कश्चिच्छक्नोति द्रौणिमाहवे |
१०० ख
सञ्जय़ उवाच:
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महावलात् ||
१०० ग
सञ्जय़ उवाच:
स पुनर्भरतश्रेष्ठ क्रोधाद्रक्तान्तलोचनः |
१०१ क
सञ्जय़ उवाच:
तलं तलेन संहत्य सन्दश्य दशनच्छदम् |
१०१ ख
सञ्जय़ उवाच:
स्वसूतमव्रवीत्क्रुद्धो द्रोणपुत्राय़ मां वह ||
१०१ ग
सञ्जय़ उवाच:
स यय़ौ घोररूपेण तेन जैत्रपताकिना |
१०२ क
सञ्जय़ उवाच:
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ||
१०२ ख
सञ्जय़ उवाच:
स चिक्षेप ततः क्रुद्धो द्रोणपुत्राय़ राक्षसः |
१०३ क
सञ्जय़ उवाच:
अष्टचक्रां महारौद्रामशनीं रुद्रनिर्मिताम् ||
१०३ ख
सञ्जय़ उवाच:
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः |
१०४ क
सञ्जय़ उवाच:
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ||
१०४ ख
सञ्जय़ उवाच:
साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा |
१०५ क
सञ्जय़ उवाच:
विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा ||
१०५ ख
सञ्जय़ उवाच:
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजय़न् |
१०६ क
सञ्जय़ उवाच:
यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ||
१०६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप |
१०७ क
सञ्जय़ उवाच:
मुमोच निशितान्वाणान्पुनर्द्रौणेर्महोरसि ||
१०७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽप्यसम्भ्रान्तो मुमोचाशीविषोपमान् |
१०८ क
सञ्जय़ उवाच:
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ||
१०८ ख
सञ्जय़ उवाच:
ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः |
१०९ क
सञ्जय़ उवाच:
तावप्यग्निशिखाप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ||
१०९ ख
सञ्जय़ उवाच:
अतितीव्रमभूद्युद्धं तय़ोः पुरुषसिंहय़ोः |
११० क
सञ्जय़ उवाच:
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ||
११० ख
सञ्जय़ उवाच:
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः |
१११ क
सञ्जय़ उवाच:
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमाव्रजत् ||
१११ ख
सञ्जय़ उवाच:
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् |
११२ क
सञ्जय़ उवाच:
अय़ोधय़त धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् ||
११२ ख
सञ्जय़ उवाच:
तत्राद्भुततमं द्रौणिर्दर्शय़ामास विक्रमम् |
११३ क
सञ्जय़ उवाच:
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ||
११३ ख
सञ्जय़ उवाच:
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् |
११४ क
सञ्जय़ उवाच:
अक्षौहिणीं राक्षसानां शितैर्वाणैरशातय़त् ||
११४ ख
सञ्जय़ उवाच:
मिषतो भीमसेनस्य हैडिम्वेः पार्षतस्य च |
११५ क
सञ्जय़ उवाच:
यमय़ोर्धर्मपुत्रस्य विजय़स्याच्युतस्य च ||
११५ ख
सञ्जय़ उवाच:
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः |
११६ क
सञ्जय़ उवाच:
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||
११६ ख
सञ्जय़ उवाच:
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः |
११७ क
सञ्जय़ उवाच:
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||
११७ ख
सञ्जय़ उवाच:
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्वभौ |
११८ क
सञ्जय़ उवाच:
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षय़े ||
११८ ख
सञ्जय़ उवाच:
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् |
११९ क
सञ्जय़ उवाच:
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ||
११९ ख
सञ्जय़ उवाच:
कङ्कगृध्रमहाग्राहां नैकाय़ुधझषाकुलाम् |
१२० क
सञ्जय़ उवाच:
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ||
१२० ख
सञ्जय़ उवाच:
शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् |
१२१ क
सञ्जय़ उवाच:
मज्जामांसमहापङ्कां कवन्धावर्जितोडुपाम् ||
१२१ ख
सञ्जय़ उवाच:
केशशैवलकल्माषां भीरूणां कश्मलावहाम् |
१२२ क
सञ्जय़ उवाच:
नागेन्द्रहय़योधानां शरीरव्ययसम्भवाम् ||
१२२ ख
सञ्जय़ उवाच:
शोणितौघमहावेगां द्रौणिः प्रावर्तय़न्नदीम् |
१२३ क
सञ्जय़ उवाच:
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ||
१२३ ख
सञ्जय़ उवाच:
प्राय़ादतिमहाघोरं यमक्षय़महोदधिम् |
१२४ क
सञ्जय़ उवाच:
निहत्य राक्षसान्वाणैर्द्रौणिर्हैडिम्वमार्दय़त् ||
१२४ ख
सञ्जय़ उवाच:
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् |
१२५ क
सञ्जय़ उवाच:
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महावलः ||
१२५ ख
सञ्जय़ उवाच:
जघान सुरथं नाम द्रुपदस्य सुतं विभुः |
१२६ क
सञ्जय़ उवाच:
पुनः श्रुतञ्जय़ं नाम सुरथस्यानुजं रणे ||
१२६ ख
सञ्जय़ उवाच:
वलानीकं जय़ानीकं जय़ाश्वं चाभिजघ्निवान् |
१२७ क
सञ्जय़ उवाच:
श्रुताह्वय़ं च राजेन्द्र द्रौणिर्निन्ये यमक्षय़म् ||
१२७ ख
सञ्जय़ उवाच:
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खै रुक्ममालिनम् |
१२८ क
सञ्जय़ उवाच:
शत्रुञ्जय़ं च वलिनं शक्रलोकं निनाय़ ह ||
१२८ ख
सञ्जय़ उवाच:
जघान स पृषध्रं च चन्द्रदेवं च मानिनम् |
१२९ क
सञ्जय़ उवाच:
कुन्तिभोजसुतांश्चाजौ दशभिर्दश जघ्निवान् ||
१२९ ख
सञ्जय़ उवाच:
अश्वत्थामा सुसङ्क्रुद्धः सन्धाय़ोग्रमजिह्मगम् |
१३० क
सञ्जय़ उवाच:
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् |
१३० ख
सञ्जय़ उवाच:
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||
१३० ग
सञ्जय़ उवाच:
स भित्त्वा हृदय़ं तस्य राक्षसस्य महाशरः |
१३१ क
सञ्जय़ उवाच:
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ||
१३१ ख
सञ्जय़ उवाच:
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः |
१३२ क
सञ्जय़ उवाच:
द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये रथान्तरम् ||
१३२ ख
सञ्जय़ उवाच:
तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप |
१३३ क
सञ्जय़ उवाच:
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह |
१३३ ख
सञ्जय़ उवाच:
पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत ||
१३३ ग
सञ्जय़ उवाच:
अथ शरशतभिन्नकृत्तदेहै; र्हतपतितैः क्षणदाचरैः समन्तात् |
१३४ क
सञ्जय़ उवाच:
निधनमुपगतैर्मही कृताभू; द्गिरिशिखरैरिव दुर्गमातिरौद्रा ||
१३४ ख
सञ्जय़ उवाच:
तं सिद्धगन्धर्वपिशाचसङ्घा; नागाः सुपर्णाः पितरो वय़ांसि |
१३५ क
सञ्जय़ उवाच:
रक्षोगणा भूतगणाश्च द्रौणि; मपूजय़न्नप्सरसः सुराश्च ||
१३५ ख