वैशम्पाय़न उवाच:
ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः |
१ क
वैशम्पाय़न उवाच:
अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ||
१ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रप्रय़ुक्तास्तु केचित्कुशलमन्त्रिणः |
२ क
वैशम्पाय़न उवाच:
कथय़ां चक्रिरे रम्यं नगरं वारणावतम् ||
२ ख
वैशम्पाय़न उवाच:
अय़ं समाजः सुमहान्रमणीय़तमो भुवि |
३ क
वैशम्पाय़न उवाच:
उपस्थितः पशुपतेर्नगरे वारणावते ||
३ ख
वैशम्पाय़न उवाच:
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे |
४ क
वैशम्पाय़न उवाच:
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ||
४ ख
वैशम्पाय़न उवाच:
कथ्यमाने तथा रम्ये नगरे वारणावते |
५ क
वैशम्पाय़न उवाच:
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ||
५ ख
वैशम्पाय़न उवाच:
यदा त्वमन्यत नृपो जातकौतूहला इति |
६ क
वैशम्पाय़न उवाच:
उवाचैनानथ तदा पाण्डवानम्विकासुतः ||
६ ख
वैशम्पाय़न उवाच:
ममेमे पुरुषा नित्यं कथय़न्ति पुनः पुनः |
७ क
वैशम्पाय़न उवाच:
रमणीय़तरं लोके नगरं वारणावतम् ||
७ ख
वैशम्पाय़न उवाच:
ते तात यदि मन्यध्वमुत्सवं वारणावते |
८ क
वैशम्पाय़न उवाच:
सगणाः सानुय़ात्राश्च विहरध्वं यथामराः ||
८ ख
वैशम्पाय़न उवाच:
व्राह्मणेभ्यश्च रत्नानि गाय़नेभ्यश्च सर्वशः |
९ क
वैशम्पाय़न उवाच:
प्रय़च्छध्वं यथाकामं देवा इव सुवर्चसः ||
९ ख
वैशम्पाय़न उवाच:
कञ्चित्कालं विहृत्यैवमनुभूय़ परां मुदम् |
१० क
वैशम्पाय़न उवाच:
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ||
१० ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य तं काममनुवुद्ध्वा युधिष्ठिरः |
११ क
वैशम्पाय़न उवाच:
आत्मनश्चासहाय़त्वं तथेति प्रत्युवाच तम् ||
११ ख
वैशम्पाय़न उवाच:
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् |
१२ क
वैशम्पाय़न उवाच:
द्रोणं च वाह्लिकं चैव सोमदत्तं च कौरवम् ||
१२ ख
वैशम्पाय़न उवाच:
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् |
१३ क
वैशम्पाय़न उवाच:
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ||
१३ ख
वैशम्पाय़न उवाच:
रमणीय़े जनाकीर्णे नगरे वारणावते |
१४ क
वैशम्पाय़न उवाच:
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ||
१४ ख
वैशम्पाय़न उवाच:
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत |
१५ क
वैशम्पाय़न उवाच:
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ||
१५ ख
वैशम्पाय़न उवाच:
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः |
१६ क
वैशम्पाय़न उवाच:
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ||
१६ ख
वैशम्पाय़न उवाच:
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः |
१७ क
वैशम्पाय़न उवाच:
मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ||
१७ ख
वैशम्पाय़न उवाच:
ततः कृतस्वस्त्ययना राज्यलाभाय़ पाण्डवाः |
१८ क
वैशम्पाय़न उवाच:
कृत्वा सर्वाणि कार्याणि प्रय़युर्वारणावतम् ||
१८ ख