श्येन उवाच:
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः |
१ क
श्येन उवाच:
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ||
१ ख
श्येन उवाच:
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा |
२ क
श्येन उवाच:
मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ||
२ ख
राजो उवाच:
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज |
३ क
राजो उवाच:
मत्सकाशमनुप्राप्तः प्राणगृध्नुरय़ं द्विजः ||
३ ख
राजो उवाच:
एवमभ्यागतस्येह कपोतस्याभय़ार्थिनः |
४ क
राजो उवाच:
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ||
४ ख
राजो उवाच:
प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते |
५ क
राजो उवाच:
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ||
५ ख
श्येन उवाच:
आहारात्सर्वभूतानि सम्भवन्ति महीपते |
६ क
श्येन उवाच:
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ||
६ ख
श्येन उवाच:
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय़ जीवितुम् |
७ क
श्येन उवाच:
न तु भोजनमुत्सृज्य शक्यं वर्तय़ितुं चिरम् ||
७ ख
श्येन उवाच:
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते |
८ क
श्येन उवाच:
विसृज्य काय़मेष्यन्ति पन्थानमपुनर्भवम् ||
८ ख
श्येन उवाच:
प्रमृते मय़ि धर्मात्मन्पुत्रदारं नशिष्यति |
९ क
श्येन उवाच:
रक्षमाणः कपोतं त्वं वहून्प्राणान्नशिष्यसि ||
९ ख
श्येन उवाच:
धर्मं यो वाधते धर्मो न स धर्मः कुधर्म तत् |
१० क
श्येन उवाच:
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ||
१० ख
श्येन उवाच:
विरोधिषु महीपाल निश्चित्य गुरुलाघवम् |
११ क
श्येन उवाच:
न वाधा विद्यते यत्र तं धर्मं समुदाचरेत् ||
११ ख
श्येन उवाच:
गुरुलाघवमाज्ञाय़ धर्माधर्मविनिश्चय़े |
१२ क
श्येन उवाच:
यतो भूय़ांस्ततो राजन्कुरु धर्मविनिश्चय़म् ||
१२ ख
राजो उवाच:
वहुकल्याणसंय़ुक्तं भाषसे विहगोत्तम |
१३ क
राजो उवाच:
सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशय़म् |
१३ ख
राजो उवाच:
तथा हि धर्मसंय़ुक्तं वहु चित्रं प्रभाषसे ||
१३ ग
राजो उवाच:
न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षय़ाम्यहम् |
१४ क
राजो उवाच:
शरणैषिणः परित्यागं कथं साध्विति मन्यसे ||
१४ ख
राजो उवाच:
आहारार्थं समारम्भस्तव चाय़ं विहङ्गम |
१५ क
राजो उवाच:
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वय़ा ||
१५ ख
राजो उवाच:
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा |
१६ क
राजो उवाच:
त्वदर्थमद्य क्रिय़तां यद्वान्यदभिकाङ्क्षसे ||
१६ ख
श्येन उवाच:
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा |
१७ क
श्येन उवाच:
भक्षय़ामि महाराज किमन्नाद्येन तेन मे ||
१७ ख
श्येन उवाच:
यस्तु मे दैवविहितो भक्षः क्षत्रिय़पुङ्गव |
१८ क
श्येन उवाच:
तमुत्सृज महीपाल कपोतमिममेव मे ||
१८ ख
श्येन उवाच:
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी |
१९ क
श्येन उवाच:
मा राजन्मार्गमाज्ञाय़ कदलीस्कन्धमारुह ||
१९ ख
राजो उवाच:
राज्यं शिवीनामृद्धं वै शाधि पक्षिगणार्चित |
२० क
राजो उवाच:
यद्वा कामय़से किञ्चिच्छ्येन सर्वं ददानि ते |
२० ख
राजो उवाच:
विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ||
२० ग
राजो उवाच:
येनेमं वर्जय़ेथास्त्वं कर्मणा पक्षिसत्तम |
२१ क
राजो उवाच:
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ||
२१ ख
श्येन उवाच:
उशीनर कपोते ते यदि स्नेहो नराधिप |
२२ क
श्येन उवाच:
आत्मनो मांसमुत्कृत्य कपोततुलय़ा धृतम् ||
२२ ख
श्येन उवाच:
यदा समं कपोतेन तव मांसं भवेन्नृप |
२३ क
श्येन उवाच:
तदा प्रदेय़ं तन्मह्यं सा मे तुष्टिर्भविष्यति ||
२३ ख
राजो उवाच:
अनुग्रहमिमं मन्ये श्येन यन्माभिय़ाचसे |
२४ क
राजो उवाच:
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलय़ा धृतम् ||
२४ ख
लोमश उवाच:
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् |
२५ क
लोमश उवाच:
तुलय़ामास कौन्तेय़ कपोतेन सहाभिभो ||
२५ ख
लोमश उवाच:
ध्रिय़माणस्तु तुलय़ा कपोतो व्यतिरिच्यते |
२६ क
लोमश उवाच:
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ||
२६ ख
लोमश उवाच:
न विद्यते यदा मांसं कपोतेन समं धृतम् |
२७ क
लोमश उवाच:
तत उत्कृत्तमांसोऽसावारुरोह स्वय़ं तुलाम् ||
२७ ख
श्येन उवाच:
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडय़म् |
२८ क
श्येन उवाच:
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ||
२८ ख
श्येन उवाच:
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते |
२९ क
श्येन उवाच:
एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ||
२९ ख
श्येन उवाच:
यावल्लोके मनुष्यास्त्वां कथय़िष्यन्ति पार्थिव |
३० क
श्येन उवाच:
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ||
३० ख
लोमश उवाच:
तत्पाण्डवेय़ सदनं राज्ञस्तस्य महात्मनः |
३१ क
लोमश उवाच:
पश्यस्वैतन्मय़ा सार्धं पुण्यं पापप्रमोचनम् ||
३१ ख
लोमश उवाच:
अत्र वै सततं देवा मुनय़श्च सनातनाः |
३२ क
लोमश उवाच:
दृश्यन्ते व्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ||
३२ ख