chevron_left आदि पर्व अध्याय १३२
वैशम्पाय़न उवाच:
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु |
१ क
वैशम्पाय़न उवाच:
दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ||
१ ख
वैशम्पाय़न उवाच:
स पुरोचनमेकान्तमानीय़ भरतर्षभ |
२ क
वैशम्पाय़न उवाच:
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
ममेय़ं वसुसम्पूर्णा पुरोचन वसुन्धरा |
३ क
वैशम्पाय़न उवाच:
यथेय़ं मम तद्वत्ते स तां रक्षितुमर्हसि ||
३ ख
वैशम्पाय़न उवाच:
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वय़ा |
४ क
वैशम्पाय़न उवाच:
सहाय़ो येन सन्धाय़ मन्त्रय़ेय़ं यथा त्वय़ा ||
४ ख
वैशम्पाय़न उवाच:
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर |
५ क
वैशम्पाय़न उवाच:
निपुणेनाभ्युपाय़ेन यद्व्रवीमि तथा कुरु ||
५ ख
वैशम्पाय़न उवाच:
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् |
६ क
वैशम्पाय़न उवाच:
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ||
६ ख
वैशम्पाय़न उवाच:
स त्वं रासभय़ुक्तेन स्यन्दनेनाशुगामिना |
७ क
वैशम्पाय़न उवाच:
वारणावतमद्यैव यथा यासि तथा कुरु ||
७ ख
वैशम्पाय़न उवाच:
तत्र गत्वा चतुःशालं गृहं परमसंवृतम् |
८ क
वैशम्पाय़न उवाच:
आय़ुधागारमाश्रित्य कारय़ेथा महाधनम् ||
८ ख
वैशम्पाय़न उवाच:
शणसर्जरसादीनि यानि द्रव्याणि कानिचित् |
९ क
वैशम्पाय़न उवाच:
आग्नेय़ान्युत सन्तीह तानि सर्वाणि दापय़ ||
९ ख
वैशम्पाय़न उवाच:
सर्पिषा च सतैलेन लाक्षय़ा चाप्यनल्पय़ा |
१० क
वैशम्पाय़न उवाच:
मृत्तिकां मिश्रय़ित्वा त्वं लेपं कुड्येषु दापय़ेः ||
१० ख
वैशम्पाय़न उवाच:
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च |
११ क
वैशम्पाय़न उवाच:
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ||
११ ख
वैशम्पाय़न उवाच:
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः |
१२ क
वैशम्पाय़न उवाच:
आग्नेय़मिति तत्कार्यमिति चान्ये च मानवाः ||
१२ ख
वैशम्पाय़न उवाच:
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् |
१३ क
वैशम्पाय़न उवाच:
वासय़ेः पाण्डवेय़ांश्च कुन्तीं च ससुहृज्जनाम् ||
१३ ख
वैशम्पाय़न उवाच:
तत्रासनानि मुख्यानि यानानि शय़नानि च |
१४ क
वैशम्पाय़न उवाच:
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ||
१४ ख
वैशम्पाय़न उवाच:
यथा रमेरन्विश्रव्धा नगरे वारणावते |
१५ क
वैशम्पाय़न उवाच:
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ||
१५ ख
वैशम्पाय़न उवाच:
ज्ञात्वा तु तान्सुविश्वस्ताञ्शय़ानानकुतोभय़ान् |
१६ क
वैशम्पाय़न उवाच:
अग्निस्ततस्त्वय़ा देय़ो द्वारतस्तस्य वेश्मनः ||
१६ ख
वैशम्पाय़न उवाच:
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः |
१७ क
वैशम्पाय़न उवाच:
ज्ञातय़ो वा वदिष्यन्ति पाण्डवार्थाय़ कर्हिचित् ||
१७ ख
वैशम्पाय़न उवाच:
तत्तथेति प्रतिज्ञाय़ कौरवाय़ पुरोचनः |
१८ क
वैशम्पाय़न उवाच:
प्राय़ाद्रासभय़ुक्तेन नगरं वारणावतम् ||
१८ ख
वैशम्पाय़न उवाच:
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः |
१९ क
वैशम्पाय़न उवाच:
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ||
१९ ख