उमो उवाच:
भगवन्सर्वभूतेश सुरासुरनमस्कृत |
१ क
उमो उवाच:
धर्माधर्मे नृणां देव व्रूहि मे संशय़ं विभो ||
१ ख
उमो उवाच:
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा |
२ क
उमो उवाच:
वध्यते वन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ||
२ ख
उमो उवाच:
केन शीलेन वा देव कर्मणा कीदृशेन वा |
३ क
उमो उवाच:
समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ||
३ ख
महेश्वर उवाच:
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते |
४ क
महेश्वर उवाच:
सर्वप्राणिहितः प्रश्नः श्रूय़तां वुद्धिवर्धनः ||
४ ख
महेश्वर उवाच:
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः |
५ क
महेश्वर उवाच:
नाधर्मेण न धर्मेण वध्यन्ते छिन्नसंशय़ाः ||
५ ख
महेश्वर उवाच:
प्रलय़ोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः |
६ क
महेश्वर उवाच:
वीतरागा विमुच्यन्ते पुरुषाः सर्ववन्धनैः ||
६ ख
महेश्वर उवाच:
कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन |
७ क
महेश्वर उवाच:
ये न सज्जन्ति कस्मिंश्चिद्वध्यन्ते ते न कर्मभिः ||
७ ख
महेश्वर उवाच:
प्राणातिपाताद्विरताः शीलवन्तो दय़ान्विताः |
८ क
महेश्वर उवाच:
तुल्यद्वेष्यप्रिय़ा दान्ता मुच्यन्ते कर्मवन्धनैः ||
८ ख
महेश्वर उवाच:
सर्वभूतदय़ावन्तो विश्वास्याः सर्वजन्तुषु |
९ क
महेश्वर उवाच:
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ||
९ ख
महेश्वर उवाच:
परस्वे निर्ममा नित्यं परदारविवर्जकाः |
१० क
महेश्वर उवाच:
धर्मलव्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ||
१० ख
महेश्वर उवाच:
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये |
११ क
महेश्वर उवाच:
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ||
११ ख
महेश्वर उवाच:
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च |
१२ क
महेश्वर उवाच:
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ||
१२ ख
महेश्वर उवाच:
स्वदारनिरता ये च ऋतुकालाभिगामिनः |
१३ क
महेश्वर उवाच:
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ||
१३ ख
महेश्वर उवाच:
परदारेषु ये नित्यं चारित्रावृतलोचनाः |
१४ क
महेश्वर उवाच:
यतेन्द्रिय़ाः शीलपरास्ते नराः स्वर्गगामिनः ||
१४ ख
महेश्वर उवाच:
एष देवकृतो मार्गः सेवितव्यः सदा नरैः |
१५ क
महेश्वर उवाच:
अकषाय़कृतश्चैव मार्गः सेव्यः सदा वुधैः ||
१५ ख
महेश्वर उवाच:
दानधर्मतपोय़ुक्तः शीलशौचदय़ात्मकः |
१६ क
महेश्वर उवाच:
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः |
१६ ख
महेश्वर उवाच:
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ||
१६ ग
उमो उवाच:
वाचाथ वध्यते येन मुच्यतेऽप्यथ वा पुनः |
१७ क
उमो उवाच:
तानि कर्माणि मे देव वद भूतपतेऽनघ ||
१७ ख
महेश्वर उवाच:
आत्महेतोः परार्थे वा नर्महास्याश्रय़ात्तथा |
१८ क
महेश्वर उवाच:
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ||
१८ ख
महेश्वर उवाच:
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च |
१९ क
महेश्वर उवाच:
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ||
१९ ख
महेश्वर उवाच:
श्लक्ष्णां वाणीं निरावाधां मधुरां पापवर्जिताम् |
२० क
महेश्वर उवाच:
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ||
२० ख
महेश्वर उवाच:
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् |
२१ क
महेश्वर उवाच:
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ||
२१ ख
महेश्वर उवाच:
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् |
२२ क
महेश्वर उवाच:
ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ||
२२ ख
महेश्वर उवाच:
वर्जय़न्ति सदा सूच्यं परद्रोहं च मानवाः |
२३ क
महेश्वर उवाच:
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ||
२३ ख
महेश्वर उवाच:
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः |
२४ क
महेश्वर उवाच:
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ||
२४ ख
महेश्वर उवाच:
न कोपाद्व्याहरन्ते ये वाचं हृदय़दारणीम् |
२५ क
महेश्वर उवाच:
सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ||
२५ ख
महेश्वर उवाच:
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः |
२६ क
महेश्वर उवाच:
शुभः सत्यगुणो नित्यं वर्जनीय़ा मृषा वुधैः ||
२६ ख
उमो उवाच:
मनसा वध्यते येन कर्मणा पुरुषः सदा |
२७ क
उमो उवाच:
तन्मे व्रूहि महाभाग देवदेव पिनाकधृक् ||
२७ ख
महेश्वर उवाच:
मानसेनेह धर्मेण संय़ुक्ताः पुरुषाः सदा |
२८ क
महेश्वर उवाच:
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तय़तः शृणु ||
२८ ख
महेश्वर उवाच:
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः |
२९ क
महेश्वर उवाच:
वध्यते मानवो येन शृणु चान्यच्छुभानने ||
२९ ख
महेश्वर उवाच:
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः |
३० क
महेश्वर उवाच:
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||
३० ख
महेश्वर उवाच:
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् |
३१ क
महेश्वर उवाच:
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ||
३१ ख
महेश्वर उवाच:
तथैव परदारान्ये कामवृत्तान्रहोगतान् |
३२ क
महेश्वर उवाच:
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ||
३२ ख
महेश्वर उवाच:
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः |
३३ क
महेश्वर उवाच:
भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ||
३३ ख
महेश्वर उवाच:
श्रुतवन्तो दय़ावन्तः शुचय़ः सत्यसङ्गराः |
३४ क
महेश्वर उवाच:
स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ||
३४ ख
महेश्वर उवाच:
अवैरा ये त्वनाय़ासा मैत्रचित्तपराः सदा |
३५ क
महेश्वर उवाच:
सर्वभूतदय़ावन्तस्ते नराः स्वर्गगामिनः ||
३५ ख
महेश्वर उवाच:
श्रद्धावन्तो दय़ावन्तश्चोक्षाश्चोक्षजनप्रिय़ाः |
३६ क
महेश्वर उवाच:
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ||
३६ ख
महेश्वर उवाच:
शुभानामशुभानां च कर्मणां फलसञ्चय़े |
३७ क
महेश्वर उवाच:
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ||
३७ ख
महेश्वर उवाच:
न्याय़ोपेता गुणोपेता देवद्विजपराः सदा |
३८ क
महेश्वर उवाच:
समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ||
३८ ख
महेश्वर उवाच:
शुभैः कर्मफलैर्देवि मय़ैते परिकीर्तिताः |
३९ क
महेश्वर उवाच:
स्वर्गमार्गोपगा भूय़ः किमन्यच्छ्रोतुमिच्छसि ||
३९ ख
उमो उवाच:
महान्मे संशय़ः कश्चिन्मर्त्यान्प्रति महेश्वर |
४० क
उमो उवाच:
तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ||
४० ख
उमो उवाच:
केनाय़ुर्लभते दीर्घं कर्मणा पुरुषः प्रभो |
४१ क
उमो उवाच:
तपसा वापि देवेश केनाय़ुर्लभते महत् ||
४१ ख
उमो उवाच:
क्षीणाय़ुः केन भवति कर्मणा भुवि मानवः |
४२ क
उमो उवाच:
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ||
४२ ख
उमो उवाच:
अपरे च महाभोगा मन्दभोगास्तथापरे |
४३ क
उमो उवाच:
अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ||
४३ ख
उमो उवाच:
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमय़ा इव |
४४ क
उमो उवाच:
प्रिय़दर्शास्तथा चान्ये दर्शनादेव मानवाः ||
४४ ख
उमो उवाच:
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः |
४५ क
उमो उवाच:
महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ||
४५ ख
उमो उवाच:
अल्पावाधास्तथा केचिन्महावाधास्तथापरे |
४६ क
उमो उवाच:
दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ||
४६ ख
महेश्वर उवाच:
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदय़म् |
४७ क
महेश्वर उवाच:
मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ||
४७ ख
महेश्वर उवाच:
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा |
४८ क
महेश्वर उवाच:
नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ||
४८ ख
महेश्वर उवाच:
निर्दय़ः सर्वभूतानां नित्यमुद्वेगकारकः |
४९ क
महेश्वर उवाच:
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ||
४९ ख
महेश्वर उवाच:
एवम्भूतो नरो देवि निरय़ं प्रतिपद्यते |
५० क