लोमश उवाच:
यः कथ्यते मन्त्रविदग्र्यवुद्धि; रौद्दालकिः श्वेतकेतुः पृथिव्याम् |
१ क
लोमश उवाच:
तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः ||
१ ख
लोमश उवाच:
साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम् |
२ क
लोमश उवाच:
वेत्स्यामि वाणीमिति सम्प्रवृत्तां; सरस्वतीं श्वेतकेतुर्वभाषे ||
२ ख
लोमश उवाच:
तस्मिन्काले व्रह्मविदां वरिष्ठा; वास्तां तदा मातुलभागिनेय़ौ |
३ क
लोमश उवाच:
अष्टावक्रश्चैव कहोडसूनु; रौद्दालकिः श्वेतकेतुश्च राजन् ||
३ ख
लोमश उवाच:
विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेय़ौ |
४ क
लोमश उवाच:
प्रविश्य यज्ञाय़तनं विवादे; वन्दिं निजग्राहतुरप्रमेय़म् ||
४ ख
युधिष्ठिर उवाच:
कथम्प्रभावः स वभूव विप्र; स्तथाय़ुक्तं यो निजग्राह वन्दिम् |
५ क
युधिष्ठिर उवाच:
अष्टावक्रः केन चासौ वभूव; तत्सर्वं मे लोमश शंस तत्त्वम् ||
५ ख
लोमश उवाच:
उद्दालकस्य निय़तः शिष्य एको; नाम्ना कहोडेति वभूव राजन् |
६ क
लोमश उवाच:
शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार ||
६ ख
लोमश उवाच:
तं वै विप्राः पर्यभवंश्च शिष्या; स्तं च ज्ञात्वा विप्रकारं गुरुः सः |
७ क
लोमश उवाच:
तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम् ||
७ ख
लोमश उवाच:
तस्या गर्भः समभवदग्निकल्पः; सोऽधीय़ानं पितरमथाभ्युवाच |
८ क
लोमश उवाच:
सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते ||
८ ख
लोमश उवाच:
उपालव्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप |
९ क
लोमश उवाच:
यस्मात्कुक्षौ वर्तमानो व्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः ||
९ ख
लोमश उवाच:
स वै तथा वक्र एवाभ्यजाय़; दष्टावक्रः प्रथितो वै महर्षिः |
१० क
लोमश उवाच:
तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वय़सा वभूव ||
१० ख
लोमश उवाच:
सम्पीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ |
११ क
लोमश उवाच:
उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी ||
११ ख
लोमश उवाच:
कथं करिष्याम्यधना महर्षे; मासश्चाय़ं दशमो वर्तते मे |
१२ क
लोमश उवाच:
न चास्ति ते वसु किञ्चित्प्रजाता; येनाहमेतामापदं निस्तरेय़म् ||
१२ ख
लोमश उवाच:
उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत् |
१३ क
लोमश उवाच:
स वै तदा वादविदा निगृह्य; निमज्जितो वन्दिनेहाप्सु विप्रः ||
१३ ख
लोमश उवाच:
उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम् |
१४ क
लोमश उवाच:
उवाच तां तत्र ततः सुजाता; मष्टावक्रे गूहितव्योऽय़मर्थः ||
१४ ख
लोमश उवाच:
ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः |
१५ क
लोमश उवाच:
उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् ||
१५ ख
लोमश उवाच:
ततो वर्षे द्वादशे श्वेतकेतु; रष्टावक्रं पितुरङ्के निसन्नम् |
१६ क
लोमश उवाच:
अपाकर्षद्गृह्य पाणौ रुदन्तं; नाय़ं तवाङ्कः पितुरित्युक्तवांश्च ||
१६ ख
लोमश उवाच:
यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत् |
१७ क
लोमश उवाच:
गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति ||
१७ ख
लोमश उवाच:
ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे |
१८ क
लोमश उवाच:
तद्वै तत्त्वं सर्वमाज्ञाय़ मातु; रित्यव्रवीच्छ्वेतकेतुं स विप्रः ||
१८ ख
लोमश उवाच:
गच्छाव यज्ञं जनकस्य राज्ञो; वह्वाश्चर्यः श्रूय़ते तस्य यज्ञः |
१९ क
लोमश उवाच:
श्रोष्यावोऽत्र व्राह्मणानां विवाद; मन्नं चाग्र्यं तत्र भोक्ष्यावहे च |
१९ ख
लोमश उवाच:
विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि व्रह्मघोषः ||
१९ ग
लोमश उवाच:
तौ जग्मतुर्मातुलभागिनेय़ौ; यज्ञं समृद्धं जनकस्य राज्ञः |
२० क
लोमश उवाच:
अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद ||
२० ख