chevron_left द्रोण पर्व अध्याय १३२
सञ्जय़ उवाच:
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा |
१ क
सञ्जय़ उवाच:
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ||
१ ख
सञ्जय़ उवाच:
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः |
२ क
सञ्जय़ उवाच:
युय़ुधानश्च संय़त्ता युद्धाय़ैव मनो दधुः ||
२ ख
सञ्जय़ उवाच:
सोमदत्तः पुनः कुर्द्धो दृष्ट्वा सात्यकिमाहवे |
३ क
सञ्जय़ उवाच:
महता शरवर्षेण छादय़ामास सर्वतः ||
३ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धमतीव भय़वर्धनम् |
४ क
सञ्जय़ उवाच:
त्वदीय़ानां परेषां च घोरं विजय़काङ्क्षिणाम् ||
४ ख
सञ्जय़ उवाच:
दशभिः सात्वतस्यार्थे भीमो विव्याध कौरवम् |
५ क
सञ्जय़ उवाच:
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ||
५ ख
सञ्जय़ उवाच:
सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् |
६ क
सञ्जय़ उवाच:
वृद्धमृद्धं गुणैः सर्वैर्ययातिमिव नाहुषम् ||
६ ख
सञ्जय़ उवाच:
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातिभिः |
७ क
सञ्जय़ उवाच:
शक्त्या चैनमथाहत्य पुनर्विव्याध सप्तभिः ||
७ ख
सञ्जय़ उवाच:
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् |
८ क
सञ्जय़ उवाच:
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ||
८ ख
सञ्जय़ उवाच:
सात्यकिश्चाग्निसङ्काशं मुमोच शरमुत्तमम् |
९ क
सञ्जय़ उवाच:
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ||
९ ख
सञ्जय़ उवाच:
युगपत्पेततुरथ घोरौ परिघमार्गणौ |
१० क
सञ्जय़ उवाच:
शरीरे सोमदत्तस्य स पपात महारथः ||
१० ख
सञ्जय़ उवाच:
व्यामोहिते तु तनय़े वाह्लीकः समुपाद्रवत् |
११ क
सञ्जय़ उवाच:
विसृजञ्शरवर्षाणि कालवर्षीव तोय़दः ||
११ ख
सञ्जय़ उवाच:
भीमोऽथ सात्वतस्यार्थे वाह्लीकं नवभिः शरैः |
१२ क
सञ्जय़ उवाच:
पीडय़न्वै महात्मानं विव्याध रणमूर्धनि ||
१२ ख
सञ्जय़ उवाच:
प्रातिपीय़स्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि |
१३ क
सञ्जय़ उवाच:
निचखान महावाहुः पुरन्दर इवाशनिम् ||
१३ ख
सञ्जय़ उवाच:
स तय़ाभिहतो भीमश्चकम्पे च मुमोह च |
१४ क
सञ्जय़ उवाच:
प्राप्य चेतश्च वलवान्गदामस्मै ससर्ज ह ||
१४ ख
सञ्जय़ उवाच:
सा पाण्डवेन प्रहिता वाह्लीकस्य शिरोऽहरत् |
१५ क
सञ्जय़ उवाच:
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ||
१५ ख
सञ्जय़ उवाच:
तस्मिन्विनिहते वीरे वाह्लीके पुरुषर्षभे |
१६ क
सञ्जय़ उवाच:
पुत्रास्तेऽभ्यर्दय़न्भीमं दश दाशरथेः समाः ||
१६ ख
सञ्जय़ उवाच:
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् |
१७ क
सञ्जय़ उवाच:
कर्णस्य दय़ितं पुत्रं वृषसेनमवाकिरत् ||
१७ ख
सञ्जय़ उवाच:
ततो वृषरथो नाम भ्राता कर्णस्य विश्रुतः |
१८ क
सञ्जय़ उवाच:
जघान भीमं नाराचैस्तमप्यभ्यवधीद्वली ||
१८ ख
सञ्जय़ उवाच:
ततः सप्त रथान्वीरः स्यालानां तव भारत |
१९ क
सञ्जय़ उवाच:
निहत्य भीमो नाराचैः शतचन्द्रमपोथय़त् ||
१९ ख
सञ्जय़ उवाच:
अमर्षय़न्तो निहतं शतचन्द्रं महारथम् |
२० क
सञ्जय़ उवाच:
शकुनेर्भ्रातरो वीरा गजाक्षः शरभो विभुः |
२० ख
सञ्जय़ उवाच:
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडय़न् ||
२० ग
सञ्जय़ उवाच:
स तुद्यमानो नाराचैर्वृष्टिवेगैरिवर्षभः |
२१ क
सञ्जय़ उवाच:
जघान पञ्चभिर्वाणैः पञ्चैवातिवलो रथान् |
२१ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ||
२१ ग
सञ्जय़ उवाच:
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातय़त् |
२२ क
सञ्जय़ उवाच:
मिषतः कुम्भय़ोनेश्च पुत्राणां च तवानघ ||
२२ ख
सञ्जय़ उवाच:
अम्वष्ठान्मालवाञ्शूरांस्त्रिगर्तान्सशिवीनपि |
२३ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ गणान्युद्धे युधिष्ठिरः ||
२३ ख
सञ्जय़ उवाच:
अभीषाहाञ्शूरसेनान्वाह्लीकान्सवसातिकान् |
२४ क
सञ्जय़ उवाच:
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ||
२४ ख
सञ्जय़ उवाच:
यौधेय़ारट्टराजन्यमद्रकाणां गणान्युधि |
२५ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ शूरान्वाणैर्युधिष्ठिरः ||
२५ ख
सञ्जय़ उवाच:
हताहरत गृह्णीत विध्यत व्यवकृन्तत |
२६ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दो युधिष्ठिररथं प्रति ||
२६ ख
सञ्जय़ उवाच:
सैन्यानि द्रावय़न्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् |
२७ क
सञ्जय़ उवाच:
चोदितस्तव पुत्रेण साय़कैरभ्यवाकिरत् ||
२७ ख
सञ्जय़ उवाच:
द्रोणस्तु परमक्रुद्धो वाय़व्यास्त्रेण पार्थिवम् |
२८ क
सञ्जय़ उवाच:
विव्याध सोऽस्य तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ||
२८ ख
सञ्जय़ उवाच:
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे |
२९ क
सञ्जय़ उवाच:
वारुणं याम्यमाग्नेय़ं त्वाष्ट्रं सावित्रमेव च |
२९ ख
सञ्जय़ उवाच:
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ||
२९ ग
सञ्जय़ उवाच:
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः |
३० क
सञ्जय़ उवाच:
जघानास्त्रैर्महावाहुः कुम्भय़ोनेरवित्रसन् ||
३० ख
सञ्जय़ उवाच:
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः |
३१ क
सञ्जय़ उवाच:
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत |
३१ ख
सञ्जय़ उवाच:
जिघांसुर्धर्मतनय़ं तव पुत्रहिते रतः ||
३१ ग
सञ्जय़ उवाच:
पतिः कुरूणां गजसिंहगामी; विशालवक्षाः पृथुलोहिताक्षः |
३२ क
सञ्जय़ उवाच:
प्रादुश्चकारास्त्रमहीनतेजा; माहेन्द्रमन्यत्स जघान तेऽस्त्रे ||
३२ ख
सञ्जय़ उवाच:
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः |
३३ क
सञ्जय़ उवाच:
युधिष्ठिरवधप्रेप्सुर्व्राह्ममस्त्रमुदैरय़त् ||
३३ ख
सञ्जय़ उवाच:
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसावृते |
३४ क
सञ्जय़ उवाच:
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ||
३४ ख
सञ्जय़ उवाच:
व्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः |
३५ क
सञ्जय़ उवाच:
व्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारय़त् ||
३५ ख
सञ्जय़ उवाच:
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ |
३६ क
सञ्जय़ उवाच:
द्रोणपार्थौ महेष्वासौ सर्वय़ुद्धविशारदौ ||
३६ ख
सञ्जय़ उवाच:
ततः प्रमुच्य कौन्तेय़ं द्रोणो द्रुपदवाहिनीम् |
३७ क
सञ्जय़ उवाच:
व्यधमद्रोषताम्राक्षो वाय़व्यास्त्रेण भारत ||
३७ ख
सञ्जय़ उवाच:
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भय़ात् |
३८ क
सञ्जय़ उवाच:
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||
३८ ख
सञ्जय़ उवाच:
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |
३९ क
सञ्जय़ उवाच:
महद्भ्यां रथवंशाभ्यां परिगृह्य वलं तव ||
३९ ख
सञ्जय़ उवाच:
वीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |
४० क
सञ्जय़ उवाच:
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||
४० ख
सञ्जय़ उवाच:
तौ तदा सृञ्जय़ाश्चैव पाञ्चालाश्च महौजसः |
४१ क
सञ्जय़ उवाच:
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः ||
४१ ख
सञ्जय़ उवाच:
ततः सा भारती सेना वध्यमाना किरीटिना |
४२ क
सञ्जय़ उवाच:
द्रोणेन वार्यमाणास्ते स्वय़ं तव सुतेन च |
४२ ख
सञ्जय़ उवाच:
नाशक्यन्त महाराज योधा वारय़ितुं तदा ||
४२ ग