सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने नराश्वगजसङ्क्षय़े |
१ क
सञ्जय़ उवाच:
दुःशासनो महाराज धृष्टद्युम्नमय़ोधय़त् ||
१ ख
सञ्जय़ उवाच:
स तु रुक्मरथासक्तो दुःशासनशरार्दितः |
२ क
सञ्जय़ उवाच:
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ||
२ ख
सञ्जय़ उवाच:
क्षणेन स रथस्तस्य सध्वजः सहसारथिः |
३ क
सञ्जय़ उवाच:
नादृश्यत महाराज पार्षतस्य शरैश्चितः ||
३ ख
सञ्जय़ उवाच:
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः |
४ क
सञ्जय़ उवाच:
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ||
४ ख
सञ्जय़ उवाच:
स तु दुःशासनं वाणैर्विमुखीकृत्य पार्षतः |
५ क
सञ्जय़ उवाच:
किरञ्शरसहस्राणि द्रोणमेवाभ्ययाद्रणे ||
५ ख
सञ्जय़ उवाच:
प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् |
६ क
सञ्जय़ उवाच:
सोदर्याणां त्रय़श्चैव त एनं पर्यवारय़न् ||
६ ख
सञ्जय़ उवाच:
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ |
७ क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं यान्तं दीप्यमानमिवानलम् ||
७ ख
सञ्जय़ उवाच:
सम्प्रहारमकुर्वंस्ते सर्वे सप्त महारथाः |
८ क
सञ्जय़ उवाच:
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ||
८ ख
सञ्जय़ उवाच:
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः |
९ क
सञ्जय़ उवाच:
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ||
९ ख
सञ्जय़ उवाच:
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः |
१० क
सञ्जय़ उवाच:
धर्मय़ुद्धमय़ुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् ||
१० ख
सञ्जय़ उवाच:
न तत्रासीदधर्मिष्ठमशस्त्रं युद्धमेव च |
११ क
सञ्जय़ उवाच:
नात्र कर्णी न नालीको न लिप्तो न च वस्तकः ||
११ ख
सञ्जय़ उवाच:
न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः |
१२ क
सञ्जय़ उवाच:
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ||
१२ ख
सञ्जय़ उवाच:
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारय़न् |
१३ क
सञ्जय़ उवाच:
सुय़ुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ||
१३ ख
सञ्जय़ उवाच:
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् |
१४ क
सञ्जय़ उवाच:
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ||
१४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु तान्हित्वा तव राजन्रथर्षभान् |
१५ क
सञ्जय़ उवाच:
यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् ||
१५ ख
सञ्जय़ उवाच:
निवारितास्तु ते वीरास्तय़ोः पुरुषसिंहय़ोः |
१६ क
सञ्जय़ उवाच:
समसज्जन्त चत्वारो वाताः पर्वतय़ोरिव ||
१६ ख
सञ्जय़ उवाच:
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ |
१७ क
सञ्जय़ उवाच:
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ||
१७ ख
सञ्जय़ उवाच:
दृष्ट्वा द्रोणाय़ पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् |
१८ क
सञ्जय़ उवाच:
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ||
१८ ख
सञ्जय़ उवाच:
दुर्योधनो महाराज किरञ्शोणितभोजनान् |
१९ क
सञ्जय़ उवाच:
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ||
१९ ख
सञ्जय़ उवाच:
तौ परस्परमासाद्य समीपे कुरुमाधवौ |
२० क
सञ्जय़ उवाच:
हसमानौ नृशार्दूलावभीतौ समगच्छताम् ||
२० ख
सञ्जय़ उवाच:
वाल्ये वृत्तानि सर्वाणि प्रीय़माणौ विचिन्त्य तौ |
२१ क
सञ्जय़ उवाच:
अन्योन्यं प्रेक्षमाणौ च हसमानौ पुनः पुनः ||
२१ ख
सञ्जय़ उवाच:
अथ दुर्योधनो राजा सात्यकिं प्रत्यभाषत |
२२ क
सञ्जय़ उवाच:
प्रिय़ं सखाय़ं सततं गर्हय़न्वृत्तमात्मनः ||
२२ ख
सञ्जय़ उवाच:
धिक्क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् |
२३ क
सञ्जय़ उवाच:
धिगस्तु क्षात्रमाचारं धिगस्तु वलमौरसम् ||
२३ ख
सञ्जय़ उवाच:
यत्त्वं मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव |
२४ क
सञ्जय़ उवाच:
त्वं हि प्राणैः प्रिय़तरो ममाहं च सदा तव ||
२४ ख
सञ्जय़ उवाच:
स्मरामि तानि सर्वाणि वाल्ये वृत्तानि यानि नौ |
२५ क
सञ्जय़ उवाच:
तानि सर्वाणि जीर्णानि साम्प्रतं नौ रणाजिरे |
२५ ख
सञ्जय़ उवाच:
किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत ||
२५ ग
सञ्जय़ उवाच:
तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत |
२६ क
सञ्जय़ उवाच:
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ||
२६ ख
सञ्जय़ उवाच:
नेय़ं सभा राजपुत्र न चाचार्यनिवेशनम् |
२७ क
सञ्जय़ उवाच:
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ||
२७ ख
दुर्योधन उवाच:
क्व सा क्रीडा गतास्माकं वाल्ये वै शिनिपुङ्गव |
२८ क
दुर्योधन उवाच:
क्व च युद्धमिदं भूय़ः कालो हि दुरतिक्रमः ||
२८ ख
दुर्योधन उवाच:
किं नु नो विद्यते कृत्यं धनेन धनलिप्सय़ा |
२९ क
दुर्योधन उवाच:
यत्र युध्यामहे सर्वे धनलोभात्समागताः ||
२९ ख
सञ्जय़ उवाच:
तं तथावादिनं तत्र राजानं माधवोऽव्रवीत् |
३० क
सञ्जय़ उवाच:
एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि ||
३० ख
सञ्जय़ उवाच:
यदि तेऽहं प्रिय़ो राजञ्जहि मां मा चिरं कृथाः |
३१ क
सञ्जय़ उवाच:
त्वत्कृते सुकृताँल्लोकान्गच्छेय़ं भरतर्षभ ||
३१ ख
सञ्जय़ उवाच:
या ते शक्तिर्वलं चैव तत्क्षिप्रं मय़ि दर्शय़ |
३२ क
सञ्जय़ उवाच:
नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् ||
३२ ख
सञ्जय़ उवाच:
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः |
३३ क
सञ्जय़ उवाच:
अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशां पते ||
३३ ख
सञ्जय़ उवाच:
तमाय़ान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः |
३४ क
सञ्जय़ उवाच:
शरैश्चावाकिरद्राजञ्शैनेय़ं तनय़स्तव ||
३४ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कुरुमाधवसिंहय़ोः |
३५ क
सञ्जय़ उवाच:
अन्योन्यं क्रुद्धय़ोर्घोरं यथा द्विरदसिंहय़ोः ||
३५ ख
सञ्जय़ उवाच:
ततः पूर्णाय़तोत्सृष्टैः सात्वतं युद्धदुर्मदम् |
३६ क
सञ्जय़ उवाच:
दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः ||
३६ ख
सञ्जय़ उवाच:
तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः |
३७ क
सञ्जय़ उवाच:
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ||
३७ ख
सञ्जय़ उवाच:
तस्य सन्दधतश्चेषून्संहितेषुं च कार्मुकम् |
३८ क
सञ्जय़ उवाच:
अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् ||
३८ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितः प्रत्यपाय़ाद्रथान्तरम् |
३९ क
सञ्जय़ उवाच:
दुर्योधनो महाराज दाशार्हशरपीडितः ||
३९ ख
सञ्जय़ उवाच:
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् |
४० क
सञ्जय़ उवाच:
विसृजन्निषुजालानि युय़ुधानरथं प्रति ||
४० ख
सञ्जय़ उवाच:
तथैव सात्यकिर्वाणान्दुर्योधनरथं प्रति |
४१ क
सञ्जय़ उवाच:
प्रततं व्यसृजद्राजंस्तत्सङ्कुलमवर्तत ||
४१ ख
सञ्जय़ उवाच:
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः |
४२ क
सञ्जय़ उवाच:
अग्नेरिव महाकक्षे शव्दः समभवन्महान् ||
४२ ख
सञ्जय़ उवाच:
तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् |
४३ क
सञ्जय़ उवाच:
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनय़ं तव ||
४३ ख
सञ्जय़ उवाच:
न तु तं मर्षय़ामास भीमसेनो महावलः |
४४ क
सञ्जय़ उवाच:
अभ्ययात्त्वरितः कर्णं विसृजन्साय़कान्वहून् ||
४४ ख
सञ्जय़ उवाच:
तस्य कर्णः शितान्वाणान्प्रतिहन्य हसन्निव |
४५ क
सञ्जय़ उवाच:
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ||
४५ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धो गदामादाय़ पाण्डवः |
४६ क
सञ्जय़ उवाच:
ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः ||
४६ ख
सञ्जय़ उवाच:
अमृष्यमाणः कर्णस्तु भीमसेनमय़ुध्यत |
४७ क
सञ्जय़ उवाच:
विविधैरिषुजालैश्च नानाशस्त्रैश्च संय़ुगे ||
४७ ख
सञ्जय़ उवाच:
सङ्कुले वर्तमाने तु राजा धर्मसुतोऽव्रवीत् |
४८ क
सञ्जय़ उवाच:
पाञ्चालानां नरव्याघ्रान्मत्स्यानां च नरर्षभान् ||
४८ ख
सञ्जय़ उवाच:
ये नः प्राणाः शिरो ये नो ये नो योधा महावलाः |
४९ क
सञ्जय़ उवाच:
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ||
४९ ख
सञ्जय़ उवाच:
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः |
५० क