महेश्वर उवाच:
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रिय़म् |
५० क
महेश्वर उवाच:
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ||
५० ख
महेश्वर उवाच:
ये तु मूढा दुराचारा विय़ोनौ मैथुने रताः |
५१ क
महेश्वर उवाच:
पुरुषेषु सुदुष्प्रज्ञाः क्लीवत्वमुपय़ान्ति ते ||
५१ ख
महेश्वर उवाच:
पशूंश्च ये वन्धय़न्ति ये चैव गुरुतल्पगाः |
५२ क
महेश्वर उवाच:
प्रकीर्णमैथुना ये च क्लीवा जाय़न्ति ते नराः ||
५२ ख
उमो उवाच:
सावद्यं किं नु वै कर्म निरवद्यं तथैव च |
५३ क
उमो उवाच:
श्रेय़ः कुर्वन्नवाप्नोति मानवो देवसत्तम ||
५३ ख
महेश्वर उवाच:
श्रेय़ांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् |
५४ क
महेश्वर उवाच:
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ||
५४ ख
महेश्वर उवाच:
यदि मानुषतां देवि कदाचित्स निगच्छति |
५५ क
महेश्वर उवाच:
मेधावी धारणाय़ुक्तः प्राज्ञस्तत्राभिजाय़ते ||
५५ ख
महेश्वर उवाच:
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः |
५६ क
महेश्वर उवाच:
नृणां हितार्थाय़ तव मय़ा वै समुदाहृतः ||
५६ ख
उमो उवाच:
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः |
५७ क
उमो उवाच:
व्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ||
५७ ख
उमो उवाच:
व्रतवन्तो नराः केचिच्छ्रद्धादमपराय़णाः |
५८ क
उमो उवाच:
अव्रता भ्रष्टनिय़मास्तथान्ये राक्षसोपमाः ||
५८ ख
उमो उवाच:
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे |
५९ क
उमो उवाच:
केन कर्मविपाकेन भवन्तीह वदस्व मे ||
५९ ख
महेश्वर उवाच:
आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः |
६० क
महेश्वर उवाच:
प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ||
६० ख
महेश्वर उवाच:
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः |
६१ क
महेश्वर उवाच:
अव्रता नष्टमर्यादास्ते प्रोक्ता व्रह्मराक्षसाः ||
६१ ख
महेश्वर उवाच:
ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः |
६२ क
महेश्वर उवाच:
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ||
६२ ख
महेश्वर उवाच:
एष देवि मय़ा सर्वः संशय़च्छेदनाय़ ते |
६३ क
महेश्वर उवाच:
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ||
६३ ख