chevron_left द्रोण पर्व अध्याय १३३
सञ्जय़ उवाच:
एतय़ा निहनिष्यामि सव्यसाचिनमाहवे ||
४७ ख
सञ्जय़ उवाच:
हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः |
४८ क
सञ्जय़ उवाच:
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ||
४८ ख
सञ्जय़ उवाच:
तेषु नष्टेषु सर्वेषु पृथिवीय़ं ससागरा |
४९ क
सञ्जय़ उवाच:
अय़त्नात्कौरवेय़स्य वशे स्थास्यति गौतम ||
४९ ख
सञ्जय़ उवाच:
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशय़ः |
५० क
सञ्जय़ उवाच:
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ||
५० ख
सञ्जय़ उवाच:
त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संय़ुगे |
५१ क
सञ्जय़ उवाच:
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ||
५१ ख
सञ्जय़ उवाच:
यद्येवं वक्ष्यसे भूय़ो मामप्रिय़मिह द्विज |
५२ क
सञ्जय़ उवाच:
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ||
५२ ख
सञ्जय़ उवाच:
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संय़ुगे |
५३ क
सञ्जय़ उवाच:
भीषय़न्सर्वसैन्यानि कौरवेय़ाणि दुर्मते |
५३ ख
सञ्जय़ उवाच:
अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ||
५३ ग
सञ्जय़ उवाच:
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जय़ः |
५४ क
सञ्जय़ उवाच:
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च |
५४ ख
सञ्जय़ उवाच:
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ||
५४ ग
सञ्जय़ उवाच:
तिष्ठेय़ुर्दंशिता यत्र सर्वे युद्धविशारदाः |
५५ क
सञ्जय़ उवाच:
जय़ेदेतान्रणे को नु शक्रतुल्यवलोऽप्यरिः ||
५५ ख
सञ्जय़ उवाच:
शूराश्च हि कृतास्त्राश्च वलिनः स्वर्गलिप्सवः |
५६ क
सञ्जय़ उवाच:
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ||
५६ ख
सञ्जय़ उवाच:
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः |
५७ क
सञ्जय़ उवाच:
जय़माकाङ्क्षमाणा हि कौरवेय़स्य दंशिताः ||
५७ ख
सञ्जय़ उवाच:
दैवाय़त्तमहं मन्ये जय़ं सुवलिनामपि |
५८ क
सञ्जय़ उवाच:
यत्र भीष्मो महावाहुः शेते शरशताचितः ||
५८ ख
सञ्जय़ उवाच:
विकर्णश्चित्रसेनश्च वाह्लीकोऽथ जय़द्रथः |
५९ क
सञ्जय़ उवाच:
भूरिश्रवा जय़श्चैव जलसन्धः सुदक्षिणः ||
५९ ख
सञ्जय़ उवाच:
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् |
६० क
सञ्जय़ उवाच:
एते चान्ये च राजानो देवैरपि सुदुर्जय़ाः ||
६० ख
सञ्जय़ उवाच:
निहताः समरे शूराः पाण्डवैर्वलवत्तराः |
६१ क
सञ्जय़ उवाच:
किमन्यद्दैवसंय़ोगान्मन्यसे पुरुषाधम ||
६१ ख
सञ्जय़ उवाच:
यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज |
६२ क
सञ्जय़ उवाच:
तेषामपि हताः शूराः शतशोऽथ सहस्रशः ||
६२ ख
सञ्जय़ उवाच:
क्षीय़न्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह |
६३ क
सञ्जय़ उवाच:
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ||
६३ ख
सञ्जय़ उवाच:
यांस्तान्वलवतो नित्यं मन्यसे त्वं द्विजाधम |
६४ क
सञ्जय़ उवाच:
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संय़ुगे |
६४ ख
सञ्जय़ उवाच:
दुर्योधनहितार्थाय़ जय़ो दैवे प्रतिष्ठितः ||
६४ ग