chevron_left आदि पर्व अध्याय १३३
वैशम्पाय़न उवाच:
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः |
१ क
वैशम्पाय़न उवाच:
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ||
१ ख
वैशम्पाय़न उवाच:
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः |
२ क
वैशम्पाय़न उवाच:
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ||
२ ख
वैशम्पाय़न उवाच:
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः |
३ क
वैशम्पाय़न उवाच:
समालिङ्ग्य समानांश्च वालैश्चाप्यभिवादिताः ||
३ ख
वैशम्पाय़न उवाच:
सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् |
४ क
वैशम्पाय़न उवाच:
सर्वाः प्रकृतय़श्चैव प्रय़युर्वारणावतम् ||
४ ख
वैशम्पाय़न उवाच:
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः |
५ क
वैशम्पाय़न उवाच:
पौराश्च पुरुषव्याघ्रानन्वय़ुः शोककर्शिताः ||
५ ख
वैशम्पाय़न उवाच:
तत्र केच्चिद्व्रुवन्ति स्म व्राह्मणा निर्भय़ास्तदा |
६ क
वैशम्पाय़न उवाच:
शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ||
६ ख
वैशम्पाय़न उवाच:
विषमं पश्यते राजा सर्वथा तमसावृतः |
७ क
वैशम्पाय़न उवाच:
धृतराष्ट्रः सुदुर्वुद्धिर्न च धर्मं प्रपश्यति ||
७ ख
वैशम्पाय़न उवाच:
न हि पापमपापात्मा रोचय़िष्यति पाण्डवः |
८ क
वैशम्पाय़न उवाच:
भीमो वा वलिनां श्रेष्ठः कौन्तेय़ो वा धनञ्जय़ः |
८ ख
वैशम्पाय़न उवाच:
कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ||
८ ग
वैशम्पाय़न उवाच:
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते |
९ क
वैशम्पाय़न उवाच:
अधर्ममखिलं किं नु भीष्मोऽय़मनुमन्यते |
९ ख
वैशम्पाय़न उवाच:
विवास्यमानानस्थाने कौन्तेय़ान्भरतर्षभान् ||
९ ग
वैशम्पाय़न उवाच:
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा |
१० क
वैशम्पाय़न उवाच:
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ||
१० ख
वैशम्पाय़न उवाच:
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति |
११ क
वैशम्पाय़न उवाच:
राजपुत्रानिमान्वालान्धृतराष्ट्रो न मृष्यते ||
११ ख
वैशम्पाय़न उवाच:
वय़मेतदमृष्यन्तः सर्व एव पुरोत्तमात् |
१२ क
वैशम्पाय़न उवाच:
गृहान्विहाय़ गच्छामो यत्र याति युधिष्ठिरः ||
१२ ख
वैशम्पाय़न उवाच:
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः |
१३ क
वैशम्पाय़न उवाच:
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ||
१३ ख
वैशम्पाय़न उवाच:
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः |
१४ क
वैशम्पाय़न उवाच:
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ||
१४ ख
वैशम्पाय़न उवाच:
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् |
१५ क
वैशम्पाय़न उवाच:
आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ||
१५ ख
वैशम्पाय़न उवाच:
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते |
१६ क
वैशम्पाय़न उवाच:
तदा करिष्यथ मम प्रिय़ाणि च हितानि च ||
१६ ख
वैशम्पाय़न उवाच:
ते तथेति प्रतिज्ञाय़ कृत्वा चैतान्प्रदक्षिणम् |
१७ क
वैशम्पाय़न उवाच:
आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ||
१७ ख
वैशम्पाय़न उवाच:
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् |
१८ क
वैशम्पाय़न उवाच:
वोधय़न्पाण्डवश्रेष्ठमिदं वचनमव्रवीत् |
१८ ख
वैशम्पाय़न उवाच:
प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ||
१८ ग
वैशम्पाय़न उवाच:
विज्ञाय़ेदं तथा कुर्यादापदं निस्तरेद्यथा |
१९ क
वैशम्पाय़न उवाच:
अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् |
१९ ख
वैशम्पाय़न उवाच:
यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ||
१९ ग
वैशम्पाय़न उवाच:
कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः |
२० क
वैशम्पाय़न उवाच:
न दहेदिति चात्मानं यो रक्षति स जीवति ||
२० ख
वैशम्पाय़न उवाच:
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः |
२१ क
वैशम्पाय़न उवाच:
नाधृतिर्भूतिमाप्नोति वुध्यस्वैवं प्रवोधितः ||
२१ ख
वैशम्पाय़न उवाच:
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् |
२२ क
वैशम्पाय़न उवाच:
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ||
२२ ख
वैशम्पाय़न उवाच:
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः |
२३ क
वैशम्पाय़न उवाच:
आत्मना चात्मनः पञ्च पीडय़न्नानुपीड्यते ||
२३ ख
वैशम्पाय़न उवाच:
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् |
२४ क
वैशम्पाय़न उवाच:
पाण्डवानभ्यनुज्ञाय़ विदुरः प्रय़यौ गृहान् ||
२४ ख
वैशम्पाय़न उवाच:
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा |
२५ क
वैशम्पाय़न उवाच:
अजातशत्रुमामन्त्र्य कुन्ती वचनमव्रवीत् ||
२५ ख
वैशम्पाय़न उवाच:
क्षत्ता यदव्रवीद्वाक्यं जनमध्येऽव्रुवन्निव |
२६ क
वैशम्पाय़न उवाच:
त्वय़ा च तत्तथेत्युक्तो जानीमो न च तद्वय़म् ||
२६ ख
वैशम्पाय़न उवाच:
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् |
२७ क
वैशम्पाय़न उवाच:
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ||
२७ ख
युधिष्ठिर उवाच:
विषादग्नेश्च वोद्धव्यमिति मां विदुरोऽव्रवीत् |
२८ क
युधिष्ठिर उवाच:
पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाव्रवीत् ||
२८ ख
युधिष्ठिर उवाच:
जितेन्द्रिय़श्च वसुधां प्राप्स्यसीति च माव्रवीत् |
२९ क
युधिष्ठिर उवाच:
विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मय़ा ||
२९ ख
वैशम्पाय़न उवाच:
अष्टमेऽहनि रोहिण्यां प्रय़ाताः फल्गुनस्य ते |
३० क
वैशम्पाय़न उवाच:
वारणावतमासाद्य ददृशुर्नागरं जनम् ||
३० ख