chevron_left शान्ति पर्व अध्याय १३३
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति ||
१ ख
भीष्म उवाच:
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् |
२ क
भीष्म उवाच:
रक्षन्नक्षय़िणं धर्मं व्रह्मण्यो गुरुपूजकः ||
२ ख
भीष्म उवाच:
निषाद्यां क्षत्रिय़ाज्जातः क्षत्रधर्मानुपालकः |
३ क
भीष्म उवाच:
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ||
३ ख
भीष्म उवाच:
अरण्ये साय़पूर्वाह्णे मृगय़ूथप्रकोपिता |
४ क
भीष्म उवाच:
विधिज्ञो मृगजातीनां निपानानां च कोविदः ||
४ ख
भीष्म उवाच:
सर्वकाननदेशज्ञः पारिय़ात्रचरः सदा |
५ क
भीष्म उवाच:
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढाय़ुधः ||
५ ख
भीष्म उवाच:
अप्यनेकशताः सेना एक एव जिगाय़ सः |
६ क
भीष्म उवाच:
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजय़त् ||
६ ख
भीष्म उवाच:
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि |
७ क
भीष्म उवाच:
सत्कृत्य भोजय़ामास सम्यक्परिचचार च ||
७ ख
भीष्म उवाच:
आरण्यकान्प्रव्रजितान्व्राह्मणान्परिपालय़न् |
८ क
भीष्म उवाच:
अपि तेभ्यो मृगान्हत्वा निनाय़ च महावने ||
८ ख
भीष्म उवाच:
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कय़ा |
९ क
भीष्म उवाच:
तेषामासज्य गेहेषु काल्य एव स गच्छति ||
९ ख
भीष्म उवाच:
तं वहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे |
१० क
भीष्म उवाच:
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् ||
१० ख
दस्यव ऊचुः:
मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढाय़ुध |
११ क
दस्यव ऊचुः:
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः ||
११ ख
दस्यव ऊचुः:
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा |
१२ क
दस्यव ऊचुः:
पालय़ास्मान्यथान्याय़ं यथा माता यथा पिता ||
१२ ख
कापव्य उवाच:
मा वधीस्त्वं स्त्रिय़ं भीरुं मा शिशुं मा तपस्विनम् |
१३ क
कापव्य उवाच:
नाय़ुध्यमानो हन्तव्यो न च ग्राह्या वलात्स्त्रिय़ः ||
१३ ख
कापव्य उवाच:
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता |
१४ क
कापव्य उवाच:
नित्यं गोव्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ||
१४ ख
कापव्य उवाच:
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः |
१५ क
कापव्य उवाच:
पूज्यन्ते यत्र देवाश्च पितरोऽतिथय़स्तथा ||
१५ ख
कापव्य उवाच:
सर्वभूतेष्वपि च वै व्राह्मणो मोक्षमर्हति |
१६ क
कापव्य उवाच:
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् ||
१६ ख
कापव्य उवाच:
यस्य ह्येते सम्प्ररुष्टा मन्त्रय़न्ति पराभवम् |
१७ क
कापव्य उवाच:
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन ||
१७ ख
कापव्य उवाच:
यो व्राह्मणान्परिभवेद्विनाशं वापि रोचय़ेत् |
१८ क
कापव्य उवाच:
सूर्योदय़ इवावश्यं ध्रुवं तस्य पराभवः ||
१८ ख
कापव्य उवाच:
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः |
१९ क
कापव्य उवाच:
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभिय़ास्यति ||
१९ ख
कापव्य उवाच:
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चय़ः |
२० क
कापव्य उवाच:
ये च शिष्टान्प्रवाधन्ते धर्मस्तेषां वधः स्मृतः ||
२० ख
कापव्य उवाच:
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन |
२१ क
कापव्य उवाच:
तदेव तेऽनु मीय़न्ते कुणपं कृमय़ो यथा ||
२१ ख
कापव्य उवाच:
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः |
२२ क
कापव्य उवाच:
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुय़ुः ||
२२ ख
भीष्म उवाच:
तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् |
२३ क
भीष्म उवाच:
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ||
२३ ख
भीष्म उवाच:
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् |
२४ क
भीष्म उवाच:
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तय़न् ||
२४ ख
भीष्म उवाच:
इदं कापव्यचरितं यो नित्यमनुकीर्तय़ेत् |
२५ क
भीष्म उवाच:
नारण्येभ्यः स भूतेभ्यो भय़मार्छेत्कदाचन ||
२५ ख
भीष्म उवाच:
भय़ं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन |
२६ क
भीष्म उवाच:
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ||
२६ ख