chevron_left उद्योग पर्व अध्याय १३३
पुत्र उवाच:
कृष्णाय़सस्येव च ते संहत्य हृदय़ं कृतम् |
१ क
पुत्र उवाच:
मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ||
१ ख
पुत्र उवाच:
अहो क्षत्रसमाचारो यत्र मामपरं यथा |
२ क
पुत्र उवाच:
ईदृशं वचनं व्रूय़ाद्भवती पुत्रमेकजम् ||
२ ख
पुत्र उवाच:
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वय़ा |
३ क
पुत्र उवाच:
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ||
३ ख
मातो उवाच:
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् |
४ क
मातो उवाच:
तानेवाभिसमीक्ष्याहं सञ्जय़ त्वामचूचुदम् ||
४ ख
मातो उवाच:
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽय़मागतः |
५ क
मातो उवाच:
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे |
५ ख
मातो उवाच:
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ||
५ ग
मातो उवाच:
तं त्वामय़शसा स्पृष्टं न व्रूय़ां यदि सञ्जय़ |
६ क
मातो उवाच:
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ||
६ ख
मातो उवाच:
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् |
७ क
मातो उवाच:
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ||
७ ख
मातो उवाच:
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रिय़ो भवेः |
८ क
मातो उवाच:
धर्मार्थगुणय़ुक्तेन नेतरेण कथञ्चन |
८ ख
मातो उवाच:
दैवमानुषय़ुक्तेन सद्भिराचरितेन च ||
८ ग
मातो उवाच:
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा |
९ क
मातो उवाच:
अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ||
९ ख
मातो उवाच:
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च |
१० क
मातो उवाच:
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ||
१० ख
मातो उवाच:
युद्धाय़ क्षत्रिय़ः सृष्टः सञ्जय़ेह जय़ाय़ च |
११ क
मातो उवाच:
क्रूराय़ कर्मणे नित्यं प्रजानां परिपालने |
११ ख
मातो उवाच:
जय़न्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ||
११ ग
मातो उवाच:
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् |
१२ क
मातो उवाच:
यदमित्रान्वशे कृत्वा क्षत्रिय़ः सुखमश्नुते ||
१२ ख
मातो उवाच:
मन्युना दह्यमानेन पुरुषेण मनस्विना |
१३ क
मातो उवाच:
निकृतेनेह वहुशः शत्रून्प्रतिजिगीषय़ा ||
१३ ख
मातो उवाच:
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै |
१४ क
मातो उवाच:
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ||
१४ ख
मातो उवाच:
इह प्राज्ञो हि पुरुषः स्वल्पमप्रिय़मिच्छति |
१५ क
मातो उवाच:
यस्य स्वल्पं प्रिय़ं लोके ध्रुवं तस्याल्पमप्रिय़म् ||
१५ ख
मातो उवाच:
प्रिय़ाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् |
१६ क
मातो उवाच:
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ||
१६ ख
पुत्र उवाच:
नेय़ं मतिस्त्वय़ा वाच्या मातः पुत्रे विशेषतः |
१७ क
पुत्र उवाच:
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ||
१७ ख
मातो उवाच:
अतो मे भूय़सी नन्दिर्यदेवमनुपश्यसि |
१८ क
मातो उवाच:
चोद्यं मां चोदय़स्येतद्भृशं वै चोदय़ामि ते ||
१८ ख
मातो उवाच:
अथ त्वां पूजय़िष्यामि हत्वा वै सर्वसैन्धवान् |
१९ क
मातो उवाच:
अहं पश्यामि विजय़ं कृत्स्नं भाविनमेव ते ||
१९ ख
पुत्र उवाच:
अकोशस्यासहाय़स्य कुतः स्विद्विजय़ो मम |
२० क
पुत्र उवाच:
इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् |
२० ख
पुत्र उवाच:
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ||
२० ग
पुत्र उवाच:
ईदृशं भवती कञ्चिदुपाय़मनुपश्यति |
२१ क
पुत्र उवाच:
तन्मे परिणतप्रज्ञे सम्यक्प्रव्रूहि पृच्छते |
२१ ख
पुत्र उवाच:
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||
२१ ग
मातो उवाच:
पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः |
२२ क
मातो उवाच:
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ||
२२ ख
मातो उवाच:
अमर्षेणैव चाप्यर्था नारव्धव्याः सुवालिशैः |
२३ क
मातो उवाच:
सर्वेषां कर्मणां तात फले नित्यमनित्यता ||
२३ ख
मातो उवाच:
अनित्यमिति जानन्तो न भवन्ति भवन्ति च |
२४ क
मातो उवाच:
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ||
२४ ख
मातो उवाच:
ऐकगुण्यमनीहाय़ामभावः कर्मणां फलम् |
२५ क
मातो उवाच:
अथ द्वैगुण्यमीहाय़ां फलं भवति वा न वा ||
२५ ख
मातो उवाच:
यस्य प्रागेव विदिता सर्वार्थानामनित्यता |
२६ क
मातो उवाच:
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ||
२६ ख
मातो उवाच:
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु |
२७ क
मातो उवाच:
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः |
२७ ख
मातो उवाच:
मङ्गलानि पुरस्कृत्य व्राह्मणैश्चेश्वरैः सह ||
२७ ग
मातो उवाच:
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक |
२८ क
मातो उवाच:
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ||
२८ ख
मातो उवाच:
निदर्शनान्युपाय़ांश्च वहून्युद्धर्षणानि च |
२९ क
मातो उवाच:
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् |
२९ ख
मातो उवाच:
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ||
२९ ग
मातो उवाच:
क्रुद्धाँल्लुव्धान्परिक्षीणानवक्षिप्तान्विमानितान् |
३० क
मातो उवाच:
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय़ ||
३० ख
मातो उवाच:
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् |
३१ क
मातो उवाच:
महावेग इवोद्धूतो मातरिश्वा वलाहकान् ||
३१ ख
मातो उवाच:
तेषामग्रप्रदाय़ी स्याः कल्योत्थाय़ी प्रिय़ंवदः |
३२ क
मातो उवाच:
ते त्वां प्रिय़ं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ||
३२ ख
मातो उवाच:
यदैव शत्रुर्जानीय़ात्सपत्नं त्यक्तजीवितम् |
३३ क
मातो उवाच:
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ||
३३ ख
मातो उवाच:
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि |
३४ क
मातो उवाच:
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ||
३४ ख
मातो उवाच:
निर्वादादास्पदं लव्ध्वा धनवृद्धिर्भविष्यति |
३५ क
मातो उवाच:
धनवन्तं हि मित्राणि भजन्ते चाश्रय़न्ति च ||
३५ ख
मातो उवाच:
स्खलितार्थं पुनस्तात सन्त्यजन्त्यपि वान्धवाः |
३६ क
मातो उवाच:
अप्यस्मिन्नाश्रय़न्ते च जुगुप्सन्ति च तादृशम् ||
३६ ख
मातो उवाच:
शत्रुं कृत्वा यः सहाय़ं विश्वासमुपगच्छति |
३७ क
मातो उवाच:
अतः सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुय़ादिति ||
३७ ख