chevron_left द्रोण पर्व अध्याय १३३
सञ्जय़ उवाच:
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्वलम् |
१ क
सञ्जय़ उवाच:
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽव्रवीत् ||
१ ख
सञ्जय़ उवाच:
अय़ं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल |
२ क
सञ्जय़ उवाच:
त्राय़स्व समरे कर्ण सर्वान्योधान्महावल ||
२ ख
सञ्जय़ उवाच:
पाञ्चालैर्मत्स्यकैकेय़ैः पाण्डवैश्च महारथैः |
३ क
सञ्जय़ उवाच:
वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ||
३ ख
सञ्जय़ उवाच:
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः |
४ क
सञ्जय़ उवाच:
शक्रोपमाश्च वहवः पाञ्चालानां रथव्रजाः ||
४ ख
कर्ण उवाच:
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः |
५ क
कर्ण उवाच:
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ||
५ ख
कर्ण उवाच:
सत्यं ते प्रतिजानामि समाश्वसिहि भारत |
६ क
कर्ण उवाच:
हन्तास्मि पाण्डुतनय़ान्पाञ्चालांश्च समागतान् ||
६ ख
कर्ण उवाच:
जय़ं ते प्रतिजानामि वासवस्येव पावकिः |
७ क
कर्ण उवाच:
प्रिय़ं तव मय़ा कार्यमिति जीवामि पार्थिव ||
७ ख
कर्ण उवाच:
सर्वेषामेव पार्थानां फल्गुनो वलवत्तरः |
८ क
कर्ण उवाच:
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ||
८ ख
कर्ण उवाच:
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद |
९ क
कर्ण उवाच:
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ||
९ ख
कर्ण उवाच:
मय़ि जीवति कौरव्य विषादं मा कृथाः क्वचित् |
१० क
कर्ण उवाच:
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ||
१० ख
कर्ण उवाच:
पाञ्चालान्केकय़ांश्चैव वृष्णींश्चापि समागतान् |
११ क
कर्ण उवाच:
वाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ||
११ ख
सञ्जय़ उवाच:
एवं व्रुवाणं कर्णं तु कृपः शारद्वतोऽव्रवीत् |
१२ क
सञ्जय़ उवाच:
स्मय़न्निव महावाहुः सूतपुत्रमिदं वचः ||
१२ ख
सञ्जय़ उवाच:
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः |
१३ क
सञ्जय़ उवाच:
त्वय़ा नाथेन राधेय़ वचसा यदि सिध्यति ||
१३ ख
सञ्जय़ उवाच:
वहुशः कत्थसे कर्ण कौरव्यस्य समीपतः |
१४ क
सञ्जय़ उवाच:
न तु ते विक्रमः कश्चिद्दृश्यते वलमेव वा ||
१४ ख
सञ्जय़ उवाच:
समागमः पाण्डुसुतैर्दृष्टस्ते वहुशो युधि |
१५ क
सञ्जय़ उवाच:
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ||
१५ ख
सञ्जय़ उवाच:
ह्रिय़माणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे |
१६ क
सञ्जय़ उवाच:
तदाय़ुध्यन्त सैन्यानि त्वमेकस्तु पलाय़थाः ||
१६ ख
सञ्जय़ उवाच:
विराटनगरे चापि समेताः सर्वकौरवाः |
१७ क
सञ्जय़ उवाच:
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ||
१७ ख
सञ्जय़ उवाच:
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे |
१८ क
सञ्जय़ उवाच:
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ||
१८ ख
सञ्जय़ उवाच:
अव्रुवन्कर्ण युध्यस्व वहु कत्थसि सूतज |
१९ क
सञ्जय़ उवाच:
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ||
१९ ख
सञ्जय़ उवाच:
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् |
२० क
सञ्जय़ उवाच:
निष्फलो दृश्यसे कर्ण तच्च राजा न वुध्यते ||
२० ख
सञ्जय़ उवाच:
तावद्गर्जसि राधेय़ यावत्पार्थं न पश्यसि |
२१ क
सञ्जय़ उवाच:
पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ||
२१ ख
सञ्जय़ उवाच:
त्वमनासाद्य तान्वाणान्फल्गुनस्य विगर्जसि |
२२ क
सञ्जय़ उवाच:
पार्थसाय़कविद्धस्य दुर्लभं गर्जितं भवेत् ||
२२ ख
सञ्जय़ उवाच:
वाहुभिः क्षत्रिय़ाः शूरा वाग्भिः शूरा द्विजातय़ः |
२३ क
सञ्जय़ उवाच:
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ||
२३ ख
सञ्जय़ उवाच:
एवं परुषितस्तेन तदा शारद्वतेन सः |
२४ क
सञ्जय़ उवाच:
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाव्रवीत् ||
२४ ख
सञ्जय़ उवाच:
शूरा गर्जन्ति सततं प्रावृषीव वलाहकाः |
२५ क
सञ्जय़ उवाच:
फलं चाशु प्रय़च्छन्ति वीजमुप्तमृताविव ||
२५ ख
सञ्जय़ उवाच:
दोषमत्र न पश्यामि शूराणां रणमूर्धनि |
२६ क
सञ्जय़ उवाच:
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ||
२६ ख
सञ्जय़ उवाच:
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति |
२७ क
सञ्जय़ उवाच:
दैवमस्य ध्रुवं तत्र साहाय़्याय़ोपपद्यते ||
२७ ख
सञ्जय़ उवाच:
व्यवसाय़द्वितीय़ोऽहं मनसा भारमुद्वहन् |
२८ क
सञ्जय़ उवाच:
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ||
२८ ख
सञ्जय़ उवाच:
वृथा शूरा न गर्जन्ति सजला इव तोय़दाः |
२९ क
सञ्जय़ उवाच:
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ||
२९ ख
सञ्जय़ उवाच:
सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ |
३० क
सञ्जय़ उवाच:
उत्सहे तरसा जेतुं ततो गर्जामि गौतम ||
३० ख
सञ्जय़ उवाच:
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः |
३१ क
सञ्जय़ उवाच:
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् |
३१ ख
सञ्जय़ उवाच:
दुर्योधनाय़ दास्यामि पृथिवीं हतकण्टकाम् ||
३१ ग
कृप उवाच:
मनोरथप्रलापो मे न ग्राह्यस्तव सूतज |
३२ क
कृप उवाच:
यदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् ||
३२ ख
कृप उवाच:
ध्रुवस्तत्र जय़ः कर्ण यत्र युद्धविशारदौ |
३३ क
कृप उवाच:
देवगन्धर्वय़क्षाणां मनुष्योरगरक्षसाम् |
३३ ख
कृप उवाच:
दंशितानामपि रणे अजेय़ौ कृष्णपाण्डवौ ||
३३ ग
कृप उवाच:
व्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः |
३४ क
कृप उवाच:
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः |
३४ ख
कृप उवाच:
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ||
३४ ग
कृप उवाच:
भ्रातरश्चास्य वलिनः सर्वास्त्रेषु कृतश्रमाः |
३५ क
कृप उवाच:
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ||
३५ ख
कृप उवाच:
सम्वन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः |
३६ क
कृप उवाच:
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजय़ः ||
३६ ख
कृप उवाच:
चन्द्रसेनो भद्रसेनः कीर्तिधर्मा ध्रुवो धरः |
३७ क
कृप उवाच:
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुवेधनः ||
३७ ख
कृप उवाच:
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् |
३८ क
कृप उवाच:
येषामर्थाय़ संय़त्तो मत्स्यराजः सहानुगः ||
३८ ख
कृप उवाच:
शतानीकः सुदशनः श्रुतानीकः श्रुतध्वजः |
३९ क
कृप उवाच:
वलानीको जय़ानीको जय़ाश्वो रथवाहनः ||
३९ ख
कृप उवाच:
चन्द्रोदय़ः कामरथो विराटभ्रातरः शुभाः |
४० क
कृप उवाच:
यमौ च द्रौपदेय़ाश्च राक्षसश्च घटोत्कचः |
४० ख
कृप उवाच:
येषामर्थाय़ युध्यन्ते न तेषां विद्यते क्षय़ः ||
४० ग
कृप उवाच:
कामं खलु जगत्सर्वं सदेवासुरमानवम् |
४१ क
कृप उवाच:
सय़क्षराक्षसगणं सभूतभुजगद्विपम् |
४१ ख
कृप उवाच:
निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ||
४१ ग
कृप उवाच:
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा |
४२ क
कृप उवाच:
अप्रमेय़वलः शौरिर्येषामर्थे च दंशितः |
४२ ख
कृप उवाच:
कथं तान्संय़ुगे कर्ण जेतुमुत्सहसे परान् ||
४२ ग
कृप उवाच:
महानपनय़स्त्वेष तव नित्यं हि सूतज |
४३ क
कृप उवाच:
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ||
४३ ख
सञ्जय़ उवाच:
एवमुक्तस्तु राधेय़ः प्रहसन्भरतर्षभ |
४४ क
सञ्जय़ उवाच:
अव्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ||
४४ ख
सञ्जय़ उवाच:
सत्यमुक्तं त्वय़ा व्रह्मन्पाण्डवान्प्रति यद्वचः |
४५ क
सञ्जय़ उवाच:
एते चान्ये च वहवो गुणाः पाण्डुसुतेषु वै ||
४५ ख
सञ्जय़ उवाच:
अजय़्याश्च रणे पार्था देवैरपि सवासवैः |
४६ क
सञ्जय़ उवाच:
सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः |
४६ ख
सञ्जय़ उवाच:
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तय़ा ||
४६ ग
सञ्जय़ उवाच:
ममाप्यमोघा दत्तेय़ं शक्तिः शक्रेण वै द्विज |
४७ क