वैशम्पाय़न उवाच:
ततः सर्वाः प्रकृतय़ो नगराद्वारणावतात् |
१ क
वैशम्पाय़न उवाच:
सर्वमङ्गलसंय़ुक्ता यथाशास्त्रमतन्द्रिताः ||
१ ख
वैशम्पाय़न उवाच:
श्रुत्वागतान्पाण्डुपुत्रान्नानाय़ानैः सहस्रशः |
२ क
वैशम्पाय़न उवाच:
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परय़ा मुदा ||
२ ख
वैशम्पाय़न उवाच:
ते समासाद्य कौन्तेय़ान्वारणावतका जनाः |
३ क
वैशम्पाय़न उवाच:
कृत्वा जय़ाशिषः सर्वे परिवार्योपतस्थिरे ||
३ ख
वैशम्पाय़न उवाच:
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः |
४ क
वैशम्पाय़न उवाच:
विवभौ देवसङ्काशो वज्रपाणिरिवामरैः ||
४ ख
वैशम्पाय़न उवाच:
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः |
५ क
वैशम्पाय़न उवाच:
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ||
५ ख
वैशम्पाय़न उवाच:
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् |
६ क
वैशम्पाय़न उवाच:
व्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ||
६ ख
वैशम्पाय़न उवाच:
नगराधिकृतानां च गृहाणि रथिनां तथा |
७ क
वैशम्पाय़न उवाच:
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ||
७ ख
वैशम्पाय़न उवाच:
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः |
८ क
वैशम्पाय़न उवाच:
जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ||
८ ख
वैशम्पाय़न उवाच:
तेभ्यो भक्ष्यान्नपानानि शय़नानि शुभानि च |
९ क
वैशम्पाय़न उवाच:
आसनानि च मुख्यानि प्रददौ स पुरोचनः ||
९ ख
वैशम्पाय़न उवाच:
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः |
१० क
वैशम्पाय़न उवाच:
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ||
१० ख
वैशम्पाय़न उवाच:
दशरात्रोषितानां तु तत्र तेषां पुरोचनः |
११ क
वैशम्पाय़न उवाच:
निवेदय़ामास गृहं शिवाख्यमशिवं तदा ||
११ ख
वैशम्पाय़न उवाच:
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः |
१२ क
वैशम्पाय़न उवाच:
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ||
१२ ख
वैशम्पाय़न उवाच:
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः |
१३ क
वैशम्पाय़न उवाच:
उवाचाग्नेय़मित्येवं भीमसेनं युधिष्ठिरः |
१३ ख
वैशम्पाय़न उवाच:
जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ||
१३ ग
वैशम्पाय़न उवाच:
कृतं हि व्यक्तमाग्नेय़मिदं वेश्म परन्तप |
१४ क
वैशम्पाय़न उवाच:
शणसर्जरसं व्यक्तमानीतं गृहकर्मणि |
१४ ख
वैशम्पाय़न उवाच:
मुञ्जवल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ||
१४ ग
वैशम्पाय़न उवाच:
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि |
१५ क
वैशम्पाय़न उवाच:
विश्वस्तं मामय़ं पापो दग्धुकामः पुरोचनः ||
१५ ख
वैशम्पाय़न उवाच:
इमां तु तां महावुद्धिर्विदुरो दृष्टवांस्तदा |
१६ क
वैशम्पाय़न उवाच:
आपदं तेन मां पार्थ स सम्वोधितवान्पुरा ||
१६ ख
वैशम्पाय़न उवाच:
ते वय़ं वोधितास्तेन वुद्धवन्तोऽशिवं गृहम् |
१७ क
वैशम्पाय़न उवाच:
आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ||
१७ ख
भीम उवाच:
यदिदं गृहमाग्नेय़ं विहितं मन्यते भवान् |
१८ क
भीम उवाच:
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वय़म् ||
१८ ख
युधिष्ठिर उवाच:
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचय़े |
१९ क
युधिष्ठिर उवाच:
नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ||
१९ ख
युधिष्ठिर उवाच:
यदि विन्देत चाकारमस्माकं हि पुरोचनः |
२० क
युधिष्ठिर उवाच:
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ||
२० ख
युधिष्ठिर उवाच:
नाय़ं विभेत्युपक्रोशादधर्माद्वा पुरोचनः |
२१ क
युधिष्ठिर उवाच:
तथा हि वर्तते मन्दः सुय़ोधनमते स्थितः ||
२१ ख
युधिष्ठिर उवाच:
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः |
२२ क
युधिष्ठिर उवाच:
कोपं कुर्यात्किमर्थं वा कौरवान्कोपय़ेत सः |
२२ ख
युधिष्ठिर उवाच:
धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ||
२२ ग
युधिष्ठिर उवाच:
वय़ं तु यदि दाहस्य विभ्यतः प्रद्रवेम हि |
२३ क
युधिष्ठिर उवाच:
स्पशैर्नो घातय़ेत्सार्वान्राज्यलुव्धः सुय़ोधनः ||
२३ ख
युधिष्ठिर उवाच:
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः |
२४ क
युधिष्ठिर उवाच:
हीनकोशान्महाकोशः प्रय़ोगैर्घातय़ेद्ध्रुवम् ||
२४ ख
युधिष्ठिर उवाच:
तदस्माभिरिमं पापं तं च पापं सुय़ोधनम् |
२५ क
युधिष्ठिर उवाच:
वञ्चय़द्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ||
२५ ख
युधिष्ठिर उवाच:
ते वय़ं मृगय़ाशीलाश्चराम वसुधामिमाम् |
२६ क
युधिष्ठिर उवाच:
तथा नो विदिता मार्गा भविष्यन्ति पलाय़ताम् ||
२६ ख
युधिष्ठिर उवाच:
भौमं च विलमद्यैव करवाम सुसंवृतम् |
२७ क
युधिष्ठिर उवाच:
गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ||
२७ ख
युधिष्ठिर उवाच:
वसतोऽत्र यथा चास्मान्न वुध्येत पुरोचनः |
२८ क
युधिष्ठिर उवाच:
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ||
२८ ख