chevron_left शान्ति पर्व अध्याय १३४
भीष्म उवाच:
अत्र गाथा व्रह्मगीताः कीर्तय़न्ति पुराविदः |
१ क
भीष्म उवाच:
येन मार्गेण राजानः कोशं सञ्जनय़न्ति च ||
१ ख
भीष्म उवाच:
न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् |
२ क
भीष्म उवाच:
दस्यूनां निष्क्रिय़ाणां च क्षत्रिय़ो हर्तुमर्हति ||
२ ख
भीष्म उवाच:
इमाः प्रजाः क्षत्रिय़ाणां रक्ष्याश्चाद्याश्च भारत |
३ क
भीष्म उवाच:
धनं हि क्षत्रिय़स्येह द्वितीय़स्य न विद्यते ||
३ ख
भीष्म उवाच:
तदस्य स्याद्वलार्थं वा धनं यज्ञार्थमेव वा |
४ क
भीष्म उवाच:
अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत ||
४ ख
भीष्म उवाच:
यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति |
५ क
भीष्म उवाच:
आनन्तिकां तां धनितामाहुर्वेदविदो जनाः ||
५ ख
भीष्म उवाच:
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः |
६ क
भीष्म उवाच:
न हि तत्प्रीणय़ेल्लोकान्न कोशं तद्विधं नृपः ||
६ ख
भीष्म उवाच:
असाधुभ्यो निरादाय़ साधुभ्यो यः प्रय़च्छति |
७ क
भीष्म उवाच:
आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः ||
७ ख
भीष्म उवाच:
औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा |
८ क
भीष्म उवाच:
अनिष्टतः सम्भवन्ति तथाय़ज्ञः प्रताय़ते ||
८ ख
भीष्म उवाच:
यथैव दंशमशकं यथा चाण्डपिपीलिकम् |
९ क
भीष्म उवाच:
सैव वृत्तिरय़ज्ञेषु तथा धर्मो विधीय़ते ||
९ ख
भीष्म उवाच:
यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् |
१० क
भीष्म उवाच:
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च ||
१० ख