व्याध उवाच:
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम |
१ क
व्याध उवाच:
अभिप्रसादय़मृषिं गिरा वाक्यविशारदम् ||
१ ख
व्याध उवाच:
अजानता मय़ाकार्यमिदमद्य कृतं मुने |
२ क
व्याध उवाच:
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ||
२ ख
ऋषिरु उवाच:
नान्यथा भविता शाप एवमेतदसंशय़म् |
३ क
ऋषिरु उवाच:
आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते ||
३ ख
ऋषिरु उवाच:
शूद्रय़ोनौ वर्तमानो धर्मज्ञो भविता ह्यसि |
४ क
ऋषिरु उवाच:
मातापित्रोश्च शुश्रूषां करिष्यसि न संशय़ः ||
४ ख
ऋषिरु उवाच:
तय़ा शुश्रूषय़ा सिद्धिं महतीं समवाप्स्यसि |
५ क
ऋषिरु उवाच:
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि |
५ ख
ऋषिरु उवाच:
शापक्षय़ान्ते निर्वृत्ते भवितासि पुनर्द्विजः ||
५ ग
व्याध उवाच:
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा |
६ क
व्याध उवाच:
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ||
६ ख
व्याध उवाच:
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम |
७ क
व्याध उवाच:
आश्रमं च मय़ा नीतो न च प्राणैर्व्ययुज्यत ||
७ ख
व्याध उवाच:
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् |
८ क
व्याध उवाच:
अभितश्चापि गन्तव्यं मय़ा स्वर्गं द्विजोत्तम ||
८ ख
व्राह्मण उवाच:
एवमेतानि पुरुषा दुःखानि च सुखानि च |
९ क
व्राह्मण उवाच:
प्राप्नुवन्ति महावुद्धे नोत्कण्ठां कर्तुमर्हसि |
९ ख
व्राह्मण उवाच:
दुष्करं हि कृतं तात जानता जातिमात्मनः ||
९ ग
व्राह्मण उवाच:
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै |
१० क
व्राह्मण उवाच:
कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः |
१० ख
व्राह्मण उवाच:
साम्प्रतं च मतो मेऽसि व्राह्मणो नात्र संशय़ः ||
१० ग
व्राह्मण उवाच:
व्राह्मणः पतनीय़ेषु वर्तमानो विकर्मसु |
११ क
व्राह्मण उवाच:
दाम्भिको दुष्कृतप्राय़ः शूद्रेण सदृशो भवेत् ||
११ ख
व्राह्मण उवाच:
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः |
१२ क
व्राह्मण उवाच:
तं व्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ||
१२ ख
व्राह्मण उवाच:
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् |
१३ क
व्राह्मण उवाच:
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ||
१३ ख
व्राह्मण उवाच:
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः |
१४ क
व्राह्मण उवाच:
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपराय़णाः ||
१४ ख
व्याध उवाच:
प्रज्ञय़ा मानसं दुःखं हन्याच्छारीरमौषधैः |
१५ क
व्याध उवाच:
एतद्विज्ञानसामर्थ्यं न वालैः समतां व्रजेत् ||
१५ ख
व्याध उवाच:
अनिष्टसम्प्रय़ोगाच्च विप्रय़ोगात्प्रिय़स्य च |
१६ क
व्याध उवाच:
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पवुद्धय़ः ||
१६ ख
व्याध उवाच:
गुणैर्भूतानि युज्यन्ते विय़ुज्यन्ते तथैव च |
१७ क
व्याध उवाच:
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ||
१७ ख
व्याध उवाच:
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते |
१८ क
व्याध उवाच:
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् |
१८ ख
व्याध उवाच:
शोचतो न भवेत्किञ्चित्केवलं परितप्यते ||
१८ ग
व्याध उवाच:
परित्यजन्ति ये दुःखं सुखं वाप्युभय़ं नराः |
१९ क
व्याध उवाच:
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ||
१९ ख
व्याध उवाच:
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः |
२० क
व्याध उवाच:
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् |
२० ख
व्याध उवाच:
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ||
२० ग
व्याध उवाच:
न विषादे मनः कार्यं विषादो विषमुत्तमम् |
२१ क
व्याध उवाच:
मारय़त्यकृतप्रज्ञं वालं क्रुद्ध इवोरगः ||
२१ ख
व्याध उवाच:
यं विषादोऽभिभवति विषमे समुपस्थिते |
२२ क
व्याध उवाच:
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ||
२२ ख
व्याध उवाच:
अवश्यं क्रिय़माणस्य कर्मणो दृश्यते फलम् |
२३ क
व्याध उवाच:
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ||
२३ ख
व्याध उवाच:
अथाप्युपाय़ं पश्येत दुःखस्य परिमोक्षणे |
२४ क
व्याध उवाच:
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ||
२४ ख
व्याध उवाच:
भूतेष्वभावं सञ्चिन्त्य ये तु वुद्धेः परं गताः |
२५ क
व्याध उवाच:
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ||
२५ ख
व्याध उवाच:
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् |
२६ क
व्याध उवाच:
एतैर्निदर्शनैर्व्रह्मन्नावसीदामि सत्तम ||
२६ ख
व्राह्मण उवाच:
कृतप्रज्ञोऽसि मेधावी वुद्धिश्च विपुला तव |
२७ क
व्राह्मण उवाच:
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ||
२७ ख
व्राह्मण उवाच:
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु |
२८ क
व्राह्मण उवाच:
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ||
२८ ख
मार्कण्डेय़ उवाच:
वाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह |
२९ क
मार्कण्डेय़ उवाच:
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ||
२९ ख
मार्कण्डेय़ उवाच:
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा |
३० क
मार्कण्डेय़ उवाच:
मातापितृभ्यां वृद्धाभ्यां यथान्याय़ं सुसंशितः ||
३० ख
मार्कण्डेय़ उवाच:
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर |
३१ क
मार्कण्डेय़ उवाच:
पृष्टवानसि यं तात धर्मं धर्मभृतां वर ||
३१ ख
मार्कण्डेय़ उवाच:
पतिव्रताय़ा माहात्म्यं व्राह्मणस्य च सत्तम |
३२ क
मार्कण्डेय़ उवाच:
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ||
३२ ख
युधिष्ठिर उवाच:
अत्यद्भुतमिदं व्रह्मन्धर्माख्यानमनुत्तमम् |
३३ क
युधिष्ठिर उवाच:
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ||
३३ ख
युधिष्ठिर उवाच:
सुखश्रव्यतय़ा विद्वन्मुहूर्तमिव मे गतम् |
३४ क
युधिष्ठिर उवाच:
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ||
३४ ख