मातो उवाच:
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि |
१ क
मातो उवाच:
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ||
१ ख
मातो उवाच:
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते |
२ क
मातो उवाच:
राष्ट्रं वलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ||
२ ख
मातो उवाच:
शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः |
३ क
मातो उवाच:
अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ||
३ ख
मातो उवाच:
य एवात्यन्तसुहृदस्त एनं पर्युपासते |
४ क
मातो उवाच:
अशक्तय़ः स्वस्तिकामा वद्धवत्सा इडा इव |
४ ख
मातो उवाच:
शोचन्तमनुशोचन्ति प्रतीतानिव वान्धवान् ||
४ ग
मातो उवाच:
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः |
५ क
मातो उवाच:
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीय़ुषः |
५ ख
मातो उवाच:
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ||
५ ग
मातो उवाच:
प्रभावं पौरुषं वुद्धिं जिज्ञासन्त्या मय़ा तव |
६ क
मातो उवाच:
उल्लपन्त्या समाश्वासं वलवानिव दुर्वलम् ||
६ ख
मातो उवाच:
यद्येतत्संविजानासि यदि सम्यग्व्रवीम्यहम् |
७ क
मातो उवाच:
कृत्वासौम्यमिवात्मानं जय़ाय़ोत्तिष्ठ सञ्जय़ ||
७ ख
मातो उवाच:
अस्ति नः कोशनिचय़ो महानविदितस्तव |
८ क
मातो उवाच:
तमहं वेद नान्यस्तमुपसम्पादय़ामि ते ||
८ ख
मातो उवाच:
सन्ति नैकशता भूय़ः सुहृदस्तव सञ्जय़ |
९ क
मातो उवाच:
सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ||
९ ख
मातो उवाच:
तादृशा हि सहाय़ा वै पुरुषस्य वुभूषतः |
१० क
मातो उवाच:
ईषदुज्जिहतः किञ्चित्सचिवाः शत्रुकर्शनाः ||
१० ख
पुत्र उवाच:
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः |
११ क
पुत्र उवाच:
तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ||
११ ख
पुत्र उवाच:
उदके धूरिय़ं धार्या सर्तव्यं प्रवणे मय़ा |
१२ क
पुत्र उवाच:
यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ||
१२ ख
पुत्र उवाच:
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् |
१३ क
पुत्र उवाच:
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ||
१३ ख
पुत्र उवाच:
अतृप्यन्नमृतस्येव कृच्छ्राल्लव्धस्य वान्धवात् |
१४ क
पुत्र उवाच:
उद्यच्छाम्येष शत्रूणां निय़माय़ जय़ाय़ च ||
१४ ख
कुन्त्यु उवाच:
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसाय़कैः |
१५ क
कुन्त्यु उवाच:
तच्चकार तथा सर्वं यथावदनुशासनम् ||
१५ ख
कुन्त्यु उवाच:
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् |
१६ क
कुन्त्यु उवाच:
राजानं श्रावय़ेन्मन्त्री सीदन्तं शत्रुपीडितम् ||
१६ ख
कुन्त्यु उवाच:
जय़ो नामेतिहासोऽय़ं श्रोतव्यो विजिगीषुणा |
१७ क
कुन्त्यु उवाच:
महीं विजय़ते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ||
१७ ख
कुन्त्यु उवाच:
इदं पुंसवनं चैव वीराजननमेव च |
१८ क
कुन्त्यु उवाच:
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजाय़ते ||
१८ ख
कुन्त्यु उवाच:
विद्याशूरं तपःशूरं दमशूरं तपस्विनम् |
१९ क
कुन्त्यु उवाच:
व्राह्म्या श्रिय़ा दीप्यमानं साधुवादेन संमतम् ||
१९ ख
कुन्त्यु उवाच:
अर्चिष्मन्तं वलोपेतं महाभागं महारथम् |
२० क
कुन्त्यु उवाच:
धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ||
२० ख
कुन्त्यु उवाच:
निय़न्तारमसाधूनां गोप्तारं धर्मचारिणाम् |
२१ क
कुन्त्यु उवाच:
तदर्थं क्षत्रिय़ा सूते वीरं सत्यपराक्रमम् ||
२१ ख