chevron_left द्रोण पर्व अध्याय १३४
सञ्जय़ उवाच:
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् |
१ क
सञ्जय़ उवाच:
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ||
१ ख
अश्वत्थामो उवाच:
कर्ण पश्य सुदुर्वुद्धे तिष्ठेदानीं नराधम |
२ क
अश्वत्थामो उवाच:
एष तेऽद्य शिरः काय़ादुद्धरामि सुदुर्मते ||
२ ख
सञ्जय़ उवाच:
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वय़म् |
३ क
सञ्जय़ उवाच:
न्यवारय़न्महाराज कृपश्च द्विपदां वरः ||
३ ख
कर्ण उवाच:
शूरोऽय़ं समरश्लाघी दुर्मतिश्च द्विजाधमः |
४ क
कर्ण उवाच:
आसादय़तु मद्वीर्यं मुञ्चेमं कुरुसत्तम ||
४ ख
अश्वत्थामो उवाच:
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते |
५ क
अश्वत्थामो उवाच:
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशय़िष्यति ||
५ ख
दुर्योधन उवाच:
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद |
६ क
दुर्योधन उवाच:
कोपः खलु न कर्तव्यः सूतपुत्रे कथञ्चन ||
६ ख
दुर्योधन उवाच:
त्वय़ि कर्णे कृपे द्रोणे मद्रराजेऽथ सौवले |
७ क
दुर्योधन उवाच:
महत्कार्यं समाय़त्तं प्रसीद द्विजसत्तम ||
७ ख
दुर्योधन उवाच:
एते ह्यभिमुखाः सर्वे राधेय़ेन युय़ुत्सवः |
८ क
दुर्योधन उवाच:
आय़ान्ति पाण्डवा व्रह्मन्नाह्वय़न्तः समन्ततः ||
८ ख
सञ्जय़ उवाच:
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् |
९ क
सञ्जय़ उवाच:
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव |
९ ख
सञ्जय़ उवाच:
पर्यतिष्ठत तेजस्वी स्ववाहुवलमाश्रितः ||
९ ग
सञ्जय़ उवाच:
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः |
१० क
सञ्जय़ उवाच:
संरव्धस्य महाराज सिंहनादविनादितम् ||
१० ख
सञ्जय़ उवाच:
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः |
११ क
सञ्जय़ उवाच:
दृष्ट्वा कर्णं महावाहुमुच्चैः शव्दमथानदन् ||
११ ख
सञ्जय़ उवाच:
अय़ं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे |
१२ क
सञ्जय़ उवाच:
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ||
१२ ख
सञ्जय़ उवाच:
अन्ये तु दृष्ट्वा राधेय़ं क्रोधरक्तेक्षणाव्रुवन् |
१३ क
सञ्जय़ उवाच:
हन्यतामय़मुत्सिक्तः सूतपुत्रोऽल्पचेतनः ||
१३ ख
सञ्जय़ उवाच:
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता |
१४ क
सञ्जय़ उवाच:
अत्यन्तवैरी पार्थानां सततं पापपूरुषः ||
१४ ख
सञ्जय़ उवाच:
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः |
१५ क
सञ्जय़ उवाच:
हतैनमिति जल्पन्तः क्षत्रिय़ाः समुपाद्रवन् ||
१५ ख
सञ्जय़ उवाच:
महता शरवर्षेण छादय़न्तो महारथाः |
१६ क
सञ्जय़ उवाच:
वधार्थं सूतपुत्रस्य पाण्डवेय़ेन चोदिताः ||
१६ ख
सञ्जय़ उवाच:
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् |
१७ क
सञ्जय़ उवाच:
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ||
१७ ख
सञ्जय़ उवाच:
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् |
१८ क
सञ्जय़ उवाच:
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ||
१८ ख
सञ्जय़ उवाच:
साय़कौघेन वलवान्क्षिप्रकारी महावलः |
१९ क
सञ्जय़ उवाच:
वारय़ामास तत्सैन्यं समन्ताद्भरतर्षभ ||
१९ ख
सञ्जय़ उवाच:
ततस्तु शरवर्षेण पार्थिवास्तमवारय़न् |
२० क
सञ्जय़ उवाच:
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः |
२० ख
सञ्जय़ उवाच:
अय़ोधय़न्त राधेय़ं शक्रं दैत्यगणा इव ||
२० ग
सञ्जय़ उवाच:
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् |
२१ क
सञ्जय़ उवाच:
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ||
२१ ख
सञ्जय़ उवाच:
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् |
२२ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे शक्रस्य सह दानवैः ||
२२ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् |
२३ क
सञ्जय़ उवाच:
यदेनं समरे यत्ता नाप्नुवन्त परे युधि ||
२३ ख
सञ्जय़ उवाच:
निवार्य च शरौघांस्तान्पार्थिवानां महारथः |
२४ क
सञ्जय़ उवाच:
युगेष्वीषासु छत्रेषु ध्वजेषु च हय़ेषु च |
२४ ख
सञ्जय़ उवाच:
आत्मनामाङ्कितान्वाणान्राधेय़ः प्राहिणोच्छितान् ||
२४ ग
सञ्जय़ उवाच:
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः |
२५ क
सञ्जय़ उवाच:
वभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ||
२५ ख
सञ्जय़ उवाच:
हय़ानां वध्यमानानां गजानां रथिनां तथा |
२६ क
सञ्जय़ उवाच:
तत्र तत्राभ्यवेक्षामः सङ्घान्कर्णेन पातितान् ||
२६ ख
सञ्जय़ उवाच:
शिरोभिः पतितै राजन्वाहुभिश्च समन्ततः |
२७ क
सञ्जय़ उवाच:
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ||
२७ ख
सञ्जय़ उवाच:
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः |
२८ क
सञ्जय़ उवाच:
वभूवाय़ोधनं रौद्रं वैवस्वतपुरोपमम् ||
२८ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् |
२९ क
सञ्जय़ उवाच:
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ||
२९ ख
सञ्जय़ उवाच:
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः |
३० क
सञ्जय़ उवाच:
पश्यैतां द्रवतीं सेनां कर्णसाय़कपीडिताम् |
३० ख
सञ्जय़ उवाच:
कार्त्तिकेय़ेन विध्वस्तामासुरीं पृतनामिव ||
३० ग
सञ्जय़ उवाच:
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता |
३१ क
सञ्जय़ उवाच:
अभिय़ात्येष वीभत्सुः सूतपुत्रजिघांसय़ा ||
३१ ख
सञ्जय़ उवाच:
तद्यथा पश्यमानानां सूतपुत्रं महारथम् |
३२ क
सञ्जय़ उवाच:
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीय़ताम् ||
३२ ख
सञ्जय़ उवाच:
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः |
३३ क
सञ्जय़ उवाच:
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सय़ा ||
३३ ख
सञ्जय़ उवाच:
आय़ान्तं दृश्य कौन्तेय़ं वृत्रं देवचमूमिव |
३४ क
सञ्जय़ उवाच:
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ||
३४ ख
धृतराष्ट्र उवाच:
संरव्धं फल्गुनं दृष्ट्वा कालान्तकय़मोपमम् |
३५ क
धृतराष्ट्र उवाच:
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ||
३५ ख
धृतराष्ट्र उवाच:
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः |
३६ क
धृतराष्ट्र उवाच:
आशंसते च वीभत्सुं युद्धे जेतुं सुदारुणे ||
३६ ख
धृतराष्ट्र उवाच:
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् |
३७ क
धृतराष्ट्र उवाच:
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ||
३७ ख
सञ्जय़ उवाच:
आय़ान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा |
३८ क
सञ्जय़ उवाच:
असम्भ्रान्ततरः कर्णः पर्त्युदीय़ाद्धनञ्जय़म् ||
३८ ख
सञ्जय़ उवाच:
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः |
३९ क
सञ्जय़ उवाच:
वारय़ामास तेजस्वी पाण्डवः शत्रुतापनः ||
३९ ख
सञ्जय़ उवाच:
तं कर्णः शरजालेन छादय़ामास मारिष |
४० क
सञ्जय़ उवाच:
विव्याध च सुसङ्क्रुद्धः शरैस्त्रिभिरजिह्मगैः ||
४० ख
सञ्जय़ उवाच:
तस्य तल्लाघवं पार्थो नामृष्यत महावलः |
४१ क
सञ्जय़ उवाच:
तस्मै वाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ||
४१ ख
सञ्जय़ उवाच:
प्राहिणोत्सूतपुत्राय़ त्रिंशतं शत्रुतापनः |
४२ क
सञ्जय़ उवाच:
विव्याध चैनं संरव्धो वाणेनैकेन वीर्यवान् ||
४२ ख
सञ्जय़ उवाच:
सव्ये भुजाग्रे वलवान्नाराचेन हसन्निव |
४३ क
सञ्जय़ उवाच:
तस्य विद्धस्य वेगेन कराच्चापं पपात ह ||
४३ ख
सञ्जय़ उवाच:
पुनरादाय़ तच्चापं निमेषार्धान्महावलः |
४४ क
सञ्जय़ उवाच:
छादय़ामास वाणौघैः फल्गुनं कृतहस्तवत् ||
४४ ख
सञ्जय़ उवाच:
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत |
४५ क
सञ्जय़ उवाच:
व्यधमच्छरवर्षेण स्मय़न्निव धनञ्जय़ः ||
४५ ख
सञ्जय़ उवाच:
तौ परस्परमासाद्य शरवर्षेण पार्थिव |
४६ क
सञ्जय़ उवाच:
छादय़ेतां महेष्वासौ कृतप्रतिकृतैषिणौ ||
४६ ख
सञ्जय़ उवाच:
तदद्भुतमभूद्युद्धं कर्णपाण्डवय़ोर्मृधे |
४७ क
सञ्जय़ उवाच:
क्रुद्धय़ोर्वाशिताहेतोर्वन्ययोर्गजय़ोरिव ||
४७ ख
सञ्जय़ उवाच:
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् |
४८ क
सञ्जय़ उवाच:
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरय़ान्वितः ||
४८ ख