chevron_left द्रोण पर्व अध्याय १३५
सञ्जय़ उवाच:
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी |
४६ ख
सञ्जय़ उवाच:
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ||
४६ ग
सञ्जय़ उवाच:
पाञ्चालांश्चैव तान्सर्वान्वाणैः संनतपर्वभिः |
४७ क
सञ्जय़ उवाच:
व्यद्रावय़दमेय़ात्मा शतशोऽथ सहस्रशः ||
४७ ख
सञ्जय़ उवाच:
ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ |
४८ क
सञ्जय़ उवाच:
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संय़ुगे ||
४८ ख
सञ्जय़ उवाच:
शतेन च शतं हत्वा पाञ्चालानां महारथः |
४९ क
सञ्जय़ उवाच:
त्रिभिश्च निशितैर्वाणैर्हत्वा त्रीन्वै महारथान् ||
४९ ख
सञ्जय़ उवाच:
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः |
५० क
सञ्जय़ उवाच:
नाशय़ामास पाञ्चालान्भूय़िष्ठं ये व्यवस्थिताः ||
५० ख
सञ्जय़ उवाच:
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जय़ैः |
५१ क
सञ्जय़ उवाच:
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ||
५१ ख
सञ्जय़ उवाच:
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः |
५२ क
सञ्जय़ उवाच:
ननाद सुमहानादं तपान्ते जलदो यथा ||
५२ ख
सञ्जय़ उवाच:
स निहत्य वहूञ्शूरानश्वत्थामा व्यरोचत |
५३ क
सञ्जय़ उवाच:
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ||
५३ ख
सञ्जय़ उवाच:
सम्पूज्यमानो युधि कौरवेय़ै; र्विजित्य सङ्ख्येऽरिगणान्सहस्रशः |
५४ क
सञ्जय़ उवाच:
व्यरोचत द्रोणसुतः प्रतापवा; न्यथा सुरेन्द्रोऽरिगणान्निहत्य ||
५४ ख