chevron_left द्रोण पर्व अध्याय १३५
सञ्जय़ उवाच:
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः |
१ क
सञ्जय़ उवाच:
प्रत्युवाच महावाहो यथा वदसि कौरव ||
१ ख
सञ्जय़ उवाच:
प्रिय़ा हि पाण्डवा नित्यं मम चापि पितुश्च मे |
२ क
सञ्जय़ उवाच:
तथैवावां प्रिय़ौ तेषां न तु युद्धे कुरूद्वह |
२ ख
सञ्जय़ उवाच:
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ||
२ ग
सञ्जय़ उवाच:
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च |
३ क
सञ्जय़ उवाच:
निमेषात्पाण्डवीं सेनां क्षपय़ेम नृपोत्तम ||
३ ख
सञ्जय़ उवाच:
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह |
४ क
सञ्जय़ उवाच:
क्षपय़ेय़ुर्महावाहो न स्याम यदि संय़ुगे ||
४ ख
सञ्जय़ उवाच:
युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युय़ुत्सताम् |
५ क
सञ्जय़ उवाच:
तेजस्तु तेज आसाद्य प्रशमं याति भारत ||
५ ख
सञ्जय़ उवाच:
अशक्या तरसा जेतुं पाण्डवानामनीकिनी |
६ क
सञ्जय़ उवाच:
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं व्रवीमि ते ||
६ ख
सञ्जय़ उवाच:
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः |
७ क
सञ्जय़ उवाच:
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ||
७ ख
सञ्जय़ उवाच:
त्वं हि लुव्धतमो राजन्निकृतिज्ञश्च कौरव |
८ क
सञ्जय़ उवाच:
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ||
८ ख
सञ्जय़ उवाच:
अहं तु यत्नमास्थाय़ त्वदर्थे त्यक्तजीवितः |
९ क
सञ्जय़ उवाच:
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन ||
९ ख
सञ्जय़ उवाच:
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् |
१० क
सञ्जय़ उवाच:
पाञ्चालैः सह योत्स्यामि सोमकैः केकय़ैस्तथा |
१० ख
सञ्जय़ उवाच:
पाण्डवेय़ैश्च सङ्ग्रामे त्वत्प्रिय़ार्थमरिन्दम ||
१० ग
सञ्जय़ उवाच:
अद्य मद्वाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा |
११ क
सञ्जय़ उवाच:
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः ||
११ ख
सञ्जय़ उवाच:
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् |
१२ क
सञ्जय़ उवाच:
अश्वत्थाममय़ं लोकं मंस्यते सह सोमकैः ||
१२ ख
सञ्जय़ उवाच:
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः |
१३ क
सञ्जय़ उवाच:
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ||
१३ ख
सञ्जय़ उवाच:
ये मां युद्धेऽभिय़ोत्स्यन्ति तान्हनिष्यामि भारत |
१४ क
सञ्जय़ उवाच:
न हि ते वीर मुच्येरन्मद्वाह्वन्तरमागताः ||
१४ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुः पुत्रं दुर्योधनं तव |
१५ क
सञ्जय़ उवाच:
अभ्यवर्तत युद्धाय़ द्रावय़न्सर्वधन्विनः |
१५ ख
सञ्जय़ उवाच:
चिकीर्षुस्तव पुत्राणां प्रिय़ं प्राणभृतां वरः ||
१५ ग
सञ्जय़ उवाच:
ततोऽव्रवीत्सकैकेय़ान्पाञ्चालान्गौतमीसुतः |
१६ क
सञ्जय़ उवाच:
प्रहरध्वमितः सर्वे मम गात्रे महारथाः |
१६ ख
सञ्जय़ उवाच:
स्थिरीभूताश्च युध्यध्वं दर्शय़न्तोऽस्त्रलाघवम् ||
१६ ग
सञ्जय़ उवाच:
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातय़न् |
१७ क
सञ्जय़ उवाच:
द्रौणिं प्रति महाराज जलं जलधरा इव ||
१७ ख
सञ्जय़ उवाच:
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथय़त् |
१८ क
सञ्जय़ उवाच:
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ||
१८ ख
सञ्जय़ उवाच:
ते हन्यमानाः समरे पाञ्चालाः सृञ्जय़ास्तथा |
१९ क
सञ्जय़ उवाच:
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ||
१९ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् |
२० क
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ||
२० ख
सञ्जय़ उवाच:
ततः काञ्चनचित्राणां सजलाम्वुदनादिनाम् |
२१ क
सञ्जय़ उवाच:
वृतः शतेन शूराणां रथानामनिवर्तिनाम् ||
२१ ख
सञ्जय़ उवाच:
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः |
२२ क
सञ्जय़ उवाच:
द्रौणिमित्यव्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ||
२२ ख
सञ्जय़ उवाच:
आचार्यपुत्र दुर्वुद्धे किमन्यैर्निहतैस्तव |
२३ क
सञ्जय़ उवाच:
समागच्छ मय़ा सार्धं यदि शूरोऽसि संय़ुगे |
२३ ख
सञ्जय़ उवाच:
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ||
२३ ग
सञ्जय़ उवाच:
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् |
२४ क
सञ्जय़ उवाच:
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ||
२४ ख
सञ्जय़ उवाच:
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः |
२५ क
सञ्जय़ उवाच:
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकाय़ावदारणाः |
२५ ख
सञ्जय़ उवाच:
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ||
२५ ग
सञ्जय़ उवाच:
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः |
२६ क
सञ्जय़ उवाच:
मानी द्रौणिरसम्भ्रान्तो वाणपाणिरभाषत ||
२६ ख
सञ्जय़ उवाच:
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय़ |
२७ क
सञ्जय़ उवाच:
यावत्त्वां निशितैर्वाणैः प्रेषय़ामि यमक्षय़म् ||
२७ ख
सञ्जय़ उवाच:
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा |
२८ क
सञ्जय़ उवाच:
छादय़ामास वाणौघैः समन्ताल्लघुहस्तवत् ||
२८ ख
सञ्जय़ उवाच:
स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः |
२९ क
सञ्जय़ उवाच:
द्रौणिं पाञ्चालतनय़ो वाग्भिरातर्जय़त्तदा ||
२९ ख
सञ्जय़ उवाच:
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च |
३० क
सञ्जय़ उवाच:
द्रोणं हत्वा किल मय़ा हन्तव्यस्त्वं सुदुर्मते |
३० ख
सञ्जय़ उवाच:
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संय़ुगे ||
३० ग
सञ्जय़ उवाच:
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते |
३१ क
सञ्जय़ उवाच:
निहत्य पितरं तेऽद्य ततस्त्वामपि संय़ुगे |
३१ ख
सञ्जय़ उवाच:
नेष्यामि मृत्युलोकाय़ेत्येवं मे मनसि स्थितम् ||
३१ ग
सञ्जय़ उवाच:
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च |
३२ क
सञ्जय़ उवाच:
तां दर्शय़ स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ||
३२ ख
सञ्जय़ उवाच:
यो हि व्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः |
३३ क
सञ्जय़ उवाच:
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम ||
३३ ख
सञ्जय़ उवाच:
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः |
३४ क
सञ्जय़ उवाच:
क्रोधमाहारय़त्तीव्रं तिष्ठ तिष्ठेति चाव्रवीत् ||
३४ ख
सञ्जय़ उवाच:
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत |
३५ क
सञ्जय़ उवाच:
छादय़ामास च शरैर्निःश्वसन्पन्नगो यथा ||
३५ ख
सञ्जय़ उवाच:
स छाद्यमानः समरे द्रौणिना राजसत्तम |
३६ क
सञ्जय़ उवाच:
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ||
३६ ख
सञ्जय़ उवाच:
नाकम्पत महावाहुः स्वधैर्यं समुपाश्रितः |
३७ क
सञ्जय़ उवाच:
साय़कांश्चैव विविधानश्वत्थाम्नि मुमोच ह ||
३७ ख
सञ्जय़ उवाच:
तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे |
३८ क
सञ्जय़ उवाच:
निवारय़न्तौ वाणौघैः परस्परममर्षिणौ |
३८ ख
सञ्जय़ उवाच:
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ||
३८ ग
सञ्जय़ उवाच:
द्रौणिपार्षतय़ोर्युद्धं घोररूपं भय़ानकम् |
३९ क
सञ्जय़ उवाच:
दृष्ट्वा सम्पूजय़ामासुः सिद्धचारणवातिकाः ||
३९ ख
सञ्जय़ उवाच:
शरौघैः पूरय़न्तौ तावाकाशं प्रदिशस्तथा |
४० क
सञ्जय़ उवाच:
अलक्ष्यौ समय़ुध्येतां महत्कृत्वा शरैस्तमः ||
४० ख
सञ्जय़ उवाच:
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ |
४१ क
सञ्जय़ उवाच:
परस्परवधे यत्तौ परस्परजय़ैषिणौ ||
४१ ख
सञ्जय़ उवाच:
अय़ुध्येतां महावाहू चित्रं लघु च सुष्ठु च |
४२ क
सञ्जय़ उवाच:
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ||
४२ ख
सञ्जय़ उवाच:
तौ प्रय़ुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव |
४३ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्हर्षस्तुमुलः समपद्यत ||
४३ ख
सञ्जय़ उवाच:
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष |
४४ क
सञ्जय़ उवाच:
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ||
४४ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले युद्धे भीरूणां भय़वर्धने |
४५ क
सञ्जय़ उवाच:
मुहूर्तमिव तद्युद्धं समरूपं तदाभवत् ||
४५ ख
सञ्जय़ उवाच:
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः |
४६ क