सञ्जय़ उवाच:
धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ||
४८ ख
सञ्जय़ उवाच:
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः |
४९ क
सञ्जय़ उवाच:
सम्भग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ||
४९ ख
सञ्जय़ उवाच:
नानापुष्पस्रजोपेता नानाकुण्डलधारिणः |
५० क
सञ्जय़ उवाच:
नानाजात्या हतास्तत्र नानादेशसमागताः ||
५० ख
सञ्जय़ उवाच:
पताकाध्वजसञ्छन्नं पदातीनां महद्वलम् |
५१ क
सञ्जय़ उवाच:
निकृत्तं विवभौ तत्र घोररूपं भय़ानकम् ||
५१ ख
सञ्जय़ उवाच:
युधिष्ठिरपुरोगास्तु सर्वसैन्यमहारथाः |
५२ क
सञ्जय़ उवाच:
अभ्यधावन्महात्मानं पुत्रं दुर्योधनं तव ||
५२ ख
सञ्जय़ उवाच:
ते सर्वे तावकान्दृष्ट्वा महेष्वासान्पराङ्मुखान् |
५३ क
सञ्जय़ उवाच:
नाभ्यवर्तन्त ते पुत्रं वेलेव मकरालय़म् ||
५३ ख
सञ्जय़ उवाच:
तदद्भुतमपश्याम तव पुत्रस्य पौरुषम् |
५४ क
सञ्जय़ उवाच:
यदेकं सहिताः पार्था न शेकुरतिवर्तितुम् ||
५४ ख
सञ्जय़ उवाच:
नातिदूरापय़ातं तु कृतवुद्धिं पलाय़ने |
५५ क
सञ्जय़ उवाच:
दुर्योधनः स्वकं सैन्यमव्रवीद्भृशविक्षतम् ||
५५ ख
सञ्जय़ उवाच:
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु वा |
५६ क
सञ्जय़ उवाच:
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः ||
५६ ख
सञ्जय़ उवाच:
अल्पं च वलमेतेषां कृष्णौ च भृशविक्षतौ |
५७ क
सञ्जय़ उवाच:
यदि सर्वेऽत्र तिष्ठामो ध्रुवो नो विजय़ो भवेत् ||
५७ ख
सञ्जय़ उवाच:
विप्रय़ातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्विषान् |
५८ क
सञ्जय़ उवाच:
अनुसृत्य हनिष्यन्ति श्रेय़ो नः समरे स्थितम् ||
५८ ख
सञ्जय़ उवाच:
शृणुध्वं क्षत्रिय़ाः सर्वे यावन्तः स्थ समागताः |
५९ क
सञ्जय़ उवाच:
यदा शूरं च भीरुं च मारय़त्यन्तकः सदा |
५९ ख
सञ्जय़ उवाच:
को नु मूढो न युध्येत पुरुषः क्षत्रिय़व्रुवः ||
५९ ग
सञ्जय़ उवाच:
श्रेय़ो नो भीमसेनस्य क्रुद्धस्य प्रमुखे स्थितम् |
६० क
सञ्जय़ उवाच:
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् |
६० ख
सञ्जय़ उवाच:
जित्वेह सुखमाप्नोति हतः प्रेत्य महत्फलम् ||
६० ग
सञ्जय़ उवाच:
न युद्धधर्माच्छ्रेय़ान्वै पन्थाः स्वर्गस्य कौरवाः |
६१ क
सञ्जय़ उवाच:
अचिरेण जिताँल्लोकान्हतो युद्धे समश्नुते ||
६१ ख
सञ्जय़ उवाच:
श्रुत्वा तु वचनं तस्य पूजय़ित्वा च पार्थिवाः |
६२ क
सञ्जय़ उवाच:
पुनरेवान्ववर्तन्त पाण्डवानातताय़िनः ||
६२ ख
सञ्जय़ उवाच:
तानापतत एवाशु व्यूढानीकाः प्रहारिणः |
६३ क
सञ्जय़ उवाच:
प्रत्युद्ययुस्तदा पार्था जय़गृध्राः प्रहारिणः ||
६३ ख
सञ्जय़ उवाच:
धनञ्जय़ो रथेनाजावभ्यवर्तत वीर्यवान् |
६४ क
सञ्जय़ उवाच:
विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन्धनुः ||
६४ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महावलः |
६५ क
सञ्जय़ उवाच:
जवेनाभ्यपतन्हृष्टा यतो वै तावकं वलम् ||
६५ ख