chevron_left वन पर्व अध्याय १३६
यवक्रीरु उवाच:
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभय़ोः |
१ क
यवक्रीरु उवाच:
अति चान्यान्भविष्यावो वरा लव्धास्तथा मय़ा ||
१ ख
भरद्वाज उवाच:
दर्पस्ते भविता तात वराँल्लव्ध्वा यथेप्सितान् |
२ क
भरद्वाज उवाच:
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि ||
२ ख
भरद्वाज उवाच:
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः |
३ क
भरद्वाज उवाच:
ऋषिरासीत्पुरा पुत्र वालधिर्नाम वीर्यवान् ||
३ ख
भरद्वाज उवाच:
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् |
४ क
भरद्वाज उवाच:
भवेन्मम सुतोऽमर्त्य इति तं लव्धवांश्च सः ||
४ ख
भरद्वाज उवाच:
तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः |
५ क
भरद्वाज उवाच:
नामर्त्यो विद्यते मर्त्यो निमित्ताय़ुर्भविष्यति ||
५ ख
वालधिरु उवाच:
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः |
६ क
वालधिरु उवाच:
अक्षय़ास्तन्निमित्तं मे सुतस्याय़ुर्भवेदिति ||
६ ख
भरद्वाज उवाच:
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा |
७ क
भरद्वाज उवाच:
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत ||
७ ख
भरद्वाज उवाच:
विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् |
८ क
भरद्वाज उवाच:
आससाद महावीर्यं धनुषाक्षं मनीषिणम् ||
८ ख
भरद्वाज उवाच:
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् |
९ क
भरद्वाज उवाच:
भव भस्मेति चोक्तः स न भस्म समपद्यत ||
९ ख
भरद्वाज उवाच:
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामय़म् |
१० क
भरद्वाज उवाच:
निमित्तमस्य महिषैर्भेदय़ामास वीर्यवान् ||
१० ख
भरद्वाज उवाच:
स निमित्ते विनष्टे तु ममार सहसा शिशुः |
११ क
भरद्वाज उवाच:
तं मृतं पुत्रमादाय़ विललाप ततः पिता ||
११ ख
भरद्वाज उवाच:
लालप्यमानं तं दृष्ट्वा मुनय़ः पुनरार्तवत् |
१२ क
भरद्वाज उवाच:
ऊचुर्वेदोक्तय़ा पूर्वं गाथय़ा तन्निवोध मे ||
१२ ख
भरद्वाज उवाच:
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन |
१३ क
भरद्वाज उवाच:
महिषैर्भेदय़ामास धनुषाक्षो महीधरान् ||
१३ ख
भरद्वाज उवाच:
एवं लव्ध्वा वरान्वाला दर्पपूर्णास्तरस्विनः |
१४ क
भरद्वाज उवाच:
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ||
१४ ख
भरद्वाज उवाच:
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ |
१५ क
भरद्वाज उवाच:
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ||
१५ ख
भरद्वाज उवाच:
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडय़ितुं रुषा |
१६ क
भरद्वाज उवाच:
वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः ||
१६ ख
यवक्रीरु उवाच:
एवं करिष्ये मा तापं तात कार्षीः कथञ्चन |
१७ क
यवक्रीरु उवाच:
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ||
१७ ख
लोमश उवाच:
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभय़ः |
१८ क
लोमश उवाच:
विप्रकुर्वन्नृषीनन्यानतुष्यत्परय़ा मुदा ||
१८ ख