chevron_left उद्योग पर्व अध्याय १३६
वैशम्पाय़न उवाच:
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ |
१ क
वैशम्पाय़न उवाच:
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ||
१ ख
वैशम्पाय़न उवाच:
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ |
२ क
वैशम्पाय़न उवाच:
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ||
२ ख
वैशम्पाय़न उवाच:
तत्करिष्यन्ति कौन्तेय़ा वासुदेवस्य संमतम् |
३ क
वैशम्पाय़न उवाच:
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ||
३ ख
वैशम्पाय़न उवाच:
क्लेशिता हि त्वय़ा पार्था धर्मपाशसितास्तदा |
४ क
वैशम्पाय़न उवाच:
सभाय़ां द्रौपदी चैव तैश्च तन्मर्षितं तव ||
४ ख
वैशम्पाय़न उवाच:
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् |
५ क
वैशम्पाय़न उवाच:
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च |
५ ख
वैशम्पाय़न उवाच:
सहाय़ं वासुदेवं च न क्षंस्यति युधिष्ठिरः ||
५ ग
वैशम्पाय़न उवाच:
प्रत्यक्षं ते महावाहो यथा पार्थेन धीमता |
६ क
वैशम्पाय़न उवाच:
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ||
६ ख
वैशम्पाय़न उवाच:
दानवान्घोरकर्माणो निवातकवचान्युधि |
७ क
वैशम्पाय़न उवाच:
रौद्रमस्त्रं समाधाय़ दग्धवानस्त्रवह्निना ||
७ ख
वैशम्पाय़न उवाच:
कर्णप्रभृतय़श्चेमे त्वं चापि कवची रथी |
८ क
वैशम्पाय़न उवाच:
मोक्षिता घोषय़ात्राय़ां पर्याप्तं तन्निदर्शनम् ||
८ ख
वैशम्पाय़न उवाच:
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः |
९ क
वैशम्पाय़न उवाच:
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ||
९ ख
वैशम्पाय़न उवाच:
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्षुचिः |
१० क
वैशम्पाय़न उवाच:
तं गच्छ पुरुषव्याघ्रं व्यपनीय़ेह किल्विषम् ||
१० ख
वैशम्पाय़न उवाच:
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः |
११ क
वैशम्पाय़न उवाच:
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ||
११ ख
वैशम्पाय़न उवाच:
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् |
१२ क
वैशम्पाय़न उवाच:
अभिवादय़ राजानं यथापूर्वमरिन्दम ||
१२ ख
वैशम्पाय़न उवाच:
अभिवादय़मानं त्वां पाणिभ्यां भीमपूर्वजः |
१३ क
वैशम्पाय़न उवाच:
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ||
१३ ख
वैशम्पाय़न उवाच:
सिंहस्कन्धोरुवाहुस्त्वां वृत्ताय़तमहाभुजः |
१४ क
वैशम्पाय़न उवाच:
परिष्वजतु वाहुभ्यां भीमः प्रहरतां वरः ||
१४ ख
वैशम्पाय़न उवाच:
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः |
१५ क
वैशम्पाय़न उवाच:
अभिवादय़तां पार्थः कुन्तीपुत्रो धनञ्जय़ः ||
१५ ख
वैशम्पाय़न उवाच:
आश्विनेय़ौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि |
१६ क
वैशम्पाय़न उवाच:
तौ च त्वां गुरुवत्प्रेम्णा पूजय़ा प्रत्युदीय़ताम् ||
१६ ख
वैशम्पाय़न उवाच:
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः |
१७ क
वैशम्पाय़न उवाच:
सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव ||
१७ ख
वैशम्पाय़न उवाच:
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह |
१८ क
वैशम्पाय़न उवाच:
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ||
१८ ख
वैशम्पाय़न उवाच:
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् |
१९ क
वैशम्पाय़न उवाच:
ध्रुवं विनाशो युद्धे हि क्षत्रिय़ाणां प्रदृश्यते ||
१९ ख
वैशम्पाय़न उवाच:
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः |
२० क
वैशम्पाय़न उवाच:
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ||
२० ख
वैशम्पाय़न उवाच:
विशेषत इहास्माकं निमित्तानि विनाशने |
२१ क
वैशम्पाय़न उवाच:
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ||
२१ ख
वैशम्पाय़न उवाच:
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते |
२२ क
वैशम्पाय़न उवाच:
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ||
२२ ख
वैशम्पाय़न उवाच:
नगरं न यथापूर्वं तथा राजनिवेशनम् |
२३ क
वैशम्पाय़न उवाच:
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ||
२३ ख
वैशम्पाय़न उवाच:
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् |
२४ क
वैशम्पाय़न उवाच:
त्वय़्याय़त्तो महावाहो शमो व्याय़ाम एव च ||
२४ ख
वैशम्पाय़न उवाच:
न चेत्करिष्यसि वचः सुहृदामरिकर्शन |
२५ क
वैशम्पाय़न उवाच:
तप्स्यसे वाहिनीं दृष्ट्वा पार्थवाणप्रपीडिताम् ||
२५ ख
वैशम्पाय़न उवाच:
भीमस्य च महानादं नदतः शुष्मिणो रणे |
२६ क
वैशम्पाय़न उवाच:
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् |
२६ ख
वैशम्पाय़न उवाच:
यद्येतदपसव्यं ते भविष्यति वचो मम ||
२६ ग