chevron_left द्रोण पर्व अध्याय १३६
सञ्जय़ उवाच:
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः |
१ क
सञ्जय़ उवाच:
द्रोणपुत्रं महाराज समन्तात्पर्यवारय़न् ||
१ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा भारद्वाजेन संवृतः |
२ क
सञ्जय़ उवाच:
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत |
२ ख
सञ्जय़ उवाच:
घोररूपं महाराज भीरूणां भय़वर्धनम् ||
२ ग
सञ्जय़ उवाच:
अम्वष्ठान्मालवान्वङ्गाञ्शिवींस्त्रैगर्तकानपि |
३ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ गणान्क्रुद्धो युधिष्ठिरः ||
३ ख
सञ्जय़ उवाच:
अभीषाहाञ्शूरसेनान्क्षत्रिय़ान्युद्धदुर्मदान् |
४ क
सञ्जय़ उवाच:
निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ||
४ ख
सञ्जय़ उवाच:
यौधेय़ारट्टराजन्यान्मद्रकांश्च गणान्युधि |
५ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ किरीटी निशितैः शरैः ||
५ ख
सञ्जय़ उवाच:
प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः |
६ क
सञ्जय़ उवाच:
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ||
६ ख
सञ्जय़ उवाच:
निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः |
७ क
सञ्जय़ उवाच:
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ||
७ ख
सञ्जय़ उवाच:
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्वभौ |
८ क
सञ्जय़ उवाच:
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षय़े ||
८ ख
सञ्जय़ उवाच:
हत प्रहरताभीता विध्यत व्यवकृन्तत |
९ क
सञ्जय़ उवाच:
इत्यासीत्तुमुलः शव्दः शोणाश्वस्य रथं प्रति ||
९ ख
सञ्जय़ उवाच:
द्रोणस्तु परमक्रुद्धो वाय़व्यास्त्रेण संय़ुगे |
१० क
सञ्जय़ उवाच:
व्यधमत्तान्यथा वाय़ुर्मेघानिव दुरत्ययः ||
१० ख
सञ्जय़ उवाच:
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भय़ात् |
११ क
सञ्जय़ उवाच:
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ||
११ ख
सञ्जय़ उवाच:
ततः किरीटी भीमश्च सहसा संन्यवर्तताम् |
१२ क
सञ्जय़ उवाच:
महता रथवंशेन परिगृह्य वलं तव ||
१२ ख
सञ्जय़ उवाच:
वीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः |
१३ क
सञ्जय़ उवाच:
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ||
१३ ख
सञ्जय़ उवाच:
तौ तदा सृञ्जय़ाश्चैव पाञ्चालाश्च महारथाः |
१४ क
सञ्जय़ उवाच:
अन्वगच्छन्महाराज मत्स्याश्च सह सोमकैः ||
१४ ख
सञ्जय़ उवाच:
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः |
१५ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं जग्मुर्द्रोणरथं प्रति ||
१५ ख
सञ्जय़ उवाच:
ततः सा भरती सेना वध्यमाना किरीटिना |
१६ क
सञ्जय़ उवाच:
तमसा निद्रय़ा चैव पुनरेव व्यदीर्यत ||
१६ ख
सञ्जय़ उवाच:
द्रोणेन वार्यमाणास्ते स्वय़ं तव सुतेन च |
१७ क
सञ्जय़ उवाच:
न शक्यन्ते महाराज योधा वारय़ितुं तदा ||
१७ ख
सञ्जय़ उवाच:
सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः |
१८ क
सञ्जय़ उवाच:
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ||
१८ ख
सञ्जय़ उवाच:
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः |
१९ क
सञ्जय़ उवाच:
प्राद्रवन्त महाराज भय़ाविष्टाः समन्ततः ||
१९ ख