पूजन्यु उवाच:
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् |
५० क
पूजन्यु उवाच:
कस्मात्त्वपचितिं यान्ति वान्धवा वान्धवे हते ||
५० ख
पूजन्यु उवाच:
कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे |
५१ क
पूजन्यु उवाच:
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ||
५१ ख
पूजन्यु उवाच:
भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे |
५२ क
पूजन्यु उवाच:
यदि कालेन पच्यन्ते भेषजैः किं प्रय़ोजनम् ||
५२ ख
पूजन्यु उवाच:
प्रलापः क्रिय़ते कस्मात्सुमहाञ्शोकमूर्छितैः |
५३ क
पूजन्यु उवाच:
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ||
५३ ख
पूजन्यु उवाच:
तव पुत्रो ममापत्यं हतवान्हिंसितो मय़ा |
५४ क
पूजन्यु उवाच:
अनन्तरं त्वय़ा चाहं वन्धनीय़ा महीपते ||
५४ ख
पूजन्यु उवाच:
अहं हि पुत्रशोकेन कृतपापा तवात्मजे |
५५ क
पूजन्यु उवाच:
तथा त्वय़ा प्रहर्तव्यं मय़ि तत्त्वं च मे शृणु ||
५५ ख
पूजन्यु उवाच:
भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः |
५६ क
पूजन्यु उवाच:
तृतीय़ो नास्ति संय़ोगो वधवन्धादृते क्षमः ||
५६ ख
पूजन्यु उवाच:
वधवन्धभय़ादेके मोक्षतन्त्रमुपागताः |
५७ क
पूजन्यु उवाच:
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः ||
५७ ख
पूजन्यु उवाच:
सर्वस्य दय़िताः प्राणाः सर्वस्य दय़िताः सुताः |
५८ क
पूजन्यु उवाच:
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् ||
५८ ख
पूजन्यु उवाच:
दुःखं जरा व्रह्मदत्त दुःखमर्थविपर्ययः |
५९ क
पूजन्यु उवाच:
दुःखं चानिष्टसंवासो दुःखमिष्टविय़ोगजम् ||
५९ ख
पूजन्यु उवाच:
वैरवन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा |
६० क
पूजन्यु उवाच:
दुःखं सुखेन सततं जनाद्विपरिवर्तते ||
६० ख
पूजन्यु उवाच:
न दुःखं परदुःखे वै केचिदाहुरवुद्धय़ः |
६१ क
पूजन्यु उवाच:
यो दुःखं नाभिजानाति स जल्पति महाजने ||
६१ ख
पूजन्यु उवाच:
यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् |
६२ क
पूजन्यु उवाच:
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे ||
६२ ख
पूजन्यु उवाच:
यत्कृतं ते मय़ा राजंस्त्वय़ा च मम यत्कृतम् |
६३ क
पूजन्यु उवाच:
न तद्वर्षशतैः शक्यं व्यपोहितुमरिन्दम ||
६३ ख
पूजन्यु उवाच:
आवय़ोः कृतमन्योन्यं तत्र सन्धिर्न विद्यते |
६४ क
पूजन्यु उवाच:
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ||
६४ ख
पूजन्यु उवाच:
वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति |
६५ क
पूजन्यु उवाच:
मृन्मय़स्येव भग्नस्य तस्य सन्धिर्न विद्यते ||
६५ ख
पूजन्यु उवाच:
निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदय़ः |
६६ क
पूजन्यु उवाच:
उशनाश्चाथ गाथे द्वे प्रह्रादाय़ाव्रवीत्पुरा ||
६६ ख
पूजन्यु उवाच:
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा |
६७ क
पूजन्यु उवाच:
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा ||
६७ ख
पूजन्यु उवाच:
न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् |
६८ क
पूजन्यु उवाच:
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् ||
६८ ख
पूजन्यु उवाच:
उपगुह्य हि वैराणि सान्त्वय़न्ति नराधिपाः |
६९ क
पूजन्यु उवाच:
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि ||
६९ ख
पूजन्यु उवाच:
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् |
७० क
पूजन्यु उवाच:
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ||
७० ख
व्रह्मदत्त उवाच:
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किञ्चन |
७१ क
व्रह्मदत्त उवाच:
भय़ादेकतरान्नित्यं मृतकल्पा भवन्ति च ||
७१ ख
पूजन्यु उवाच:
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति |
७२ क
पूजन्यु उवाच:
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः ||
७२ ख
पूजन्यु उवाच:
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते |
७३ क
पूजन्यु उवाच:
तस्य वाय़ुरुजात्यर्थं नेत्रय़ोर्भवति ध्रुवम् ||
७३ ख
पूजन्यु उवाच:
दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते |
७४ क
पूजन्यु उवाच:
आत्मनो वलमज्ञात्वा तदन्तं तस्य जीवितम् ||
७४ ख
पूजन्यु उवाच:
यस्तु वर्षमविज्ञाय़ क्षेत्रं कृषति मानवः |
७५ क
पूजन्यु उवाच:
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः ||
७५ ख
पूजन्यु उवाच:
यश्च तिक्तं कषाय़ं वाप्यास्वादविधुरं हितम् |
७६ क
पूजन्यु उवाच:
आहारं कुरुते नित्यं सोऽमृतत्वाय़ कल्पते ||
७६ ख
पूजन्यु उवाच:
पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् |
७७ क
पूजन्यु उवाच:
परिणाममविज्ञाय़ तदन्तं तस्य जीवितम् ||
७७ ख
पूजन्यु उवाच:
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रय़ात् |
७८ क
पूजन्यु उवाच:
उदात्तानां कर्म तन्त्रं दैवं क्लीवा उपासते ||
७८ ख
पूजन्यु उवाच:
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु |
७९ क
पूजन्यु उवाच:
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः ||
७९ ख
पूजन्यु उवाच:
तस्मात्संशय़ितेऽप्यर्थे कार्य एव पराक्रमः |
८० क
पूजन्यु उवाच:
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः ||
८० ख
पूजन्यु उवाच:
विद्या शौर्यं च दाक्ष्यं च वलं धैर्यं च पञ्चमम् |
८१ क
पूजन्यु उवाच:
मित्राणि सहजान्याहुर्वर्तय़न्तीह यैर्वुधाः ||
८१ ख
पूजन्यु उवाच:
निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः |
८२ क
पूजन्यु उवाच:
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ||
८२ ख
पूजन्यु उवाच:
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते |
८३ क
पूजन्यु उवाच:
न विभीषय़ते कञ्चिद्भीषितो न विभेति च ||
८३ ख
पूजन्यु उवाच:
नित्यं वुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते |
८४ क
पूजन्यु उवाच:
दाक्ष्येण कुरुते कर्म संय़मात्प्रतितिष्ठति ||
८४ ख
पूजन्यु उवाच:
गृहस्नेहाववद्धानां नराणामल्पमेधसाम् |
८५ क
पूजन्यु उवाच:
कुस्त्री खादति मांसानि माघमा सेगवामिव ||
८५ ख
पूजन्यु उवाच:
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे |
८६ क
पूजन्यु उवाच:
इत्येवमवसीदन्ति नरा वुद्धिविपर्यये ||
८६ ख
पूजन्यु उवाच:
उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् |
८७ क
पूजन्यु उवाच:
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ||
८७ ख
पूजन्यु उवाच:
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे |
८८ क
पूजन्यु उवाच:
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव ||
८८ ख
पूजन्यु उवाच:
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् |
८९ क
पूजन्यु उवाच:
कुसम्वन्धं कुदेशं च दूरतः परिवर्जय़ेत् ||
८९ ख
पूजन्यु उवाच:
कुमित्रे नास्ति विश्वासः कुभार्याय़ां कुतो रतिः |
९० क
पूजन्यु उवाच:
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते ||
९० ख
पूजन्यु उवाच:
कुमित्रे सङ्गतं नास्ति नित्यमस्थिरसौहृदे |
९१ क
पूजन्यु उवाच:
अवमानः कुसम्वन्धे भवत्यर्थविपर्यये ||
९१ ख
पूजन्यु उवाच:
सा भार्या या प्रिय़ं व्रूते स पुत्रो यत्र निर्वृतिः |
९२ क
पूजन्यु उवाच:
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ||
९२ ख
पूजन्यु उवाच:
यत्र नास्ति वलात्कारः स राजा तीव्रशासनः |
९३ क
पूजन्यु उवाच:
न चैव ह्यभिसम्वन्धो दरिद्रं यो वुभूषति ||
९३ ख
पूजन्यु उवाच:
भार्या देशोऽथ मित्राणि पुत्रसम्वन्धिवान्धवाः |
९४ क
पूजन्यु उवाच:
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ ||
९४ ख
पूजन्यु उवाच:
अधर्मज्ञस्य विलय़ं प्रजा गच्छन्त्यनिग्रहात् |
९५ क
पूजन्यु उवाच:
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालय़न् ||
९५ ख
पूजन्यु उवाच:
वलिषड्भागमुद्धृत्य वलिं तमुपय़ोजय़ेत् |
९६ क
पूजन्यु उवाच:
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ||
९६ ख
पूजन्यु उवाच:
दत्त्वाभय़ं यः स्वय़मेव राजा; न तत्प्रमाणं कुरुते यथावत् |
९७ क
पूजन्यु उवाच:
स सर्वलोकादुपलभ्य पाप; मधर्मवुद्धिर्निरय़ं प्रय़ाति ||
९७ ख
पूजन्यु उवाच:
दत्त्वाभय़ं यः स्म राजा प्रमाणं कुरुते सदा |
९८ क
पूजन्यु उवाच:
स सर्वसुखकृज्ज्ञेय़ः प्रजा धर्मेण पालय़न् ||
९८ ख
पूजन्यु उवाच:
पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः |
९९ क
पूजन्यु उवाच:
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ||
९९ ख