chevron_left आदि पर्व अध्याय १३७
वैशम्पाय़न उवाच:
अथ रात्र्यां व्यतीताय़ामशेषो नागरो जनः |
१ क
वैशम्पाय़न उवाच:
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ||
१ ख
वैशम्पाय़न उवाच:
निर्वापय़न्तो ज्वलनं ते जना ददृशुस्ततः |
२ क
वैशम्पाय़न उवाच:
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ||
२ ख
वैशम्पाय़न उवाच:
नूनं दुर्योधनेनेदं विहितं पापकर्मणा |
३ क
वैशम्पाय़न उवाच:
पाण्डवानां विनाशाय़ इत्येवं चुक्रुषुर्जनाः ||
३ ख
वैशम्पाय़न उवाच:
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशय़ः |
४ क
वैशम्पाय़न उवाच:
दग्धवान्पाण्डुदाय़ादान्न ह्येनं प्रतिषिद्धवान् ||
४ ख
वैशम्पाय़न उवाच:
नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते |
५ क
वैशम्पाय़न उवाच:
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ||
५ ख
वैशम्पाय़न उवाच:
ते वय़ं धृतराष्ट्रस्य प्रेषय़ामो दुरात्मनः |
६ क
वैशम्पाय़न उवाच:
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ||
६ ख
वैशम्पाय़न उवाच:
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् |
७ क
वैशम्पाय़न उवाच:
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ||
७ ख
वैशम्पाय़न उवाच:
खनकेन तु तेनैव वेश्म शोधय़ता विलम् |
८ क
वैशम्पाय़न उवाच:
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ||
८ ख
वैशम्पाय़न उवाच:
ततस्ते प्रेषय़ामासुर्धृतराष्ट्रस्य नागराः |
९ क
वैशम्पाय़न उवाच:
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ||
९ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रिय़म् |
१० क
वैशम्पाय़न उवाच:
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ||
१० ख
वैशम्पाय़न उवाच:
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः |
११ क
वैशम्पाय़न उवाच:
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ||
११ ख
वैशम्पाय़न उवाच:
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् |
१२ क
वैशम्पाय़न उवाच:
सत्कारय़न्तु तान्वीरान्कुन्तिराजसुतां च ताम् ||
१२ ख
वैशम्पाय़न उवाच:
कारय़न्तु च कुल्यानि शुभ्राणि च महान्ति च |
१३ क
वैशम्पाय़न उवाच:
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ||
१३ ख
वैशम्पाय़न उवाच:
एवङ्गते मय़ा शक्यं यद्यत्कारय़ितुं हितम् |
१४ क
वैशम्पाय़न उवाच:
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रिय़तां धनैः ||
१४ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः |
१५ क
वैशम्पाय़न उवाच:
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्विकासुतः ||
१५ ख
वैशम्पाय़न उवाच:
चुक्रुशुः कौरवाः सर्वे भृशं शोकपराय़णाः |
१६ क
वैशम्पाय़न उवाच:
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ||
१६ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् |
१७ क
वैशम्पाय़न उवाच:
जवेन प्रय़यू राजन्दक्षिणां दिशमाश्रिताः ||
१७ ख
वैशम्पाय़न उवाच:
विज्ञाय़ निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः |
१८ क
वैशम्पाय़न उवाच:
यतमाना वनं राजन्गहनं प्रतिपेदिरे ||
१८ ख
वैशम्पाय़न उवाच:
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः |
१९ क
वैशम्पाय़न उवाच:
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ||
१९ ख
वैशम्पाय़न उवाच:
इतः कष्टतरं किं नु यद्वय़ं गहने वने |
२० क
वैशम्पाय़न उवाच:
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ||
२० ख
वैशम्पाय़न उवाच:
तं च पापं न जानीमो यदि दग्धः पुरोचनः |
२१ क
वैशम्पाय़न उवाच:
कथं नु विप्रमुच्येम भय़ादस्मादलक्षिताः ||
२१ ख
वैशम्पाय़न उवाच:
पुनरस्मानुपादाय़ तथैव व्रज भारत |
२२ क
वैशम्पाय़न उवाच:
त्वं हि नो वलवानेको यथा सततगस्तथा ||
२२ ख
वैशम्पाय़न उवाच:
इत्युक्तो धर्मराजेन भीमसेनो महावलः |
२३ क
वैशम्पाय़न उवाच:
आदाय़ कुन्तीं भ्रातृंश्च जगामाशु महावलः ||
२३ ख