युधिष्ठिर उवाच:
उक्तो मन्त्रो महावाहो न विश्वासोऽस्ति शत्रुषु |
१ क
युधिष्ठिर उवाच:
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ||
१ ख
युधिष्ठिर उवाच:
विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भय़म् |
२ क
युधिष्ठिर उवाच:
कथं वै नाश्वसन्राजा शत्रूञ्जय़ति पार्थिव ||
२ ख
युधिष्ठिर उवाच:
एतन्मे संशय़ं छिन्धि मनो मे सम्प्रमुह्यति |
३ क
युधिष्ठिर उवाच:
अविश्वासकथामेतामुपश्रुत्य पितामह ||
३ ख
भीष्म उवाच:
शृणु कौन्तेय़ यो वृत्तो व्रह्मदत्तनिवेशने |
४ क
भीष्म उवाच:
पूजन्या सह संवादो व्रह्मदत्तस्य पार्थिव ||
४ ख
भीष्म उवाच:
काम्पिल्ये व्रह्मदत्तस्य अन्तःपुरनिवासिनी |
५ क
भीष्म उवाच:
पूजनी नाम शकुनी दीर्घकालं सहोषिता ||
५ ख
भीष्म उवाच:
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः |
६ क
भीष्म उवाच:
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा ||
६ ख
भीष्म उवाच:
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् |
७ क
भीष्म उवाच:
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजाय़त ||
७ ख
भीष्म उवाच:
समुद्रतीरं गत्वा सा त्वाजहार फलद्वय़म् |
८ क
भीष्म उवाच:
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ||
८ ख
भीष्म उवाच:
फलमेकं सुताय़ादाद्राजपुत्राय़ चापरम् |
९ क
भीष्म उवाच:
अमृतास्वादसदृशं वलतेजोविवर्धनम् |
९ ख
भीष्म उवाच:
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ||
९ ग
भीष्म उवाच:
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा |
१० क
भीष्म उवाच:
शून्ये तु तमुपादाय़ पक्षिणं समजातकम् |
१० ख
भीष्म उवाच:
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् ||
१० ग
भीष्म उवाच:
अथ सा शकुनी राजन्नागमत्फलहारिका |
११ क
भीष्म उवाच:
अपश्यन्निहतं पुत्रं तेन वालेन भूतले ||
११ ख
भीष्म उवाच:
वाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् |
१२ क
भीष्म उवाच:
पूजनी दुःखसन्तप्ता रुदती वाक्यमव्रवीत् ||
१२ ख
भीष्म उवाच:
क्षत्रिय़े सङ्गतं नास्ति न प्रीतिर्न च सौहृदम् |
१३ क
भीष्म उवाच:
कारणे सम्भजन्तीह कृतार्थाः सन्त्यजन्ति च ||
१३ ख
भीष्म उवाच:
क्षत्रिय़ेषु न विश्वासः कार्यः सर्वोपघातिषु |
१४ क
भीष्म उवाच:
अपकृत्यापि सततं सान्त्वय़न्ति निरर्थकम् ||
१४ ख
भीष्म उवाच:
अहमस्य करोम्यद्य सदृशीं वैरय़ातनाम् |
१५ क
भीष्म उवाच:
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ||
१५ ख
भीष्म उवाच:
सहसञ्जातवृद्धस्य तथैव सहभोजिनः |
१६ क
भीष्म उवाच:
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्विषम् ||
१६ ख
भीष्म उवाच:
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा |
१७ क
भीष्म उवाच:
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमव्रवीत् ||
१७ ख
भीष्म उवाच:
इच्छय़ैव कृतं पापं सद्य एवोपसर्पति |
१८ क
भीष्म उवाच:
कृतप्रतिक्रिय़ं तेषां न नश्यति शुभाशुभम् ||
१८ ख
भीष्म उवाच:
पापं कर्म कृतं किञ्चिन्न तस्मिन्यदि विद्यते |
१९ क
भीष्म उवाच:
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु ||
१९ ख
व्रह्मदत्त उवाच:
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वय़ा |
२० क
व्रह्मदत्त उवाच:
उभय़ं तत्समीभूतं वस पूजनि मा गमः ||
२० ख
पूजन्यु उवाच:
सकृत्कृतापराधस्य तत्रैव परिलम्वतः |
२१ क
पूजन्यु उवाच:
न तद्वुधाः प्रशंसन्ति श्रेय़स्तत्रापसर्पणम् ||
२१ ख
पूजन्यु उवाच:
सान्त्वे प्रय़ुक्ते नृपते कृतवैरे न विश्वसेत् |
२२ क
पूजन्यु उवाच:
क्षिप्रं प्रवध्यते मूढो न हि वैरं प्रशाम्यति ||
२२ ख
पूजन्यु उवाच:
अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति |
२३ क
पूजन्यु उवाच:
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ||
२३ ख
पूजन्यु उवाच:
सर्वेषां कृतवैराणामविश्वासः सुखावहः |
२४ क
पूजन्यु उवाच:
एकान्ततो न विश्वासः कार्यो विश्वासघातकः ||
२४ ख
पूजन्यु उवाच:
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् |
२५ क
पूजन्यु उवाच:
कामं विश्वासय़ेदन्यान्परेषां तु न विश्वसेत् ||
२५ ख
पूजन्यु उवाच:
माता पिता वान्धवानां वरिष्ठौ; भार्या जरा वीजमात्रं तु पुत्रः |
२६ क
पूजन्यु उवाच:
भ्राता शत्रुः क्लिन्नपाणिर्वय़स्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता ||
२६ ख
पूजन्यु उवाच:
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते |
२७ क
पूजन्यु उवाच:
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ||
२७ ख
पूजन्यु उवाच:
पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः |
२८ क
पूजन्यु उवाच:
चेतो भवत्यविश्वस्तं पूर्वं त्रासय़ते वलात् ||
२८ ख
पूजन्यु उवाच:
पूर्वं संमानना यत्र पश्चाच्चैव विमानना |
२९ क
पूजन्यु उवाच:
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः ||
२९ ख
पूजन्यु उवाच:
उषितास्मि तवागारे दीर्घकालमहिंसिता |
३० क
पूजन्यु उवाच:
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् ||
३० ख
व्रह्मदत्त उवाच:
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुय़ात् |
३१ क
व्रह्मदत्त उवाच:
अनृणस्तेन भवति वस पूजनि मा गमः ||
३१ ख
पूजन्यु उवाच:
न कृतस्य न कर्तुश्च सख्यं सन्धीय़ते पुनः |
३२ क
पूजन्यु उवाच:
हृदय़ं तत्र जानाति कर्तुश्चैव कृतस्य च ||
३२ ख
व्रह्मदत्त उवाच:
कृतस्य चैव कर्तुश्च सख्यं सन्धीय़ते पुनः |
३३ क
व्रह्मदत्त उवाच:
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ||
३३ ख
पूजन्यु उवाच:
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् |
३४ क
पूजन्यु उवाच:
विश्वासाद्वध्यते वालस्तस्माच्छ्रेय़ो ह्यदर्शनम् ||
३४ ख
पूजन्यु उवाच:
तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि |
३५ क
पूजन्यु उवाच:
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः ||
३५ ख
व्रह्मदत्त उवाच:
संवासाज्जाय़ते स्नेहो जीवितान्तकरेष्वपि |
३६ क
व्रह्मदत्त उवाच:
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा ||
३६ ख
व्रह्मदत्त उवाच:
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् |
३७ क
व्रह्मदत्त उवाच:
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ||
३७ ख
पूजन्यु उवाच:
वैरं पञ्चसमुत्थानं तच्च वुध्यन्ति पण्डिताः |
३८ क
पूजन्यु उवाच:
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् ||
३८ ख
पूजन्यु उवाच:
तत्र दाता निहन्तव्यः क्षत्रिय़ेण विशेषतः |
३९ क
पूजन्यु उवाच:
प्रकाशं वाप्रकाशं वा वुद्ध्वा देशवलादिकम् ||
३९ ख
पूजन्यु उवाच:
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि |
४० क
पूजन्यु उवाच:
छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ||
४० ख
पूजन्यु उवाच:
न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः |
४१ क
पूजन्यु उवाच:
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे ||
४१ ख
पूजन्यु उवाच:
न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् |
४२ क
पूजन्यु उवाच:
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षय़ात् ||
४२ ख
पूजन्यु उवाच:
सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः |
४३ क
पूजन्यु उवाच:
नैव शान्तिर्न विश्वासः कर्म त्रासय़ते वलात् ||
४३ ख
पूजन्यु उवाच:
नैवापकारे कस्मिंश्चिदहं त्वय़ि तथा भवान् |
४४ क
पूजन्यु उवाच:
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् ||
४४ ख
व्रह्मदत्त उवाच:
कालेन क्रिय़ते कार्यं तथैव विविधाः क्रिय़ाः |
४५ क
व्रह्मदत्त उवाच:
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति ||
४५ ख
व्रह्मदत्त उवाच:
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह |
४६ क
व्रह्मदत्त उवाच:
कार्यते चैव कालेन तन्निमित्तं हि जीवति ||
४६ ख
व्रह्मदत्त उवाच:
वध्यन्ते युगपत्केचिदेकैकस्य न चापरे |
४७ क
व्रह्मदत्त उवाच:
कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् ||
४७ ख
व्रह्मदत्त उवाच:
नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे |
४८ क
व्रह्मदत्त उवाच:
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् ||
४८ ख
व्रह्मदत्त उवाच:
एवं वसेह सस्नेहा यथाकालमहिंसिता |
४९ क
व्रह्मदत्त उवाच:
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि ||
४९ ख