वृहदश्व उवाच:
तस्मिन्नन्तर्हिते नागे प्रय़यौ नैषधो नलः |
१ क
वृहदश्व उवाच:
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ||
१ ख
वृहदश्व उवाच:
स राजानमुपातिष्ठद्वाहुकोऽहमिति व्रुवन् |
२ क
वृहदश्व उवाच:
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ||
२ ख
वृहदश्व उवाच:
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च |
३ क
वृहदश्व उवाच:
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ||
३ ख
वृहदश्व उवाच:
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम् |
४ क
वृहदश्व उवाच:
सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ||
४ ख
ऋतुपर्ण उवाच:
वस वाहुक भद्रं ते सर्वमेतत्करिष्यसि |
५ क
ऋतुपर्ण उवाच:
शीघ्रय़ाने सदा वुद्धिर्धीय़ते मे विशेषतः ||
५ ख
ऋतुपर्ण उवाच:
स त्वमातिष्ठ योगं तं येन शीघ्रा हय़ा मम |
६ क
ऋतुपर्ण उवाच:
भवेय़ुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ||
६ ख
ऋतुपर्ण उवाच:
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेय़जीवलौ |
७ क
ऋतुपर्ण उवाच:
एताभ्यां रंस्यसे सार्धं वस वै मय़ि वाहुक ||
७ ख
वृहदश्व उवाच:
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः |
८ क
वृहदश्व उवाच:
ऋतुपर्णस्य नगरे सहवार्ष्णेय़जीवलः ||
८ ख
वृहदश्व उवाच:
स तत्र निवसन्राजा वैदर्भीमनुचिन्तय़न् |
९ क
वृहदश्व उवाच:
साय़ं साय़ं सदा चेमं श्लोकमेकं जगाद ह ||
९ ख
वृहदश्व उवाच:
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी |
१० क
वृहदश्व उवाच:
स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ||
१० ख
वृहदश्व उवाच:
एवं व्रुवन्तं राजानं निशाय़ां जीवलोऽव्रवीत् |
११ क
वृहदश्व उवाच:
कामेनां शोचसे नित्यं श्रोतुमिच्छामि वाहुक ||
११ ख
वृहदश्व उवाच:
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् |
१२ क
वृहदश्व उवाच:
आसीद्वहुमता नारी तस्या दृढतरं च सः ||
१२ ख
वृहदश्व उवाच:
स वै केनचिदर्थेन तय़ा मन्दो व्ययुज्यत |
१३ क
वृहदश्व उवाच:
विप्रय़ुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ||
१३ ख
वृहदश्व उवाच:
दह्यमानः स शोकेन दिवारात्रमतन्द्रितः |
१४ क
वृहदश्व उवाच:
निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गाय़ति ||
१४ ख
वृहदश्व उवाच:
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किञ्चन |
१५ क
वृहदश्व उवाच:
वसत्यनर्हस्तद्दुःखं भूय़ एवानुसंस्मरन् ||
१५ ख
वृहदश्व उवाच:
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने |
१६ क
वृहदश्व उवाच:
त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ||
१६ ख
वृहदश्व उवाच:
एका वालानभिज्ञा च मार्गाणामतथोचिता |
१७ क
वृहदश्व उवाच:
क्षुत्पिपासापरीता च दुष्करं यदि जीवति ||
१७ ख
वृहदश्व उवाच:
श्वापदाचरिते नित्यं वने महति दारुणे |
१८ क
वृहदश्व उवाच:
त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ||
१८ ख
वृहदश्व उवाच:
इत्येवं नैषधो राजा दमय़न्तीमनुस्मरन् |
१९ क
वृहदश्व उवाच:
अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ||
१९ ख