भीष्म उवाच:
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रिय़म् ||
५० ख
भीष्म उवाच:
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते |
५१ क
भीष्म उवाच:
सामर्थ्ययोगाज्जाय़न्ते मित्राणि रिपवस्तथा ||
५१ ख
भीष्म उवाच:
अमित्रं नैव मुञ्चेत व्रुवन्तं करुणान्यपि |
५२ क
भीष्म उवाच:
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ||
५२ ख
भीष्म उवाच:
सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूय़ता |
५३ क
भीष्म उवाच:
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ||
५३ ख
भीष्म उवाच:
प्रहरिष्यन्प्रिय़ं व्रूय़ात्प्रहृत्यापि प्रिय़ोत्तरम् |
५४ क
भीष्म उवाच:
अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ||
५४ ख
भीष्म उवाच:
निमन्त्रय़ेत सान्त्वेन संमानेन तितिक्षय़ा |
५५ क
भीष्म उवाच:
आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ||
५५ ख
भीष्म उवाच:
न शुष्कवैरं कुर्वीत न वाहुभ्यां नदीं तरेत् |
५६ क
भीष्म उवाच:
अपार्थकमनाय़ुष्यं गोविषाणस्य भक्षणम् |
५६ ख
भीष्म उवाच:
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ||
५६ ग
भीष्म उवाच:
त्रिवर्गे त्रिविधा पीडानुवन्धास्त्रय़ एव च |
५७ क
भीष्म उवाच:
अनुवन्धवधौ ज्ञात्वा पीडां हि परिवर्जय़ेत् ||
५७ ख
भीष्म उवाच:
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च |
५८ क
भीष्म उवाच:
पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ||
५८ ख
भीष्म उवाच:
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः |
५९ क
भीष्म उवाच:
आवहन्त्यनय़ं तीव्रं व्याधय़श्चाप्युपेक्षिताः ||
५९ ख
भीष्म उवाच:
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् |
६० क
भीष्म उवाच:
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ||
६० ख
भीष्म उवाच:
वधेन च मनुष्याणां मार्गाणां दूषणेन च |
६१ क
भीष्म उवाच:
आकराणां विनाशैश्च परराष्ट्रं विनाशय़ेत् ||
६१ ख
भीष्म उवाच:
गृध्रदृष्टिर्वकालीनः श्वचेष्टः सिंहविक्रमः |
६२ क
भीष्म उवाच:
अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् ||
६२ ख
भीष्म उवाच:
श्रेणिमुख्योपजापेषु वल्लभानुनय़ेषु च |
६३ क
भीष्म उवाच:
अमात्यान्परिरक्षेत भेदसङ्घातय़ोरपि ||
६३ ख
भीष्म उवाच:
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च |
६४ क
भीष्म उवाच:
तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ||
६४ ख
भीष्म उवाच:
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् |
६५ क
भीष्म उवाच:
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु ||
६५ ख
भीष्म उवाच:
काले मृदुर्यो भवति काले भवति दारुणः |
६६ क
भीष्म उवाच:
स साधय़ति कृत्यानि शत्रूंश्चैवाधितिष्ठति ||
६६ ख
भीष्म उवाच:
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् |
६७ क
भीष्म उवाच:
दीर्घौ वुद्धिमतो वाहू याभ्यां हिंसति हिंसितः ||
६७ ख
भीष्म उवाच:
न तत्तरेद्यस्य न पारमुत्तरे; न्न तद्धरेद्यत्पुनराहरेत्परः |
६८ क
भीष्म उवाच:
न तत्खनेद्यस्य न मूलमुत्खने; न्न तं हन्याद्यस्य शिरो न पातय़ेत् ||
६८ ख
भीष्म उवाच:
इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत् |
६९ क
भीष्म उवाच:
परप्रय़ुक्तं तु कथं निशामय़े; दतो मय़ोक्तं भवतो हितार्थिना ||
६९ ख
भीष्म उवाच:
यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रिय़ः |
७० क
भीष्म उवाच:
तथाकरोद्वाक्यमदीनचेतनः; श्रिय़ं च दीप्तां वुभुजे सवान्धवः ||
७० ख