वाय़ुरु उवाच:
शृणु मूढ गुणान्कांश्चिद्व्राह्मणानां महात्मनाम् |
१ क
वाय़ुरु उवाच:
ये त्वय़ा कीर्तिता राजंस्तेभ्योऽथ व्राह्मणो वरः ||
१ ख
वाय़ुरु उवाच:
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धय़ाङ्गनृपस्य ह |
२ क
वाय़ुरु उवाच:
नाशं जगाम तां विप्रो व्यष्टम्भय़त कश्यपः ||
२ ख
वाय़ुरु उवाच:
अक्षय़ा व्राह्मणा राजन्दिवि चेह च नित्यदा |
३ क
वाय़ुरु उवाच:
अपिवत्तेजसा ह्यापः स्वय़मेवाङ्गिराः पुरा ||
३ ख
वाय़ुरु उवाच:
स ताः पिवन्क्षीरमिव नातृप्यत महातपाः |
४ क
वाय़ुरु उवाच:
अपूरय़न्महौघेन महीं सर्वां च पार्थिव ||
४ ख
वाय़ुरु उवाच:
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः |
५ क
वाय़ुरु उवाच:
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भय़ात् ||
५ ख
वाय़ुरु उवाच:
अभिशप्तश्च भगवान्गौतमेन पुरन्दरः |
६ क
वाय़ुरु उवाच:
अहल्यां कामय़ानो वै धर्मार्थं च न हिंसितः ||
६ ख
वाय़ुरु उवाच:
तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा |
७ क
वाय़ुरु उवाच:
व्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ||
७ ख
वाय़ुरु उवाच:
सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः |
८ क
वाय़ुरु उवाच:
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ||
८ ख
वाय़ुरु उवाच:
मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् |
९ क
वाय़ुरु उवाच:
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ||
९ ख
वाय़ुरु उवाच:
समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप |
१० क
वाय़ुरु उवाच:
गर्भस्थान्व्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ||
१० ख
वाय़ुरु उवाच:
दण्डकानां महद्राज्यं व्राह्मणेन विनाशितम् |
११ क
वाय़ुरु उवाच:
तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ||
११ ख
वाय़ुरु उवाच:
त्वय़ा च विपुलं राज्यं वलं धर्मः श्रुतं तथा |
१२ क
वाय़ुरु उवाच:
दत्तात्रेय़प्रसादेन प्राप्तं परमदुर्लभम् ||
१२ ख
वाय़ुरु उवाच:
अग्निं त्वं यजसे नित्यं कस्मादर्जुन व्राह्मणम् |
१३ क
वाय़ुरु उवाच:
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ||
१३ ख
वाय़ुरु उवाच:
अथ वा व्राह्मणश्रेष्ठमनु भूतानुपालकम् |
१४ क
वाय़ुरु उवाच:
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ||
१४ ख
वाय़ुरु उवाच:
तथा प्रजापतिर्व्रह्मा अव्यक्तः प्रभवाप्ययः |
१५ क
वाय़ुरु उवाच:
येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ||
१५ ख
वाय़ुरु उवाच:
अण्डजातं तु व्रह्माणं केचिदिच्छन्त्यपण्डिताः |
१६ क
वाय़ुरु उवाच:
अण्डाद्भिन्नाद्वभुः शैला दिशोऽम्भः पृथिवी दिवम् ||
१६ ख
वाय़ुरु उवाच:
द्रष्टव्यं नैतदेवं हि कथं ज्याय़स्तमो हि सः |
१७ क
वाय़ुरु उवाच:
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ||
१७ ख
वाय़ुरु उवाच:
तिष्ठेत्कथमिति व्रूहि न किञ्चिद्धि तदा भवेत् |
१८ क
वाय़ुरु उवाच:
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ||
१८ ख
वाय़ुरु उवाच:
नास्त्यण्डमस्ति तु व्रह्मा स राजँल्लोकभावनः |
१९ क
वाय़ुरु उवाच:
इत्युक्तः स तदा तूष्णीमभूद्वाय़ुस्तमव्रवीत् ||
१९ ख