chevron_left उद्योग पर्व अध्याय १३८
धृतराष्ट्र उवाच:
राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ||
१ ख
धृतराष्ट्र उवाच:
किमव्रवीद्रथोपस्थे राधेय़ं परवीरहा |
२ क
धृतराष्ट्र उवाच:
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रय़ुक्तवान् ||
२ ख
धृतराष्ट्र उवाच:
ओघमेघस्वनः काले यत्कृष्णः कर्णमव्रवीत् |
३ क
धृतराष्ट्र उवाच:
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय़ ||
३ ख
सञ्जय़ उवाच:
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च |
४ क
सञ्जय़ उवाच:
प्रिय़ाणि धर्मय़ुक्तानि सत्यानि च हितानि च ||
४ ख
सञ्जय़ उवाच:
हृदय़ग्रहणीय़ानि राधेय़ं मधुसूदनः |
५ क
सञ्जय़ उवाच:
यान्यव्रवीदमेय़ात्मा तानि मे शृणु भारत ||
५ ख
वासुदेव उवाच:
उपासितास्ते राधेय़ व्राह्मणा वेदपारगाः |
६ क
वासुदेव उवाच:
तत्त्वार्थं परिपृष्टाश्च निय़तेनानसूय़या ||
६ ख
वासुदेव उवाच:
त्वमेव कर्ण जानासि वेदवादान्सनातनान् |
७ क
वासुदेव उवाच:
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ||
७ ख
वासुदेव उवाच:
कानीनश्च सहोढश्च कन्याय़ां यश्च जाय़ते |
८ क
वासुदेव उवाच:
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ||
८ ख
वासुदेव उवाच:
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः |
९ क
वासुदेव उवाच:
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ||
९ ख
वासुदेव उवाच:
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णय़ः |
१० क
वासुदेव उवाच:
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ||
१० ख
वासुदेव उवाच:
मय़ा सार्धमितो यातमद्य त्वां तात पाण्डवाः |
११ क
वासुदेव उवाच:
अभिजानन्तु कौन्तेय़ं पूर्वजातं युधिष्ठिरात् ||
११ ख
वासुदेव उवाच:
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः |
१२ क
वासुदेव उवाच:
द्रौपदेय़ास्तथा पञ्च सौभद्रश्चापराजितः ||
१२ ख
वासुदेव उवाच:
राजानो राजपुत्राश्च पाण्डवार्थे समागताः |
१३ क
वासुदेव उवाच:
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णय़ः ||
१३ ख
वासुदेव उवाच:
हिरण्मय़ांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा |
१४ क
वासुदेव उवाच:
ओषध्यः सर्ववीजानि सर्वरत्नानि वीरुधः ||
१४ ख
वासुदेव उवाच:
राजन्या राजकन्याश्चाप्यानय़न्त्वभिषेचनम् |
१५ क
वासुदेव उवाच:
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ||
१५ ख
वासुदेव उवाच:
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातय़ः |
१६ क
वासुदेव उवाच:
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ||
१६ ख
वासुदेव उवाच:
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः |
१७ क
वासुदेव उवाच:
द्रौपदेय़ास्तथा पञ्च पाञ्चालाश्चेदय़स्तथा ||
१७ ख
वासुदेव उवाच:
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् |
१८ क
वासुदेव उवाच:
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ||
१८ ख
वासुदेव उवाच:
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः |
१९ क
वासुदेव उवाच:
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ||
१९ ख
वासुदेव उवाच:
छत्रं च ते महच्छ्वेतं भीमसेनो महावलः |
२० क
वासुदेव उवाच:
अभिषिक्तस्य कौन्तेय़ कौन्तेय़ो धारय़िष्यति ||
२० ख
वासुदेव उवाच:
किङ्किणीशतनिर्घोषं वैय़ाघ्रपरिवारणम् |
२१ क
वासुदेव उवाच:
रथं श्वेतहय़ैर्युक्तमर्जुनो वाहय़िष्यति ||
२१ ख
वासुदेव उवाच:
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति |
२२ क
वासुदेव उवाच:
नकुलः सहदेवश्च द्रौपदेय़ाश्च पञ्च ये ||
२२ ख
वासुदेव उवाच:
पाञ्चालास्त्वानुय़ास्यन्ति शिखण्डी च महारथः |
२३ क
वासुदेव उवाच:
अहं च त्वानुय़ास्यामि सर्वे चान्धकवृष्णय़ः |
२३ ख
वासुदेव उवाच:
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ||
२३ ग
वासुदेव उवाच:
भुङ्क्ष्व राज्यं महावाहो भ्रातृभिः सह पाण्डवैः |
२४ क
वासुदेव उवाच:
जपैर्होमैश्च संय़ुक्तो मङ्गलैश्च पृथग्विधैः ||
२४ ख
वासुदेव उवाच:
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः |
२५ क
वासुदेव उवाच:
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ||
२५ ख
वासुदेव उवाच:
स्तुवन्तु त्वाद्य वहुशः स्तुतिभिः सूतमागधाः |
२६ क
वासुदेव उवाच:
विजय़ं वसुषेणस्य घोषय़न्तु च पाण्डवाः ||
२६ ख
वासुदेव उवाच:
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः |
२७ क
वासुदेव उवाच:
प्रशाधि राज्यं कौन्तेय़ कुन्तीं च प्रतिनन्दय़ ||
२७ ख
वासुदेव उवाच:
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा |
२८ क
वासुदेव उवाच:
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ||
२८ ख