वैशम्पाय़न उवाच:
सा तु कन्या महाराज व्राह्मणं संशितव्रतम् |
१ क
वैशम्पाय़न उवाच:
तोषय़ामास शुद्धेन मनसा संशितव्रता ||
१ ख
वैशम्पाय़न उवाच:
प्रातराय़ास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः |
२ क
वैशम्पाय़न उवाच:
तत आय़ाति राजेन्द्र साय़े रात्रावथो पुनः ||
२ ख
वैशम्पाय़न उवाच:
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रय़ैः |
३ क
वैशम्पाय़न उवाच:
पूजय़ामास सा कन्या वर्धमानैस्तु सर्वदा ||
३ ख
वैशम्पाय़न उवाच:
अन्नादिसमुदाचारः शय़्यासनकृतस्तथा |
४ क
वैशम्पाय़न उवाच:
दिवसे दिवसे तस्य वर्धते न तु हीय़ते ||
४ ख
वैशम्पाय़न उवाच:
निर्भर्त्सनापवादैश्च तथैवाप्रिय़या गिरा |
५ क
वैशम्पाय़न उवाच:
व्राह्मणस्य पृथा राजन्न चकाराप्रिय़ं तदा ||
५ ख
वैशम्पाय़न उवाच:
व्यस्ते काले पुनश्चैति न चैति वहुशो द्विजः |
६ क
वैशम्पाय़न उवाच:
दुर्लभ्यमपि चैवान्नं दीय़तामिति सोऽव्रवीत् ||
६ ख
वैशम्पाय़न उवाच:
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदय़त् |
७ क
वैशम्पाय़न उवाच:
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंय़ता ||
७ ख
वैशम्पाय़न उवाच:
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा |
८ क
वैशम्पाय़न उवाच:
प्रीतिमुत्पादय़ामास कन्या यत्नैरनिन्दिता ||
८ ख
वैशम्पाय़न उवाच:
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः |
९ क
वैशम्पाय़न उवाच:
अवधानेन भूय़ोऽस्य परं यत्नमथाकरोत् ||
९ ख
वैशम्पाय़न उवाच:
तां प्रभाते च साय़े च पिता पप्रच्छ भारत |
१० क
वैशम्पाय़न उवाच:
अपि तुष्यति ते पुत्रि व्राह्मणः परिचर्यया ||
१० ख
वैशम्पाय़न उवाच:
तं सा परममित्येव प्रत्युवाच यशस्विनी |
११ क
वैशम्पाय़न उवाच:
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ||
११ ख
वैशम्पाय़न उवाच:
ततः संवत्सरे पूर्णे यदासौ जपतां वरः |
१२ क
वैशम्पाय़न उवाच:
नापश्यद्दुष्कृतं किञ्चित्पृथाय़ाः सौहृदे रतः ||
१२ ख
वैशम्पाय़न उवाच:
ततः प्रीतमना भूत्वा स एनां व्राह्मणोऽव्रवीत् |
१३ क
वैशम्पाय़न उवाच:
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ||
१३ ख
वैशम्पाय़न उवाच:
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह |
१४ क
वैशम्पाय़न उवाच:
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ||
१४ ख
कुन्त्यु उवाच:
कृतानि मम सर्वाणि यस्या मे वेदवित्तम |
१५ क
कुन्त्यु उवाच:
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ||
१५ ख
व्राह्मण उवाच:
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते |
१६ क
व्राह्मण उवाच:
इमं मन्त्रं गृहाण त्वमाह्वानाय़ दिवौकसाम् ||
१६ ख
व्राह्मण उवाच:
यं यं देवं त्वमेतेन मन्त्रेणावाहय़िष्यसि |
१७ क
व्राह्मण उवाच:
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ||
१७ ख
व्राह्मण उवाच:
अकामो वा सकामो वा न स नैष्यति ते वशम् |
१८ क
व्राह्मण उवाच:
विवुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ||
१८ ख
वैशम्पाय़न उवाच:
न शशाक द्वितीय़ं सा प्रत्याख्यातुमनिन्दिता |
१९ क
वैशम्पाय़न उवाच:
तं वै द्विजातिप्रवरं तदा शापभय़ान्नृप ||
१९ ख
वैशम्पाय़न उवाच:
ततस्तामनवद्याङ्गीं ग्राहय़ामास वै द्विजः |
२० क
वैशम्पाय़न उवाच:
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ||
२० ख
वैशम्पाय़न उवाच:
तं प्रदाय़ तु राजेन्द्र कुन्तिभोजमुवाच ह |
२१ क
वैशम्पाय़न उवाच:
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ||
२१ ख
वैशम्पाय़न उवाच:
तव गेहे सुविहितः सदा सुप्रतिपूजितः |
२२ क
वैशम्पाय़न उवाच:
साधय़िष्यामहे तावदित्युक्त्वान्तरधीय़त ||
२२ ख
वैशम्पाय़न उवाच:
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा |
२३ क
वैशम्पाय़न उवाच:
वभूव विस्मय़ाविष्टः पृथां च समपूजय़त् ||
२३ ख