भीष्म उवाच:
अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः |
५१ क
भीष्म उवाच:
यथा स सर्वभुग्व्रह्मा तथा मां विद्धि धर्मतः ||
५१ ख
भीष्म उवाच:
तमुवाच स चण्डालो महर्षे शृणु मे वचः |
५२ क
भीष्म उवाच:
श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीय़से ||
५२ ख
भीष्म उवाच:
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः |
५३ क
भीष्म उवाच:
तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ||
५३ ख
भीष्म उवाच:
नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् |
५४ क
भीष्म उवाच:
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ||
५४ ख
भीष्म उवाच:
साध्वन्यमनुपश्य त्वमुपाय़ं प्राणधारणे |
५५ क
भीष्म उवाच:
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ||
५५ ख
भीष्म उवाच:
जानतोऽविहितो मार्गो न कार्यो धर्मसङ्करः |
५६ क
भीष्म उवाच:
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ||
५६ ख
भीष्म उवाच:
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ |
५७ क
भीष्म उवाच:
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ||
५७ ख
भीष्म उवाच:
निराहारस्य सुमहान्मम कालोऽभिधावतः |
५८ क
भीष्म उवाच:
न विद्यतेऽभ्युपाय़श्च कश्चिन्मे प्राणधारणे ||
५८ ख
भीष्म उवाच:
येन तेन विशेषेण कर्मणा येन केनचित् |
५९ क
भीष्म उवाच:
अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ||
५९ ख
भीष्म उवाच:
ऐन्द्रो धर्मः क्षत्रिय़ाणां व्राह्मणानामथाग्निकः |
६० क
भीष्म उवाच:
व्रह्मवह्निर्मम वलं भक्ष्यामि समय़ं क्षुधा ||
६० ख
भीष्म उवाच:
यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडय़ा |
६१ क
भीष्म उवाच:
जीवितं मरणाच्छ्रेय़ो जीवन्धर्ममवाप्नुय़ात् ||
६१ ख
भीष्म उवाच:
सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् |
६२ क
भीष्म उवाच:
व्यवस्ये वुद्धिपूर्वं वै तद्भवाननुमन्यताम् ||
६२ ख
भीष्म उवाच:
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च |
६३ क
भीष्म उवाच:
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ||
६३ ख
श्वपच उवाच:
नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नाय़ुर्दीर्घं नामृतस्येव तृप्तिम् |
६४ क
श्वपच उवाच:
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ||
६४ ख
विश्वामित्र उवाच:
न दुर्भिक्षे सुलभं मांसमन्य; च्छ्वपाक नान्नं न च मेऽस्ति वित्तम् |
६५ क
विश्वामित्र उवाच:
क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ||
६५ ख
श्वपच उवाच:
पञ्च पञ्चनखा भक्ष्या व्रह्मक्षत्रस्य वै द्विज |
६६ क
श्वपच उवाच:
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ||
६६ ख
विश्वामित्र उवाच:
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै |
६७ क
विश्वामित्र उवाच:
अहमापद्गतः क्षुव्धो भक्षय़िष्ये श्वजाघनीम् ||
६७ ख
श्वपच उवाच:
भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि |
६८ क
श्वपच उवाच:
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ||
६८ ख
विश्वामित्र उवाच:
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तय़े |
६९ क
विश्वामित्र उवाच:
परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ||
६९ ख
श्वपच उवाच:
असता यत्समाचीर्णं न स धर्मः सनातनः |
७० क
श्वपच उवाच:
नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ||
७० ख
विश्वामित्र उवाच:
न पातकं नावमतमृषिः सन्कर्तुमर्हसि |
७१ क
विश्वामित्र उवाच:
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ||
७१ ख
श्वपच उवाच:
यद्व्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम् |
७२ क
श्वपच उवाच:
स वै धर्मो यत्र न पापमस्ति; सर्वैरुपाय़ैर्हि स रक्षितव्यः ||
७२ ख
विश्वामित्र उवाच:
मित्रं च मे व्राह्मणश्चाय़मात्मा; प्रिय़श्च मे पूज्यतमश्च लोके |
७३ क
विश्वामित्र उवाच:
तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न विभ्ये ||
७३ ख
श्वपच उवाच:
कामं नरा जीवितं सन्त्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र |
७४ क
श्वपच उवाच:
सर्वान्कामान्प्राप्नुवन्तीह विद्व; न्प्रिय़स्व कामं सहितः क्षुधा वै ||
७४ ख
विश्वामित्र उवाच:
स्थाने तावत्संशय़ः प्रेत्यभावे; निःसंशय़ं कर्मणां वा विनाशः |
७५ क
विश्वामित्र उवाच:
अहं पुनर्वर्त इत्याशय़ात्मा; मूलं रक्षन्भक्षय़िष्याम्यभक्ष्यम् ||
७५ ख
विश्वामित्र उवाच:
वुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः |
७६ क
विश्वामित्र उवाच:
यद्यप्येनः संशय़ादाचरामि; नाहं भविष्यामि यथा त्वमेव ||
७६ ख
श्वपच उवाच:
पतनीय़मिदं दुःखमिति मे वर्तते मतिः |
७७ क
श्वपच उवाच:
दुष्कृती व्राह्मणं सन्तं यस्त्वामहमुपालभे ||
७७ ख
विश्वामित्र उवाच:
पिवन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि |
७८ क
विश्वामित्र उवाच:
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ||
७८ ख
श्वपच उवाच:
सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वय़ि मे द्विज |
७९ क
श्वपच उवाच:
तदेवं श्रेय़ आधत्स्व मा लोभाच्छ्वानमादिथाः ||
७९ ख
विश्वामित्र उवाच:
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर |
८० क
विश्वामित्र उवाच:
जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ||
८० ख
श्वपच उवाच:
नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रिय़माणं स्वमन्नम् |
८१ क
श्वपच उवाच:
उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन् ||
८१ ख
विश्वामित्र उवाच:
अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम् |
८२ क
विश्वामित्र उवाच:
प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतय़ोर्गुरु तद्वै व्रवीहि ||
८२ ख
श्वपच उवाच:
आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम् |
८३ क
श्वपच उवाच:
यो ह्याद्रिय़ेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीय़म् ||
८३ ख
विश्वामित्र उवाच:
उपादाने खादने वास्य दोषः; कार्यो न्याय़ैर्नित्यमत्रापवादः |
८४ क
विश्वामित्र उवाच:
यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिय़ा तत्र न तद्गरीय़ः ||
८४ ख
श्वपच उवाच:
यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः |
८५ क
श्वपच उवाच:
तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ ||
८५ ख
विश्वामित्र उवाच:
न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शव्दः |
८६ क
विश्वामित्र उवाच:
अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति ||
८६ ख
श्वपच उवाच:
अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं वाधते साधुवृत्तम् |
८७ क
श्वपच उवाच:
स्थानं पुनर्यो लभते निषङ्गा; त्तेनापि दण्डः सहितव्य एव ||
८७ ख
भीष्म उवाच:
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा |
८८ क
भीष्म उवाच:
विश्वामित्रो जहारैव कृतवुद्धिः श्वजाघनीम् ||
८८ ख
भीष्म उवाच:
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः |
८९ क
भीष्म उवाच:
सदारस्तामुपाकृत्य वने यातो महामुनिः ||
८९ ख
भीष्म उवाच:
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः |
९० क
भीष्म उवाच:
सञ्जीवय़न्प्रजाः सर्वा जनय़ामास चौषधीः ||
९० ख
भीष्म उवाच:
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्विषः |
९१ क
भीष्म उवाच:
कालेन महता सिद्धिमवाप परमाद्भुताम् ||
९१ ख
भीष्म उवाच:
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः |
९२ क
भीष्म उवाच:
सर्वोपाय़ैरुपाय़ज्ञो दीनमात्मानमुद्धरेत् ||
९२ ख
भीष्म उवाच:
एतां वुद्धिं समास्थाय़ जीवितव्यं सदा भवेत् |
९३ क
भीष्म उवाच:
जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ||
९३ ख
भीष्म उवाच:
तस्मात्कौन्तेय़ विदुषा धर्माधर्मविनिश्चय़े |
९४ क
भीष्म उवाच:
वुद्धिमास्थाय़ लोकेऽस्मिन्वर्तितव्यं यतात्मना ||
९४ ख