वाय़ुरु उवाच:
इमां भूमिं व्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा |
१ क
वाय़ुरु उवाच:
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही यय़ौ ||
१ ख
वाय़ुरु उवाच:
धारणीं सर्वभूतानामय़ं प्राप्य वरो नृपः |
२ क
वाय़ुरु उवाच:
कथमिच्छति मां दातुं द्विजेभ्यो व्रह्मणः सुताम् ||
२ ख
वाय़ुरु उवाच:
साहं त्यक्त्वा गमिष्यामि भूमित्वं व्रह्मणः पदम् |
३ क
वाय़ुरु उवाच:
अय़ं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ||
३ ख
वाय़ुरु उवाच:
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा |
४ क
वाय़ुरु उवाच:
प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ||
४ ख
वाय़ुरु उवाच:
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता |
५ क
वाय़ुरु उवाच:
धर्मोत्तरा नष्टभय़ा भूमिरासीत्ततो नृप ||
५ ख
वाय़ुरु उवाच:
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः |
६ क
वाय़ुरु उवाच:
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ||
६ ख
वाय़ुरु उवाच:
अथागम्य महाराज नमस्कृत्य च कश्यपम् |
७ क
वाय़ुरु उवाच:
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ||
७ ख
वाय़ुरु उवाच:
एष राजन्नीदृशो वै व्राह्मणः कश्यपोऽभवत् |
८ क
वाय़ुरु उवाच:
अन्यं प्रव्रूहि वापि त्वं कश्यपात्क्षत्रिय़ं वरम् ||
८ ख
वाय़ुरु उवाच:
तूष्णीं वभूव नृपतिः पवनस्त्वव्रवीत्पुनः |
९ क
वाय़ुरु उवाच:
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ||
९ ख
वाय़ुरु उवाच:
भद्रा सोमस्य दुहिता रूपेण परमा मता |
१० क
वाय़ुरु उवाच:
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ||
१० ख
वाय़ुरु उवाच:
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी |
११ क
वाय़ुरु उवाच:
उतथ्यं तु महाभागं तत्कृतेऽवरय़त्तदा ||
११ ख
वाय़ुरु उवाच:
तत आहूय़ सोतथ्यं ददावत्र यशस्विनीम् |
१२ क
वाय़ुरु उवाच:
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ||
१२ ख
वाय़ुरु उवाच:
तां त्वकामय़त श्रीमान्वरुणः पूर्वमेव ह |
१३ क
वाय़ुरु उवाच:
स चागम्य वनप्रस्थं यमुनाय़ां जहार ताम् ||
१३ ख
वाय़ुरु उवाच:
जलेश्वरस्तु हृत्वा तामनय़त्स्वपुरं प्रति |
१४ क
वाय़ुरु उवाच:
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ||
१४ ख
वाय़ुरु उवाच:
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् |
१५ क
वाय़ुरु उवाच:
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् |
१५ ख
वाय़ुरु उवाच:
तत्र देवस्तय़ा सार्धं रेमे राजञ्जलेश्वरः ||
१५ ग
वाय़ुरु उवाच:
अथाख्यातमुतथ्याय़ ततः पत्न्यवमर्दनम् |
१७ क
वाय़ुरु उवाच:
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा |
१७ ख
वाय़ुरु उवाच:
प्रोवाच गच्छ व्रूहि त्वं वरुणं परुषं वचः |
१७ ग
वाय़ुरु उवाच:
मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ||
१७ घ
वाय़ुरु उवाच:
लोकपालोऽसि लोकानां न लोकस्य विलोपकः |
१८ क
वाय़ुरु उवाच:
सोमेन दत्ता भार्या मे त्वय़ा चापहृताद्य वै ||
१८ ख
वाय़ुरु उवाच:
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः |
१९ क
वाय़ुरु उवाच:
मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽव्रवीत् |
१९ ख
वाय़ुरु उवाच:
ममैषा सुप्रिय़ा भार्या नैनामुत्स्रष्टुमुत्सहे ||
१९ ग
वाय़ुरु उवाच:
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् |
२० क
वाय़ुरु उवाच:
उतथ्यमव्रवीद्वाक्यं नातिहृष्टमना इव ||
२० ख
वाय़ुरु उवाच:
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने |
२१ क
वाय़ुरु उवाच:
न प्रय़च्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ||
२१ ख
वाय़ुरु उवाच:
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः |
२२ क
वाय़ुरु उवाच:
अपिवत्तेजसा वारि विष्टभ्य सुमहातपाः ||
२२ ख
वाय़ुरु उवाच:
पीय़माने च सर्वस्मिंस्तोय़े वै सलिलेश्वरः |
२३ क
वाय़ुरु उवाच:
सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ||
२३ ख
वाय़ुरु उवाच:
ततः क्रुद्धोऽव्रवीद्भूमिमुतथ्यो व्राह्मणोत्तमः |
२४ क
वाय़ुरु उवाच:
दर्शय़स्व स्थलं भद्रे षट्सहस्रशतह्रदम् ||
२४ ख
वाय़ुरु उवाच:
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः |
२५ क
वाय़ुरु उवाच:
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ||
२५ ख
वाय़ुरु उवाच:
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति |
२६ क
वाय़ुरु उवाच:
अपुण्य एष भवतु देशस्त्यक्तस्त्वय़ा शुभे ||
२६ ख
वाय़ुरु उवाच:
तस्मिन्सञ्चूर्णिते देशे भद्रामादाय़ वारिपः |
२७ क
वाय़ुरु उवाच:
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय़ वै ||
२७ ख
वाय़ुरु उवाच:
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् |
२८ क
वाय़ुरु उवाच:
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय़ ||
२८ ख
वाय़ुरु उवाच:
ततः स लव्ध्वा तां भार्यां वरुणं प्राह धर्मवित् |
२९ क
वाय़ुरु उवाच:
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ||
२९ ख
वाय़ुरु उवाच:
मय़ैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप |
३० क
वाय़ुरु उवाच:
इत्युक्त्वा तामुपादाय़ स्वमेव भवनं यय़ौ ||
३० ख
वाय़ुरु उवाच:
एष राजन्नीदृशो वै उतथ्यो व्राह्मणर्षभः |
३१ क
वाय़ुरु उवाच:
व्रवीम्यहं व्रूहि वा त्वमुतथ्यात्क्षत्रिय़ं वरम् ||
३१ ख