सञ्जय़ उवाच:
प्रकाशिते तथा लोके रजसा च तमोवृते |
१ क
सञ्जय़ उवाच:
समाजग्मुरथो वीराः परस्परवधैषिणः ||
१ ख
सञ्जय़ उवाच:
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः |
२ क
सञ्जय़ उवाच:
परस्परमुदैक्षन्त परस्परकृतागसः ||
२ ख
सञ्जय़ उवाच:
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः |
३ क
सञ्जय़ उवाच:
विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ||
३ ख
सञ्जय़ उवाच:
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत |
४ क
सञ्जय़ उवाच:
दह्यमानेव लोकानामभावे वै वसुन्धरा ||
४ ख
सञ्जय़ उवाच:
प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः |
५ क
सञ्जय़ उवाच:
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवावभुः ||
५ ख
सञ्जय़ उवाच:
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् |
६ क
सञ्जय़ उवाच:
नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः ||
६ ख
सञ्जय़ उवाच:
रथा रथवरैरेव समाजग्मुर्मुदान्विताः |
७ क
सञ्जय़ उवाच:
तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ||
७ ख
सञ्जय़ उवाच:
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् |
८ क
सञ्जय़ उवाच:
व्यधमत्त्वरय़ा युक्तः क्षपय़न्सर्वपार्थिवान् ||
८ ख
धृतराष्ट्र उवाच:
तस्मिन्प्रविष्टे संरव्धे मम पुत्रस्य वाहिनीम् |
९ क
धृतराष्ट्र उवाच:
अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ||
९ ख
धृतराष्ट्र उवाच:
किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने |
१० क
धृतराष्ट्र उवाच:
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ||
१० ख
धृतराष्ट्र उवाच:
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमम् |
११ क
धृतराष्ट्र उवाच:
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ||
११ ख
धृतराष्ट्र उवाच:
के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः |
१२ क
धृतराष्ट्र उवाच:
के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ||
१२ ख
धृतराष्ट्र उवाच:
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः |
१३ क
धृतराष्ट्र उवाच:
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ||
१३ ख
धृतराष्ट्र उवाच:
ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् |
१४ क
धृतराष्ट्र उवाच:
धूमकेतुरिव क्रुद्धः स कथं मृत्युमीय़िवान् ||
१४ ख
धृतराष्ट्र उवाच:
अव्यग्रानेव हि परान्कथय़स्यपराजितान् |
१५ क
धृतराष्ट्र उवाच:
हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि |
१५ ख
धृतराष्ट्र उवाच:
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ||
१५ ग
सञ्जय़ उवाच:
द्रोणस्य मतमाज्ञाय़ योद्धुकामस्य तां निशाम् |
१६ क
सञ्जय़ उवाच:
दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ||
१६ ख
सञ्जय़ उवाच:
विकर्णं चित्रसेनं च महावाहुं च कौरवम् |
१७ क
सञ्जय़ उवाच:
दुर्धर्षं दीर्घवाहुं च ये च तेषां पदानुगाः ||
१७ ख
सञ्जय़ उवाच:
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः |
१८ क
सञ्जय़ उवाच:
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ||
१८ ख
सञ्जय़ उवाच:
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः |
१९ क
सञ्जय़ उवाच:
तांश्चैव सर्वान्पुत्रस्ते समचोदय़दग्रतः ||
१९ ख
सञ्जय़ उवाच:
आचार्यो हि सुसंय़त्तो भृशं यत्ताश्च पाण्डवाः |
२० क
सञ्जय़ उवाच:
तं रक्षत सुसंय़त्ता निघ्नन्तं शात्रवान्रणे ||
२० ख
सञ्जय़ उवाच:
द्रोणो हि वलवान्युद्धे क्षिप्रहस्तः पराक्रमी |
२१ क
सञ्जय़ उवाच:
निर्जय़ेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ||
२१ ख
सञ्जय़ उवाच:
ते यूय़ं सहिताः सर्वे भृशं यत्ता महारथाः |
२२ क
सञ्जय़ उवाच:
द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ||
२२ ख
सञ्जय़ उवाच:
पाण्डवेय़ेषु सैन्येषु योधं पश्याम्यहं न तम् |
२३ क
सञ्जय़ उवाच:
यो जय़ेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ||
२३ ख
सञ्जय़ उवाच:
तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् |
२४ क
सञ्जय़ उवाच:
स गुप्तः सोमकान्हन्यात्सृञ्जय़ांश्च सराजकान् ||
२४ ख
सञ्जय़ उवाच:
सृञ्जय़ेष्वथ सर्वेषु निहतेषु चमूमुखे |
२५ क
सञ्जय़ उवाच:
धृष्टद्युम्नं रणे द्रौणिर्नाशय़िष्यत्यसंशय़म् ||
२५ ख
सञ्जय़ उवाच:
तथार्जुनं रणे कर्णो विजेष्यति महारथः |
२६ क
सञ्जय़ उवाच:
भीमसेनमहं चापि युद्धे जेष्यामि दंशितः ||
२६ ख
सञ्जय़ उवाच:
सोऽय़ं मम जय़ो व्यक्तं दीर्घकालं भविष्यति |
२७ क
सञ्जय़ उवाच:
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथाः ||
२७ ख
सञ्जय़ उवाच:
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव |
२८ क
सञ्जय़ उवाच:
व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ||
२८ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ |
२९ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्घोरं विजय़ं प्रति काङ्क्षिणोः ||
२९ ख
सञ्जय़ उवाच:
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः |
३० क
सञ्जय़ उवाच:
नानाशस्त्रसमावापैरन्योन्यं पर्यपीडय़न् ||
३० ख
सञ्जय़ उवाच:
द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जय़ान् |
३१ क
सञ्जय़ उवाच:
छादय़ामासतुः सङ्ख्ये शरैः संनतपर्वभिः ||
३१ ख
सञ्जय़ उवाच:
पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष |
३२ क
सञ्जय़ उवाच:
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ||
३२ ख
सञ्जय़ उवाच:
नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् |
३३ क
सञ्जय़ उवाच:
युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभय़म् ||
३३ ख