chevron_left अनुशासन पर्व अध्याय १४
युधिष्ठिर उवाच:
पितामहेशाय़ विभो नामान्याचक्ष्व शम्भवे |
१ क
युधिष्ठिर उवाच:
वभ्रवे विश्वमाय़ाय़ महाभाग्यं च तत्त्वतः ||
१ ख
भीष्म उवाच:
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि |
२ क
भीष्म उवाच:
शिवाय़ विश्वरूपाय़ यन्मां पृच्छद्युधिष्ठिरः ||
२ ख
भीष्म उवाच:
नाम्नां सहस्रं देवस्य तण्डिना व्रह्मय़ोनिना |
३ क
भीष्म उवाच:
निवेदितं व्रह्मलोके व्रह्मणो यत्पुराभवत् ||
३ ख
भीष्म उवाच:
द्वैपाय़नप्रभृतय़स्तथैवेमे तपोधनाः |
४ क
भीष्म उवाच:
ऋषय़ः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ||
४ ख
भीष्म उवाच:
ध्रुवाय़ नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नय़े |
५ क
भीष्म उवाच:
महाभाग्यं विभो व्रूहि मुण्डिनेऽथ कपर्दिने ||
५ ख
वासुदेव उवाच:
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः |
७ क
वासुदेव उवाच:
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षय़ः |
७ ख
वासुदेव उवाच:
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः |
७ ग
वासुदेव उवाच:
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ||
७ घ
वासुदेव उवाच:
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् |
८ क
वासुदेव उवाच:
भवतां कीर्तय़िष्यामि व्रतेशाय़ यथातथम् ||
८ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः |
९ क
वैशम्पाय़न उवाच:
उपस्पृश्य शुचिर्भूत्वा कथय़ामास धीमतः ||
९ ख
वासुदेव उवाच:
शुश्रूषध्वं व्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर |
१० क
वासुदेव उवाच:
त्वं चापगेय़ नामानि निशामय़ जगत्पतेः ||
१० ख
वासुदेव उवाच:
यदवाप्तं च मे पूर्वं साम्वहेतोः सुदुष्करम् |
११ क
वासुदेव उवाच:
यथा च भगवान्दृष्टो मय़ा पूर्वं समाधिना ||
११ ख
वासुदेव उवाच:
शम्वरे निहते पूर्वं रौक्मिणेय़ेन धीमता |
१२ क
वासुदेव उवाच:
अतीते द्वादशे वर्षे जाम्ववत्यव्रवीद्धि माम् ||
१२ ख
वासुदेव उवाच:
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् |
१३ क
वासुदेव उवाच:
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ||
१३ ख
वासुदेव उवाच:
शूरं वलवतां श्रेष्ठं कान्तरूपमकल्मषम् |
१४ क
वासुदेव उवाच:
आत्मतुल्यं मम सुतं प्रय़च्छाच्युत माचिरम् ||
१४ ख
वासुदेव उवाच:
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन |
१५ क
वासुदेव उवाच:
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ||
१५ ख
वासुदेव उवाच:
त्वय़ा द्वादश वर्षाणि वाय़ुभूतेन शुष्यता |
१६ क
वासुदेव उवाच:
आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ||
१६ ख
वासुदेव उवाच:
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः |
१७ क
वासुदेव उवाच:
चारुश्रवाश्चारुय़शाः प्रद्युम्नः शम्भुरेव च ||
१७ ख
वासुदेव उवाच:
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः |
१८ क
वासुदेव उवाच:
तथा ममापि तनय़ं प्रय़च्छ वलशालिनम् ||
१८ ख
वासुदेव उवाच:
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् |
१९ क
वासुदेव उवाच:
अनुजानीहि मां राज्ञि करिष्ये वचनं तव |
१९ ख
वासुदेव उवाच:
सा च मामव्रवीद्गच्छ विजय़ाय़ शिवाय़ च ||
१९ ग
वासुदेव उवाच:
व्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः |
२० क
वासुदेव उवाच:
क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ||
२० ख
वासुदेव उवाच:
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः |
२१ क
वासुदेव उवाच:
देवपत्न्यो देवकन्या देवमातर एव च ||
२१ ख
वासुदेव उवाच:
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः |
२२ क
वासुदेव उवाच:
सावित्री व्रह्मविद्या च ऋतवो वत्सराः क्षपाः ||
२२ ख
वासुदेव उवाच:
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः |
२३ क
वासुदेव उवाच:
रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् |
२३ ख
वासुदेव उवाच:
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ||
२३ ग
वासुदेव उवाच:
एवं कृतस्वस्त्ययनस्तय़ाहं; तामभ्यनुज्ञाय़ कपीन्द्रपुत्रीम् |
२४ क
वासुदेव उवाच:
पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य ||
२४ ख
वासुदेव उवाच:
तमर्थमावेद्य यदव्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता |
२५ क
वासुदेव उवाच:
तानभ्यनुज्ञाय़ तदातिदुःखा; द्गदं तथैवातिवलं च रामम् ||
२५ ख
वासुदेव उवाच:
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तय़म् |
२६ क
वासुदेव उवाच:
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जय़म् ||
२६ ख
वासुदेव उवाच:
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे |
२७ क
वासुदेव उवाच:
क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ||
२७ ख
वासुदेव उवाच:
दिव्यं वैय़ाघ्रपद्यस्य उपमन्योर्महात्मनः |
२८ क
वासुदेव उवाच:
पूजितं देवगन्धर्वैर्व्राह्म्या लक्ष्म्या समन्वितम् ||
२८ ख
वासुदेव उवाच:
धवककुभकदम्वनारिकेलैः; कुरवककेतकजम्वुपाटलाभिः |
२९ क
वासुदेव उवाच:
वटवरुणकवत्सनाभविल्वैः; सरलकपित्थप्रिय़ालसालतालैः ||
२९ ख
वासुदेव उवाच:
वदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः |
३० क
वासुदेव उवाच:
भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ||
३० ख
वासुदेव उवाच:
वन्यैर्वहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् |
३१ क
वासुदेव उवाच:
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ||
३१ ख
वासुदेव उवाच:
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् |
३२ क
वासुदेव उवाच:
यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ||
३२ ख
वासुदेव उवाच:
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् |
३३ क
वासुदेव उवाच:
कुरङ्गवर्हिणाकीर्णं मार्जारभुजगावृतम् |
३३ ख
वासुदेव उवाच:
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ||
३३ ग
वासुदेव उवाच:
नानापुष्परजोमिश्रो गजदानाधिवासितः |
३४ क
वासुदेव उवाच:
दिव्यस्त्रीगीतवहुलो मारुतोऽत्र सुखो ववौ ||
३४ ख
वासुदेव उवाच:
धारानिनादैर्विहगप्रणादैः; शुभैस्तथा वृंहितैः कुञ्जराणाम् |
३५ क
वासुदेव उवाच:
गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर ||
३५ ख
वासुदेव उवाच:
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम् |
३६ क
वासुदेव उवाच:
विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ||
३६ ख
वासुदेव उवाच:
विभूषितं पुण्यपवित्रतोय़या; सदा च जुष्टं नृप जह्नुकन्यया |
३७ क
वासुदेव उवाच:
महात्मभिर्धर्मभृतां वरिष्ठै; र्महर्षिभिर्भूषितमग्निकल्पैः ||
३७ ख
वासुदेव उवाच:
वाय़्वाहारैरम्वुपैर्जप्यनित्यैः; सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः |
३८ क
वासुदेव उवाच:
धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं व्राह्मणेन्द्रैः समन्तात् ||
३८ ख
वासुदेव उवाच:
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा |
३९ क
वासुदेव उवाच:
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ||
३९ ख
वासुदेव उवाच:
सुदुःखान्निय़मांस्तांस्तान्वहतः सुतपोन्वितान् |
४० क
वासुदेव उवाच:
पश्यन्नुत्फुल्लनय़नः प्रवेष्टुमुपचक्रमे ||
४० ख
वासुदेव उवाच:
सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः |
४१ क
वासुदेव उवाच:
रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा ||
४१ ख
वासुदेव उवाच:
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् |
४२ क
वासुदेव उवाच:
प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ||
४२ ख
वासुदेव उवाच:
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे |
४३ क
वासुदेव उवाच:
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ||
४३ ख
वासुदेव उवाच:
नानानिय़मविख्यातैरृषिभिश्च महात्मभिः |
४४ क
वासुदेव उवाच:
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ||
४४ ख
वासुदेव उवाच:
तेजसा तपसा चैव दीप्यमानं यथानलम् |
४५ क
वासुदेव उवाच:
शिष्यमध्यगतं शान्तं युवानं व्राह्मणर्षभम् |
४५ ख
वासुदेव उवाच:
शिरसा वन्दमानं मामुपमन्युरभाषत ||
४५ ग
वासुदेव उवाच:
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः |
४६ क
वासुदेव उवाच:
यत्पूज्यः पूजय़सि नो द्रष्टव्यो द्रष्टुमिच्छसि ||
४६ ख
वासुदेव उवाच:
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु |
४७ क
वासुदेव उवाच:
धर्मे च शिष्यवर्गे च समपृच्छमनामय़म् ||
४७ ख
वासुदेव उवाच:
ततो मां भगवानाह साम्ना परमवल्गुना |
४८ क
वासुदेव उवाच:
लप्स्यसे तनय़ं कृष्ण आत्मतुल्यमसंशय़म् ||
४८ ख