chevron_left कर्ण पर्व अध्याय १४
सञ्जय़ उवाच:
प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्वहून् |
१ क
सञ्जय़ उवाच:
वक्रानुवक्रगमनादङ्गारक इव ग्रहः ||
१ ख
सञ्जय़ उवाच:
पार्थवाणहता राजन्नराश्वरथकुञ्जराः |
२ क
सञ्जय़ उवाच:
विचेलुर्वभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ||
२ ख
सञ्जय़ उवाच:
धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन् |
३ क
सञ्जय़ उवाच:
पाणीन्पाणिगतं शस्त्रं वाहूनपि शिरांसि च ||
३ ख
सञ्जय़ उवाच:
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः |
४ क
सञ्जय़ उवाच:
चिच्छेदामित्रवीराणां समरे प्रतिय़ुध्यताम् ||
४ ख
सञ्जय़ उवाच:
वाशितार्थे युय़ुत्सन्तो वृषभा वृषभं यथा |
५ क
सञ्जय़ उवाच:
आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ||
५ ख
सञ्जय़ उवाच:
तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् |
६ क
सञ्जय़ उवाच:
त्रैलोक्यविजय़े यादृग्दैत्यानां सह वज्रिणा ||
६ ख
सञ्जय़ उवाच:
तमविध्यत्त्रिभिर्वाणैर्दन्दशूकैरिवाहिभिः |
७ क
सञ्जय़ उवाच:
उग्राय़ुधस्ततस्तस्य शिरः काय़ादपाहरत् ||
७ ख
सञ्जय़ उवाच:
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् |
८ क
सञ्जय़ उवाच:
मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ||
८ ख
सञ्जय़ उवाच:
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |
९ क
सञ्जय़ उवाच:
सम्यगस्तैः शरैः सर्वान्सहितानहनद्वहून् ||
९ ख
सञ्जय़ उवाच:
छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् |
१० क
सञ्जय़ उवाच:
सञ्छिन्नरश्मिय़ोक्त्राक्षान्व्यनुकर्षय़ुगान्रथान् |
१० ख
सञ्जय़ उवाच:
विध्वस्तसर्वसंनाहान्वाणैश्चक्रेऽर्जुनस्त्वरन् ||
१० ग
सञ्जय़ उवाच:
ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः |
११ क
सञ्जय़ उवाच:
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्वुभिः ||
११ ख
सञ्जय़ उवाच:
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः |
१२ क
सञ्जय़ उवाच:
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ||
१२ ख
सञ्जय़ उवाच:
सारोहास्तुरगाः पेतुर्वहवोऽर्जुनताडिताः |
१३ क
सञ्जय़ उवाच:
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ||
१३ ख
सञ्जय़ उवाच:
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना |
१४ क
सञ्जय़ उवाच:
वभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ||
१४ ख
सञ्जय़ उवाच:
अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः |
१५ क
सञ्जय़ उवाच:
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ||
१५ ख
सञ्जय़ उवाच:
महार्हवर्माभरणा नानारूपाम्वराय़ुधाः |
१६ क
सञ्जय़ उवाच:
सरथाः सध्वजा वीरा हताः पार्थेन शेरते ||
१६ ख
सञ्जय़ उवाच:
विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः |
१७ क
सञ्जय़ उवाच:
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ||
१७ ख
सञ्जय़ उवाच:
अथार्जुनरथं वीरास्त्वदीय़ाः समुपाद्रवन् |
१८ क
सञ्जय़ उवाच:
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ||
१८ ख
सञ्जय़ उवाच:
उह्यमाना रथाश्वैस्ते पत्तय़श्च जिघांसवः |
१९ क
सञ्जय़ उवाच:
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमाय़ुधम् ||
१९ ख
सञ्जय़ उवाच:
तदाय़ुधमहावर्षं क्षिप्तं योधमहाम्वुदैः |
२० क
सञ्जय़ उवाच:
व्यधमन्निशितैर्वाणैः क्षिप्रमर्जुनमारुतः ||
२० ख
सञ्जय़ उवाच:
साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् |
२१ क
सञ्जय़ उवाच:
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ||
२१ ख
सञ्जय़ उवाच:
अथाव्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ |
२२ क
सञ्जय़ उवाच:
संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ||
२२ ख
सञ्जय़ उवाच:
तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा |
२३ क
सञ्जय़ उवाच:
आक्षिप्य शस्त्रेण वलाद्दैत्यानिन्द्र इवावधीत् ||
२३ ख
सञ्जय़ उवाच:
आदधत्सन्दधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः |
२४ क
सञ्जय़ उवाच:
विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ||
२४ ख
सञ्जय़ उवाच:
आश्चर्यमिति गोविन्दो व्रुवन्नश्वानचोदय़त् |
२५ क
सञ्जय़ उवाच:
हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ||
२५ ख
सञ्जय़ उवाच:
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षय़े |
२६ क
सञ्जय़ उवाच:
अवेक्षमाणो गोविन्दः सव्यसाचिनमव्रवीत् ||
२६ ख
सञ्जय़ उवाच:
एष पार्थ महारौद्रो वर्तते भरतक्षय़ः |
२७ क
सञ्जय़ उवाच:
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ||
२७ ख
सञ्जय़ उवाच:
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् |
२८ क
सञ्जय़ उवाच:
महतामपविद्धानि कलापानिषुधीस्तथा ||
२८ ख
सञ्जय़ उवाच:
जातरूपमय़ैः पुङ्खैः शरांश्च नतपर्वणः |
२९ क
सञ्जय़ उवाच:
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ||
२९ ख
सञ्जय़ उवाच:
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |
३० क
सञ्जय़ उवाच:
आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ||
३० ख
सञ्जय़ उवाच:
वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत |
३१ क
सञ्जय़ उवाच:
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ||
३१ ख
सञ्जय़ उवाच:
जाम्वूनदमय़ैः पट्टैर्वद्धाश्च विपुला गदाः |
३२ क
सञ्जय़ उवाच:
जातरूपमय़ीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ||
३२ ख
सञ्जय़ उवाच:
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् |
३३ क
सञ्जय़ उवाच:
अय़स्कुशान्तान्पतितान्मुसलानि गुरूणि च ||
३३ ख
सञ्जय़ उवाच:
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा |
३४ क
सञ्जय़ उवाच:
चक्राणि चापविद्धानि मुद्गरांश्च वहून्रणे ||
३४ ख
सञ्जय़ उवाच:
नानाविधानि शस्त्राणि प्रगृह्य जय़गृद्धिनः |
३५ क
सञ्जय़ उवाच:
जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ||
३५ ख
सञ्जय़ उवाच:
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् |
३६ क
सञ्जय़ उवाच:
गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ||
३६ ख
सञ्जय़ उवाच:
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः |
३७ क
सञ्जय़ उवाच:
निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ||
३७ ख
सञ्जय़ उवाच:
शरीरैर्वहुधा भिन्नैः शोणितौघपरिप्लुतैः |
३८ क
सञ्जय़ उवाच:
गतासुभिरमित्रघ्न संवृता रणभूमय़ः ||
३८ ख
सञ्जय़ उवाच:
वाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः |
३९ क
सञ्जय़ उवाच:
सतलत्रैः सकेय़ूरैर्भाति भारत मेदिनी ||
३९ ख
सञ्जय़ उवाच:
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः |
४० क
सञ्जय़ उवाच:
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||
४० ख
सञ्जय़ उवाच:
वद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः |
४१ क
सञ्जय़ उवाच:
निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा ||
४१ ख
सञ्जय़ उवाच:
कवन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः |
४२ क
सञ्जय़ उवाच:
भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ||
४२ ख
सञ्जय़ उवाच:
रथान्वहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् |
४३ क
सञ्जय़ उवाच:
अश्वांश्च वहुधा पश्य शोणितेन परिप्लुतान् ||
४३ ख
सञ्जय़ उवाच:
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् |
४४ क
सञ्जय़ उवाच:
निरस्तजिह्वान्मातङ्गाञ्शय़ानान्पर्वतोपमान् ||
४४ ख
सञ्जय़ उवाच:
वैजय़न्तीविचित्रांश्च हतांश्च गजय़ोधिनः |
४५ क
सञ्जय़ उवाच:
वारणानां परिस्तोमान्सुय़ुक्ताम्वरकम्वलान् ||
४५ ख
सञ्जय़ उवाच:
विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा |
४६ क
सञ्जय़ उवाच:
भिन्नाश्च वहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ||
४६ ख
सञ्जय़ उवाच:
वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि |
४७ क
सञ्जय़ उवाच:
वद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ||
४७ ख
सञ्जय़ उवाच:
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् |
४८ क
सञ्जय़ उवाच:
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ||
४८ ख
सञ्जय़ उवाच:
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः |
४९ क
सञ्जय़ उवाच:
छत्राणि चापविद्धानि चामरव्यजनानि च ||
४९ ख
सञ्जय़ उवाच:
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः |
५० क