chevron_left अनुशासन पर्व अध्याय १४
वासुदेव उवाच:
तपः सुमहदास्थाय़ तोषय़ेशानमीश्वरम् |
४९ क
वासुदेव उवाच:
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ||
४९ ख
वासुदेव उवाच:
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा |
५० क
वासुदेव उवाच:
तपसा व्रह्मचर्येण सत्येन च दमेन च |
५० ख
वासुदेव उवाच:
तोषय़ित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ||
५० ग
वासुदेव उवाच:
तेजसां तपसां चैव निधिः स भगवानिह |
५१ क
वासुदेव उवाच:
शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि |
५१ ख
वासुदेव उवाच:
आस्ते देव्या सहाचिन्त्यो यं प्रार्थय़सि शत्रुहन् ||
५१ ग
वासुदेव उवाच:
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः |
५२ क
वासुदेव उवाच:
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्वुदम् ||
५२ ख
वासुदेव उवाच:
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः |
५३ क
वासुदेव उवाच:
महादेववराच्छक्रं वर्षार्वुदमय़ोधय़त् ||
५३ ख
वासुदेव उवाच:
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च |
५४ क
वासुदेव उवाच:
शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ||
५४ ख
वासुदेव उवाच:
अर्द्यमानाश्च विवुधा ग्रहेण सुवलीय़सा |
५५ क
वासुदेव उवाच:
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ||
५५ ख
वासुदेव उवाच:
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् |
५६ क
वासुदेव उवाच:
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् |
५६ ख
वासुदेव उवाच:
ममैवानुचरो नित्यं भवितासीति चाव्रवीत् ||
५६ ग
वासुदेव उवाच:
तथा पुत्रसहस्राणामय़ुतं च ददौ प्रभुः |
५७ क
वासुदेव उवाच:
कुशद्वीपं च स ददौ राज्येन भगवानजः ||
५७ ख
वासुदेव उवाच:
तथा शतमुखो नाम धात्रा सृष्टो महासुरः |
५८ क
वासुदेव उवाच:
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः |
५८ ख
वासुदेव उवाच:
तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ||
५८ ग
वासुदेव उवाच:
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः |
५९ क
वासुदेव उवाच:
वलं च दैवतश्रेष्ठ शाश्वतं सम्प्रय़च्छ मे ||
५९ ख
वासुदेव उवाच:
स्वाय़म्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा |
६० क
वासुदेव उवाच:
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ||
६० ख
वासुदेव उवाच:
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् |
६१ क
वासुदेव उवाच:
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशय़ः ||
६१ ख
वासुदेव उवाच:
वालखिल्या मघवता अवज्ञाताः पुरा किल |
६२ क
वासुदेव उवाच:
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ||
६२ ख
वासुदेव उवाच:
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः |
६३ क
वासुदेव उवाच:
सुपर्णं सोमहर्तारं तपसोत्पादय़िष्यथ ||
६३ ख
वासुदेव उवाच:
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् |
६४ क
वासुदेव उवाच:
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ||
६४ ख
वासुदेव उवाच:
अत्रेर्भार्यापि भर्तारं सन्त्यज्य व्रह्मवादिनी |
६५ क
वासुदेव उवाच:
नाहं तस्य मुनेर्भूय़ो वशगा स्यां कथञ्चन |
६५ ख
वासुदेव उवाच:
इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ||
६५ ग
वासुदेव उवाच:
निराहारा भय़ादत्रेस्त्रीणि वर्षशतान्यपि |
६६ क
वासुदेव उवाच:
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ||
६६ ख
वासुदेव उवाच:
तामव्रवीद्धसन्देवो भविता वै सुतस्तव |
६७ क
वासुदेव उवाच:
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ||
६७ ख
वासुदेव उवाच:
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि |
६८ क
वासुदेव उवाच:
आराधय़ामास भवं मनोय़ज्ञेन केशव ||
६८ ख
वासुदेव उवाच:
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि |
६९ क
वासुदेव उवाच:
वत्साक्षय़ा च ते कीर्तिस्त्रैलोक्ये वै भविष्यति |
६९ ख
वासुदेव उवाच:
अक्षय़ं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ||
६९ ग
वासुदेव उवाच:
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे |
७० क
वासुदेव उवाच:
इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ||
७० ख
वासुदेव उवाच:
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ |
७१ क
वासुदेव उवाच:
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ||
७१ ख
वासुदेव उवाच:
मय़ापि च यथा दृष्टो देवदेवः पुरा विभुः |
७२ क
वासुदेव उवाच:
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ||
७२ ख
वासुदेव उवाच:
यदर्थं च महादेवः प्रय़तेन मय़ा पुरा |
७३ क
वासुदेव उवाच:
आराधितो महातेजास्तच्चापि शृणु विस्तरम् ||
७३ ख
वासुदेव उवाच:
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् |
७४ क
वासुदेव उवाच:
तत्सर्वमखिलेनाद्य कथय़िष्यामि तेऽनघ ||
७४ ख
वासुदेव उवाच:
पुरा कृतय़ुगे तात ऋषिरासीन्महाय़शाः |
७५ क
वासुदेव उवाच:
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः |
७५ ख
वासुदेव उवाच:
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ||
७५ ग
वासुदेव उवाच:
कस्यचित्त्वथ कालस्य धौम्येन सह माधव |
७६ क
वासुदेव उवाच:
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ||
७६ ख
वासुदेव उवाच:
तत्रापि च मय़ा दृष्टा दुह्यमाना पय़स्विनी |
७७ क
वासुदेव उवाच:
लक्षितं च मय़ा क्षीरं स्वादुतो ह्यमृतोपमम् ||
७७ ख
वासुदेव उवाच:
ततः पिष्टं समालोड्य तोय़ेन सह माधव |
७८ क
वासुदेव उवाच:
आवय़ोः क्षीरमित्येव पानार्थमुपनीय़ते ||
७८ ख
वासुदेव उवाच:
अथ गव्यं पय़स्तात कदाचित्प्राशितं मय़ा |
७९ क
वासुदेव उवाच:
ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ||
७९ ख
वासुदेव उवाच:
ततोऽहमव्रुवं वाल्याज्जननीमात्मनस्तदा |
८० क
वासुदेव उवाच:
क्षीरोदनसमाय़ुक्तं भोजनं च प्रय़च्छ मे ||
८० ख
वासुदेव उवाच:
ततो मामव्रवीन्माता दुःखशोकसमन्विता |
८१ क
वासुदेव उवाच:
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय़ माधव ||
८१ ख
वासुदेव उवाच:
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् |
८२ क
वासुदेव उवाच:
वने निवसतां नित्यं कन्दमूलफलाशिनाम् ||
८२ ख
वासुदेव उवाच:
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् |
८३ क
वासुदेव उवाच:
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ||
८३ ख
वासुदेव उवाच:
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् |
८४ क
वासुदेव उवाच:
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ||
८४ ख
वासुदेव उवाच:
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् |
८५ क
वासुदेव उवाच:
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ||
८५ ख
वासुदेव उवाच:
ततोऽहं तप आस्थाय़ तोषय़ामास शङ्करम् |
८६ क
वासुदेव उवाच:
दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ||
८६ ख
वासुदेव उवाच:
एकं वर्षशतं चैव फलाहारस्तदाभवम् |
८७ क
वासुदेव उवाच:
द्वितीय़ं शीर्णपर्णाशी तृतीय़ं चाम्वुभोजनः |
८७ ख
वासुदेव उवाच:
शतानि सप्त चैवाहं वाय़ुभक्षस्तदाभवम् ||
८७ ग
वासुदेव उवाच:
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः |
८८ क
वासुदेव उवाच:
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः |
८८ ख
वासुदेव उवाच:
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महाय़शाः ||
८८ ग
वासुदेव उवाच:
सुधावदातं रक्ताक्षं स्तव्धकर्णं मदोत्कटम् |
८९ क
वासुदेव उवाच:
आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ||
८९ ख
वासुदेव उवाच:
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा |
९० क
वासुदेव उवाच:
आजगाम किरीटी तु हारकेय़ूरभूषितः ||
९० ख
वासुदेव उवाच:
पाण्डुरेणातपत्रेण ध्रिय़माणेन मूर्धनि |
९१ क
वासुदेव उवाच:
सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ||
९१ ख
वासुदेव उवाच:
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम |
९२ क
वासुदेव उवाच:
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ||
९२ ख
वासुदेव उवाच:
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् |
९३ क
वासुदेव उवाच:
अव्रुवं च तदा कृष्ण देवराजमिदं वचः ||
९३ ख
वासुदेव उवाच:
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् |
९४ क