chevron_left भीष्म पर्व अध्याय ७८
सञ्जय़ उवाच:
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ||
४६ ख
सञ्जय़ उवाच:
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष |
४७ क
सञ्जय़ उवाच:
हय़ांश्च चतुरः शीघ्रं निजघान महारथः |
४७ ख
सञ्जय़ उवाच:
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ||
४७ ग
सञ्जय़ उवाच:
स हताश्वान्महावाहुरवप्लुत्य रथाद्वली |
४८ क
सञ्जय़ उवाच:
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ||
४८ ख
सञ्जय़ उवाच:
शकुनिस्तं समभ्येत्य राजगृद्धी महावलः |
४९ क
सञ्जय़ उवाच:
राजानं सर्वलोकस्य रथमारोपय़त्स्वकम् ||
४९ ख
सञ्जय़ उवाच:
ततो नृपं पराजित्य पार्षतः परवीरहा |
५० क
सञ्जय़ उवाच:
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ||
५० ख
सञ्जय़ उवाच:
कृतवर्मा रणे भीमं शरैरार्छन्महारथम् |
५१ क
सञ्जय़ उवाच:
प्रच्छादय़ामास च तं महामेघो रविं यथा ||
५१ ख
सञ्जय़ उवाच:
ततः प्रहस्य समरे भीमसेनः परन्तपः |
५२ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धः साय़कान्कृतवर्मणे ||
५२ ख
सञ्जय़ उवाच:
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः |
५३ क
सञ्जय़ उवाच:
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ||
५३ ख
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा भीमसेनो महावलः |
५४ क
सञ्जय़ उवाच:
सारथिं पातय़ामास ध्वजं च सुपरिष्कृतम् ||
५४ ख
सञ्जय़ उवाच:
शरैर्वहुविधैश्चैनमाचिनोत्परवीरहा |
५५ क
सञ्जय़ उवाच:
शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ||
५५ ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं यय़ौ |
५६ क
सञ्जय़ उवाच:
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ||
५६ ख
सञ्जय़ उवाच:
भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् |
५७ क
सञ्जय़ उवाच:
निजघान च सङ्क्रुद्धो दण्डपाणिरिवान्तकः ||
५७ ख