chevron_left अनुशासन पर्व अध्याय १४
उपमन्युरु उवाच:
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः |
१९० क
उपमन्युरु उवाच:
महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ||
१९० ख
उपमन्युरु उवाच:
अजरश्चामरश्चैव भव दुःखविवर्जितः |
१९१ क
उपमन्युरु उवाच:
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रिय़दर्शनः ||
१९१ ख
उपमन्युरु उवाच:
अक्षय़ं यौवनं तेऽस्तु तेजश्चैवानलोपमम् |
१९२ क
उपमन्युरु उवाच:
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ||
१९२ ख
उपमन्युरु उवाच:
तत्र ते भविता कामं सांनिध्यं पय़सो निधेः |
१९३ क
उपमन्युरु उवाच:
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ||
१९३ ख
उपमन्युरु उवाच:
वन्धुभिः सहितः कल्पं ततो मामुपय़ास्यसि |
१९४ क
उपमन्युरु उवाच:
सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ||
१९४ ख
उपमन्युरु उवाच:
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि |
१९५ क
उपमन्युरु उवाच:
स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ||
१९५ ख
उपमन्युरु उवाच:
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः |
१९६ क
उपमन्युरु उवाच:
ममेशानो वरं दत्त्वा तत्रैवान्तरधीय़त ||
१९६ ख
उपमन्युरु उवाच:
एवं दृष्टो मय़ा कृष्ण देवदेवः समाधिना |
१९७ क
उपमन्युरु उवाच:
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ||
१९७ ख
उपमन्युरु उवाच:
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् |
१९८ क
उपमन्युरु उवाच:
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ||
१९८ ख
उपमन्युरु उवाच:
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् |
१९९ क
उपमन्युरु उवाच:
सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः |
१९९ ख
उपमन्युरु उवाच:
सर्वमेतन्महावाहो दिव्यभावसमन्वितम् ||
१९९ ग