chevron_left स्त्री पर्व अध्याय १४
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् |
१ क
वैशम्पाय़न उवाच:
गान्धारीं प्रत्युवाचेदं वचः सानुनय़ं तदा ||
१ ख
वैशम्पाय़न उवाच:
अधर्मो यदि वा धर्मस्त्रासात्तत्र मय़ा कृतः |
२ क
वैशम्पाय़न उवाच:
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ||
२ ख
वैशम्पाय़न उवाच:
न हि युद्धेन पुत्रस्ते धर्मेण स महावलः |
३ क
वैशम्पाय़न उवाच:
शक्यः केनचिदुद्यन्तुमतो विषममाचरम् ||
३ ख
वैशम्पाय़न उवाच:
सैन्यस्यैकोऽवशिष्टोऽय़ं गदाय़ुद्धे च वीर्यवान् |
४ क
वैशम्पाय़न उवाच:
मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मय़ा ||
४ ख
वैशम्पाय़न उवाच:
राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम् |
५ क
वैशम्पाय़न उवाच:
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ||
५ ख
वैशम्पाय़न उवाच:
सुय़ोधनमसङ्गृह्य न शक्या भूः ससागरा |
६ क
वैशम्पाय़न उवाच:
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मय़ा ||
६ ख
वैशम्पाय़न उवाच:
तच्चाप्यप्रिय़मस्माकं पुत्रस्ते समुपाचरत् |
७ क
वैशम्पाय़न उवाच:
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शय़त् ||
७ ख
वैशम्पाय़न उवाच:
तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्व ते सुतः |
८ क
वैशम्पाय़न उवाच:
धर्मराजाज्ञय़ा चैव स्थिताः स्म समय़े तदा ||
८ ख
वैशम्पाय़न उवाच:
वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत् |
९ क
वैशम्पाय़न उवाच:
क्लेशिताश्च वने नित्यं तत एतत्कृतं मय़ा ||
९ ख
वैशम्पाय़न उवाच:
वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे |
१० क
वैशम्पाय़न उवाच:
राज्यं युधिष्ठिरः प्राप्तो वय़ं च गतमन्यवः ||
१० ख
गान्धार्यु उवाच:
न तस्यैष वधस्तात यत्प्रशंससि मे सुतम् |
११ क
गान्धार्यु उवाच:
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मय़ि ||
११ ख
गान्धार्यु उवाच:
हताश्वे नकुले यत्तद्वृषसेनेन भारत |
१२ क
गान्धार्यु उवाच:
अपिवः शोणितं सङ्ख्ये दुःशासनशरीरजम् ||
१२ ख
गान्धार्यु उवाच:
सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् |
१३ क
गान्धार्यु उवाच:
क्रूरं कर्माकरोः कस्मात्तदय़ुक्तं वृकोदर ||
१३ ख
भीमसेन उवाच:
अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम् |
१४ क
भीमसेन उवाच:
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ||
१४ ख
भीमसेन उवाच:
रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्व मा शुचः |
१५ क
भीमसेन उवाच:
वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ ||
१५ ख
भीमसेन उवाच:
हताश्वं नकुलं दृष्ट्वा वृषसेनेन संय़ुगे |
१६ क
भीमसेन उवाच:
भ्रातॄणां सम्प्रहृष्टानां त्रासः सञ्जनितो मय़ा ||
१६ ख
भीमसेन उवाच:
केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते |
१७ क
भीमसेन उवाच:
क्रोधाद्यदव्रुवं चाहं तच्च मे हृदि वर्तते ||
१७ ख
भीमसेन उवाच:
क्षत्रधर्माच्च्युतो राज्ञि भवेय़ं शास्वतीः समाः |
१८ क
भीमसेन उवाच:
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ||
१८ ख
भीमसेन उवाच:
न मामर्हसि गान्धारि दोषेण परिशङ्कितुम् |
१९ क
भीमसेन उवाच:
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु ||
१९ ख
गान्धार्यु उवाच:
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः |
२० क
गान्धार्यु उवाच:
कस्मान्न शेषय़ः कञ्चिद्येनाल्पमपराधितम् ||
२० ख
गान्धार्यु उवाच:
सन्तानमावय़ोस्तात वृद्धय़ोर्हृतराज्ययोः |
२१ क
गान्धार्यु उवाच:
कथमन्धद्वय़स्यास्य यष्टिरेका न वर्जिता ||
२१ ख
गान्धार्यु उवाच:
शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वय़ि |
२२ क
गान्धार्यु उवाच:
न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः ||
२२ ख