chevron_left सभा पर्व अध्याय १४
युधिष्ठिर उवाच:
उक्तं त्वय़ा वुद्धिमता यन्नान्यो वक्तुमर्हति |
१ क
युधिष्ठिर उवाच:
संशय़ानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ||
१ ख
युधिष्ठिर उवाच:
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रिय़ङ्कराः |
२ क
युधिष्ठिर उवाच:
न च साम्राज्यमाप्तास्ते सम्राट्शव्दो हि कृत्स्नभाक् ||
२ ख
युधिष्ठिर उवाच:
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति |
३ क
युधिष्ठिर उवाच:
परेण समवेतस्तु यः प्रशस्तः स पूज्यते ||
३ ख
युधिष्ठिर उवाच:
विशाला वहुला भूमिर्वहुरत्नसमाचिता |
४ क
युधिष्ठिर उवाच:
दूरं गत्वा विजानाति श्रेय़ो वृष्णिकुलोद्वह ||
४ ख
युधिष्ठिर उवाच:
शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः |
५ क
युधिष्ठिर उवाच:
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ||
५ ख
युधिष्ठिर उवाच:
एवमेवाभिजानन्ति कुले जाता मनस्विनः |
६ क
युधिष्ठिर उवाच:
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ||
६ ख
भीम उवाच:
अनारम्भपरो राजा वल्मीक इव सीदति |
७ क
भीम उवाच:
दुर्वलश्चानुपाय़ेन वलिनं योऽधितिष्ठति ||
७ ख
भीम उवाच:
अतन्द्रितस्तु प्राय़ेण दुर्वलो वलिनं रिपुम् |
८ क
भीम उवाच:
जय़ेत्सम्यङ्नय़ो राजन्नीत्यार्थानात्मनो हितान् ||
८ ख
भीम उवाच:
कृष्णे नय़ो मय़ि वलं जय़ः पार्थे धनञ्जय़े |
९ क
भीम उवाच:
मागधं साधय़िष्यामो वय़ं त्रय़ इवाग्नय़ः ||
९ ख
कृष्ण उवाच:
आदत्तेऽर्थपरो वालो नानुवन्धमवेक्षते |
१० क
कृष्ण उवाच:
तस्मादरिं न मृष्यन्ति वालमर्थपराय़णम् ||
१० ख
कृष्ण उवाच:
हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः |
११ क
कृष्ण उवाच:
कार्तवीर्यस्तपोय़ोगाद्वलात्तु भरतो विभुः |
११ ख
कृष्ण उवाच:
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ||
११ ग
कृष्ण उवाच:
निग्राह्यलक्षणं प्राप्तो धर्मार्थनय़लक्षणैः |
१२ क
कृष्ण उवाच:
वार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ||
१२ ख
कृष्ण उवाच:
न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः |
१३ क
कृष्ण उवाच:
तस्मादेतद्वलादेव साम्राज्यं कुरुतेऽद्य सः ||
१३ ख
कृष्ण उवाच:
रत्नभाजो हि राजानो जरासन्धमुपासते |
१४ क
कृष्ण उवाच:
न च तुष्यति तेनापि वाल्यादनय़मास्थितः ||
१४ ख
कृष्ण उवाच:
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं वलात् |
१५ क
कृष्ण उवाच:
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ||
१५ ख
कृष्ण उवाच:
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् |
१६ क
कृष्ण उवाच:
तं दुर्वलतरो राजा कथं पार्थ उपैष्यति ||
१६ ख
कृष्ण उवाच:
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे |
१७ क
कृष्ण उवाच:
पशूनामिव का प्रीतिर्जीविते भरतर्षभ ||
१७ ख
कृष्ण उवाच:
क्षत्रिय़ः शस्त्रमरणो यदा भवति सत्कृतः |
१८ क
कृष्ण उवाच:
ननु स्म मागधं सर्वे प्रतिवाधेम यद्वय़म् ||
१८ ख
कृष्ण उवाच:
षडशीतिः समानीताः शेषा राजंश्चतुर्दश |
१९ क
कृष्ण उवाच:
जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते ||
१९ ख
कृष्ण उवाच:
प्राप्नुय़ात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् |
२० क
कृष्ण उवाच:
जय़ेद्यश्च जरासन्धं स सम्राण्निय़तं भवेत् ||
२० ख